________________ न्यायकुसुमाञ्जली [प्रथम: यदुपास्तिमसावत्र परमात्मा निरूप्यते // 2 // बोधनी। हेतुत्वे श्रुतीः प्रमाणयतीति // 2 // प्रकाशः। वाक्यस्य यथा वह्नि विषयानुमितिपर्यन्तव्यापारत्वमिति / ईश्वरमननाङ्गतया तत्प्रमाणव्युत्पादनमपि प्रयोजनवदिति सूचितम् / ईश्वरमननञ्च मोक्षहेतुः / “तमेव विदित्वाऽतिमृत्युमेति' इति श्रुत्या स्वात्मज्ञानस्येव ईश्वरज्ञानस्यापि तद्धेतुत्वप्रतिपादनात् / “द्वे ब्रह्मणी वेदितव्ये' इत्यत्र वेदनमात्रस्याकासितत्वेन प्रकृतत्वात् / श्रोतव्यो मन्तव्य इत्यादेरन्वयाच्च / ईश्वरमननञ्च यद्यपि मिथ्याज्ञानोन्मूलनद्वारा नोपयोगि, तथापि स्वात्मसाक्षात्कार एवोपयुज्यते। यदाहुः- “स हि तत्त्वतो ज्ञातः स्वात्मसाक्षात्कारस्योपकरोति" इति / यद्वा, श्रुत्या तद्धेतुत्वे प्रमापिते तदनुपपत्याऽदृष्टमेव तद्द्वारं कल्प्यते। केचित्तु मोक्षस्यात्र प्रस्तुतत्वात् स्वर्गपदं मुख्यमेव दृष्टान्तार्थमुपात्तमित्याहुः / उपास्तीत्यत्र, “ण्यासश्रन्थो युच्” [ पा० सू० 3 / 3 / 107 ] इति युज्न भवति / "क्वचिदपवादविषयेऽप्युत्सर्गः प्रवर्तते"-इति न्यायाद् , बहुलवचनाद्वा / यद्वा धातुनिर्देशे श्तिपोऽयं प्रयोगः / तस्य च धातुरूपशब्दाभिधायकत्वेऽप्यर्थे द्विरेफपदवल्लक्षणा // 2 // प्रकाशिका। तमेवेति। प्रकरणादीश्वरस्यैव तत्पदादुपस्थितेरिति भावः / ननूक्तयुक्त्येश्वरभननस्य मुक्त्यहेतुत्वेऽ. योग्यतया प्रकृतमपीश्वरमपहाय योग्यतयाऽऽत्मन एव तत्पदेन परामर्षः स्यादिति साशङ्क प्रमाणमपहाय निश्शङ्कमागमं प्रमाणयति। द्वे इति। वेदनमात्रस्येति / वेदनसामान्यस्येत्यर्थः। नन्वीश्वरमननानुपदमेव स्वात्मसाक्षात्कारानुत्पादाददृष्टद्वारा तहेतुत्वं वाच्यम्, एवं च लाघवाददृष्टद्वारा मुक्तावेव तत्कारणमस्तु, उपकारित्वं सहकारितवास्त्विति तथैव सिद्धान्तयति। यद्धति। उक्तबाधकान् मुक्तयसम्भव इत्याशङ्कानुद्धारान्नैवं स्यादित्यरुचिं विभावयति। केचिदिति। तस्य चेति। नन्वत्र श्तिपदे वा लक्षणा उपास्पदेवा ? नाद्यः, तस्य प्रकृतेः स्वबोधकत्वतात्पर्य ग्राहकतया.उपशब्दवदशक्तत्वात् , अन्यथा तत्तद्धातूपसन्धानेनानन्तशक्तयापत्तेः, स्वपरेणोपास्पदेन सह पौनरुक्तथापत्तेश्च / नान्त्यः, तस्यार्थे शक्तत्वादेवेति चेत् / मैवम् / धातुत्वेन रूपेण श्तिपोधातुमात्रे शक्तः, उपास्धातुरिति उपास्तीति पदात् प्रतोतेः,अत एवोक्तं तस्य चधातुरूपेति / धातुत्वं च क्रियावाचित्वमेव / नचैवं यागपाकादो पदे तिष्प्रयोगापत्तिः, केवलस्यासाधुत्वात्, धातुसमभिव्याहारे च तदुपस्थापकत्वादेव / एवं च प्रकृतिप्र मकरन्दः। तमेवेति / प्रकरणादीश्वरस्यैव तत्पदादुपस्थितेरिति भावः / ननूक्तयुक्त्येश्वरज्ञानस्य मुक्त्यहेतुत्वेनायोग्यतया तदपरामर्श स्वात्मैव तेन परामृष्यत इति यदि ब्रूयात्तत्राह / वे इति / नन्वेवमपि मननं नायातमित्यत आह / वेदनमात्रस्येति / वेदनसामान्यस्येत्यर्थः / नन्वनुपदं स्वात्मसाक्षात्कारानुत्पत्तेरदृष्टद्वारा तहेतुत्वं तस्य वाच्यमेवञ्च तद्द्वारामुक्तावेव तद्धतुत्वमस्तु लाघवात् , तदुपकारश्च तत्सहकारितयाऽप्युपपद्यत इत्यरुचेराह / यद्धेति / केचित्त्विति / उक्तबाधकान्मुक्त्यसम्भव इत्याशङ्कायां नैवं समाधानभित्यस्वरसो बोध्यः / तस्येति / ननु शितपस्तत्र न लक्षणा, तस्य प्रकृतेः स्वपरत्वतात्पर्यग्राहकत्वमात्रेणोपपत्तावुपसर्गवदशक्तत्वात् / किञ्च, तस्याशक्तत्वे किं लक्षणया, शब्दशक्तत्वे तस्योपास्पदादेव स्वल टिप्पणी। किम्चेत्यादेहत्तरमाह-ईश्वरमनननेति / मोक्षहेतुरत्रापि प्रयोजकत्वमेव हेतुत्वमिति