________________ स्तवकः ] व्याख्यात्रयोपेतप्रकाशबोधनीयुते 13 प्रकाशिका। त्ययाभ्यां लक्षणया शक्तया वा उपास्धातुज्ञाने जाते ज्ञाप्यसम्बन्धिन्युपासनारूपेऽर्थे तिप्पदस्य लक्षणा गम्भीरायां नद्यामित्यत्र गम्भीरनदीतीरे नदीपदस्येव, अस्तु वा क्रियावाचित्वरूपे धर्ममात्र एव शक्तिाघवात् / अत्रापि कल्पे विशिष्टलक्षणा पूर्वकल्पवदेव। नचैवमेकलक्षणैवेति द्विरेफपददृष्टान्तोपादानम सङ्गतमिति वाच्यम् / न हि द्विरेफरदे लक्षणाद्वयं किन्तु शब्दघटितसम्बन्धेनैकैव लक्षणा, तथाचात्रापि शब्दघटितेन सम्बन्धेन शब्दोपस्थापकस्यार्थ लक्षणेत्यत्रैव च तदृष्टान्तोपादानात् / न च तत्र द्विरेफपदेन भ्रमरपदोपस्थितिः, तेन चार्थस्य शक्यस्योपस्थितिरिति नोक्तक्रमेणापि तद्दृष्टान्ततेति वाच्यम् / तथा सति द्विरेफपदोत्तर विभक्त्यर्थस्यार्थेऽनन्वयापत्तेरिति। वस्तुतस्तु उपास्तिपदस्यार्थे लक्षणेति कल्प एवायमसङ्गतः, “इश्तिपो धातुनिर्देशे” इति वार्तिकेन शब्दपरतायामेव तस्य साधुत्वानुशासनात् अन्यथाऽपादानानुशिष्टायाः पञ्चम्याः कर्मणि लक्षणया प्रयोगापत्तेः / न च सुविभक्ती लक्षणाविरहान्न तथेति वाच्यम् / तत्कल्पनायामपि साधुत्वविरहस्यैव मूलत्वात् / अत एव व्यत्ययानुशासनस्थले लक्षणा स्वीक्रियत एव। न च तत्र शक्तिरेव, अन्यथा व्यत्ययानुशासनवैयर्थ्यमिति वाच्यम् / गौरवात् , व्यत्ययानुशासनस्य लक्ष्यविशेष साधुत्वज्ञापकत्वात् / शितपो धातुत्वविशिष्टे शक्तिरित्यपि न युक्तम् / तस्य प्रकृतेः स्वरूपपरतायां तात्पर्यमात्रग्राहकत्वात् , अन्यथाऽस्तिर्धातु रित्यादिप्रयोगे पौनरुक्त्यापत्तेरिति // 2 // मकरन्दः / क्षणया लाभे तच्छक्त्यकल्पनात् / अन्यथा पौनरुक्त्यापत्तेः / तत्तद्धातुसमभिव्याहारे तत्तदनन्त शक्त्यापत्तेश्च / नचोपास्पद एव लक्षणा / तस्योपासनारूपार्थशक्तत्वादेव / प्रत्युत स्वलक्षणाभ्युपगमादिति चेत् / - अत्राहुः / उपास्तीत्यादिना उपास्धातुरित्यादिप्रत्ययाद् धातुत्वेन धातौ रितपः शक्तिः / तदिदमुक्तं, धातुरूपशब्दाभिधायकत्वेऽपीति / तथाच न शक्त्यानन्त्यादिदोषः / अन्यथा धातुत्वप्रकारकप्रत्ययानुपपत्तेः / न च धातुत्वं नानुगतमिति वाच्यम् / क्रियावाचित्वस्य तथात्वात् / नचैवं यागपाकपदादपि तत्प्रयोगापत्तिः / केवलस्यासाधुत्वात् / धातुसमभिव्याहारे च तत्तद्धात्वन्वयबोधजनननियमेन तदप्रतिपादकत्वात् / अत एव परमते कार्यत्वं लिङः प्रवृत्तिनिमित्तम् / अस्तु वा क्रियावाचित्वे धर्ममात्र एव शक्तिः, धर्मिणः प्रकृतिलभ्यत्वात् / एवञ्च प्रकृतिप्रत्ययाभ्यां स्वलक्षणया शक्त्या च उपासधातुरिति विशिष्टानुभवे जनिते स्वज्ञाप्यधातुत्वविशिष्टोपास्सम्बन्धिनि उपासनारूपेऽर्थे गभीरनदीतीरे तीरपदस्येव रितप्पदे लक्षणा / ज्ञाप्यसम्बन्धमात्रस्य लक्षणात्वात् / एवञ्च धातुशक्तत्वेऽपि लक्षणया धात्वर्थमात्रलाभः स्यान्न तूपासनारूपार्थलाभ इति निरस्तम् / नचैवमेकलक्षणैव, न तु लक्षितलक्षणेति द्विरेफपददृष्टान्तोपादानमसङ्गतभिति वाच्यम् / शन्दोपस्थापकस्यार्थे लक्षणेत्यत्र दृष्टान्तात् / किञ्च, द्विरेफपदेऽप्येकलक्षणेव परम्परासम्बन्धेनार्थों"पस्थापिका / यदि च तत्र श्रमरपदं लक्षयित्वाऽर्थो लक्ष्यते इति लक्षणाद्वयं, तदा प्रकृतेऽप्युपासपदं लक्षयित्वैवार्थो लक्ष्यते इति तुल्यम् / इयांस्तु विशेषो यत्तत्रैकमेवोभयलक्षकमत्र तु न तथेति / न हि सर्वप्रकारेण दृष्टान्तत्वम् / असम्भवात् / नचान्यपदार्थोपस्थितभ्रमरपदादेव भ्रमरपदार्थापस्थितिसम्भवे द्विरेफपदे कथमर्थलक्षणेति वाच्यम् / तथात्वे द्विरेफपदोत्तरविभक्त्यर्थस्य तत्रानन्वयापत्तेरिति दिक् // 2 // टिप्पणी। भावः // 2 //