________________ न्यायकुसुमाञ्जलौ [ प्रथमः____ इह यद्यपि यं कमपि पुरुषार्थमर्थयमानाः, शुद्धबुद्धस्वभाव इत्यौपनिषदाः, अादिविद्वान् सिद्ध इति कापिलाः, क्लेशकर्मविपाकाशयैरपरामृष्टो बोधनी। प्रकरणारम्भमाक्षिपति / इहेत्यादिनाकिं निरूपणीयमित्यन्तेन / सन्दिग्धे न्यायः प्रवर्त्तते न हि सिद्धे / सिद्धश्चायमात्मा सर्ववादिनाम् / तस्मादस्य न्यायविषयत्वासम्भवात् तद्विषयकन्यायव्युत्पादकं प्रकरणं नारम्भणीयमिति तात्पर्यम् / इह-परमात्मनि प्रकरणे वा, किं निरूपणीयमिति सम्बन्धः, अर्थयमाना इत्यस्य चोपासते इत्यनेन / सर्ववादिसम्प्रतिपत्तिदर्शनं शुद्धत्यादि / शुद्धः= केवलः, अद्वितीय इति यावत् / अत एव बुद्धः स्वप्रकाशः / द्वितीयाभावे परप्रकाश्यत्वासम्भवात् / आदिविद्वान् स्वारसिकचैतन्यः, न तु बुद्धिवदिति ; छायापत्त्या तथात्वे सत्यादिविद्वत्ताविरोधात् / सिद्धः कूटस्थनित्यः, न तु प्रकृत्यादिवत् केनचिदपि रूपेण साध्य इति / अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशोः। तत्र विपरीतख्यातिरविद्या / अहमस्मीत्यभिमानोऽस्मिता। रागद्वेषौ सुखदुःख प्रकाशः। भगवदुपासना फलवती, निरूपणञ्च क्रियते, इत्यसङ्गतिं परिहरन् वादिनां विप्रतिपत्त्यभावेन न्यायाङ्गं संशयमाक्षिपति इहेति / इह = विचारे / सन्देह एव न्यायपूर्वाङ्गं कुतः / अत्र हेतुः प्रसिद्धानुभावे / अनुभावः असाधारणी कारणतामाह-यंकमपीति / यं कमपि-मोक्षादिकं स्वाभिमतं पुरुपार्थमर्थयमानाः, यमीश्वरमुपासते मननविषयीकुर्वन्तीत्यौपनिषदा इत्यादौ सर्वत्र सम्बन्धः / शुद्धः = एको, द्वितीयाभावात् / बुद्धः = स्वप्रकाशज्ञानात्मकः / द्वितीयाभावेन परप्रकाश्यत्वानुपपत्तेः, एतदुभयवेदान्तिसाधारणम् / आदीति / आदौ-प्रथमतो, विद्वांश्चिद्रूपः स्वभावतश्चेतनो, न तु प्रकृतिवच्चेतनोपरागादौपाधिकं चैतन्यं तस्येत्यर्थः / सिद्धो-नित्यो, न तु बुद्ध्यादिवत् साध्यः / तेन कूटस्थनित्यो, न तु प्रकृतिवत् परिणामिनित्य इत्यर्थः / एतच्च सकलक्षेत्रज्ञसाधारणत्वान्न परमात्मोत्कर्षाभिधायकमित्यन्यथा व्याख्येयम्। श्रादौ-सर्गादौ / विद्वान् ज्ञानवान् , सिद्धो = योगर्द्धिसम्पदुत्पादिताष्टविधैश्वर्य्यसम्पद्युक्त इत्यर्थः / यथोक्तं तत्त्वकौमुद्यां वाचस्पतिमित्रैः- “सर्गादावादिविद्वानत्रभवान् कपिलो महामुनिर्धर्मज्ञानवैराग्यैश्वर्यसम्पन्नः प्रादुर्बभूवेति स्मरन्तीति' / क्लेशेति / अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः / कर्म-धर्माधर्महेतु प्रकाशिका। परिहरन्निति वर्तमानसामीप्ये, तेन परिहरिष्यन्नित्यर्थः / अन्यथा परिहारस्य सिद्धान्तेनाभिधानादाक्षिपतीत्यनेनानन्वयापत्तेः / ननु सन्देहाभावे का क्षतिरत आह-न्यायेति / उभ मकरन्दः / ननु माऽस्तु सन्देह इत्यत आह / न्यायेति // त्रिदण्डिमतमेकदण्डिमतञ्चेत्युभयम् / बुद्धयात्मनोरेकत्वेन ज्ञानमस्मितेत्येके / अहङ्कार टिप्पणी। परिहरन् वादिनां विप्रतिपत्यभावेनेति / परिहन्निति वर्तमानसामीप्ये तेन परिहरिष्यन्नित्यर्थः। अन्यथा परिहारस्य सिद्धान्तेनाभिधानादाक्षिपतीत्यनन्वयापत्तेरिति। अनुभावोऽत्रासाधारणीकारणतामाहेति। प्रसिद्धोऽनुभावोऽसाधारणकार्य यस्येति व्युत्पत्त्या प्रसिद्धस्वकार्यकत्वरूपकारणत्वस्य लाभान्नानुभावशब्दस्याग्रेऽसाधारणकार्ये व्याख्यानेन विरोधः / उपासनास्वरूपमाह / शुद्ध एको द्वितीयाभावादिति। एतदुभयवेदान्तिसाधारणमिति /