________________ स्तवकः ] . व्याख्यात्रयोपेतप्रकाशबोधनीयुते 15 निर्माणकायमधिष्ठाय (१)सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः, लोकवेद बोधनी। तत्साधनविषयौ प्रसिद्धौ। प्राप्तैश्वर्यभङ्गभीतिरभिनिवेशः। धर्माधर्मसाधनमश्वमेधादिब्रह्महत्यादि कर्म / जात्यायु गा विपाकाः। तत्र जातिर्देवत्वमनुष्यत्वादिः। प्राणाख्यस्य वायोः कायावच्छिन्नः सम्बन्ध आयुः / स्वसमवेतसुखदुःखान्यतरसाक्षात्कारो भोगः। आफलनिष्पत्तेरात्मनि शेत इत्याशयो धर्माधर्मरूपमपूर्वम् / एतैरपरामृष्टः सर्वदा सर्वथाऽसंसृष्टः / कथं तर्हि कर्माद्यभावे शरीरसम्बन्धः, कथं वा तदभावे सम्प्रदायप्रवर्तकत्वं, कथं वानुग्राहकत्वमित्यत उक्तं निर्माण इति / जगन्निर्माणार्थं स्वेच्छामात्रनिर्मितानि संसारिचेतनवर्गनिर्मितानि वा शरीराणि व्युत्पाद्यव्युत्पादकभावेनाधितिष्ठति / सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायो= वेदो धटपटव्यवहारश्च, तत्प्रवर्तको वक्ता प्रवक्ता च वेदे कर्त्ता ग्राहयिता चान्यत्र, अनुग्राहकः = स्वर्गापवर्गादिफलप्रदानादिनेति / लोकवेदविरुद्धः = चिताभस्मोद्भूलन देवदारुवनद्विजवधूविप्लवादिभिरनुष्ठितैरलेपः लोकगईयाऽधर्मेण रहितः / क्लेशसलिलावसिक्तायामात्मभूमौ उप्तं कर्मबीजमधर्माङ्कुरमारभते, न च नित्यसर्वज्ञस्य क्लेशसम्भवः / प्रकाशः। र्भावनासाध्यं यागहिंसादि / विपाको जात्यायुर्भोगाः / फलपर्य्यन्तमाशेरत इत्याशया = धर्माधर्माः / तैरपरामृष्टोऽसम्बद्ध इत्यर्थः। शरीरैकनिष्पाद्यवेदादिनिर्माणार्थं कायो निर्माण कायः / सम्प्रदीयते गुरुणा. शिष्यायेति सम्प्रदायो वेदः / स चानादिरेव भगवता द्योत्यते / . भगवतश्चादृष्टाभावेऽपि तच्छरीरसाध्यघटादिजन्यभोगजनकास्मदाद्यदृष्टैरेव तन्निष्पाद्यते। अनुग्राहको घटादिनिर्माणे शिक्षाद्वारेत्यर्थः / लोकेति / लोकविरुद्धः = सर्पदहनधारणादिभिः,(२) प्रकाशिका। येति / एकदण्डित्रिदण्डीत्यर्थः। यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदस्याङ्गीकारात् / तथाप्यभेदोऽपि तेन स्वीक्रियत एवेत्यभिप्रायेणेदमुक्तम्। बुद्धत्वमात्राभिप्रायेण वा साधारण्यमुक्तम्। 'एतदुभयमिति कचित् पाठः। तत्र केवलोपनिषदुपजीवी औपनिषदशब्दार्थः, तन्मूलकवेदान्तसूत्रोपजीवी वेदान्तिपदार्थ इति बोध्यम्। लेपपदस्य पापपरतायां तृतीयायाः करणार्थत्वमसम्भवि निर्लेपत्वप्रतियोगिनि लोकविरुद्धहेतुकस्यानन्वयादनुयोगिनि चोभयस्यैवानन्वयादित्युपलक्षणं मकरन्दः। इत्यन्ये / वेदे नित्यपाल्यत्वमुच्चार्यत्वं, न तूत्पाद्यत्वम् / स चेत्याद्यग्रिमग्रन्थानुरोधात् / ननु लेप शब्दस्य पापपरत्वे तृतीयायाः करणार्थत्वमयुक्तम् / लोकविरुद्धहेतुकलेपस्याप्रसिद्धरित्यत आह / टिप्पणी। एकदण्डित्रिदण्डिसाधारणम् / यद्यपि शुद्धमद्वैतं त्रिदण्डिमते नास्ति तेन भेदाङ्गीकारात् , तथाप्यभेदोऽपि तेनाङ्गीक्रियत एवेत्यभिप्रायोक्तिः / जात्यायु गा इति / जातिः ब्राह्मण्यादि / आयुः = श्वासप्रश्वासपरिच्छिन्नकालविशेषावधिकप्राणशरीरसंयोगः / भोगः = सुखदुःखादिः / फलपर्यन्तमाशेरते इत्याशया धर्माधर्मी इति तैरपरामृष्टोऽसम्बद्ध इत्यर्थः / (1) सम्प्रदायप्रवर्तक इति वरदराजाभिमतः पाठः। (2) सर्पदहनेत्यत्र द्वन्द्वः /