________________ स्तवकः ] - व्याख्यात्रयोपेतप्रकाशबोधनीयुते स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः / बोधनी। किमनेन परमात्मनिरूपणेनेत्यत्राह-स्वर्गापवर्गयोः इति / साक्षात्कृतपरमेश्वरप्रसादसहकृतमेव हि जीवात्मज्ञानमपवर्गमातनोति / तथाचामनन्ति-"द्वे ब्रह्मणी वेदितव्ये परं चापरं च” “द्वा सुपर्णा सयुजा सखाया'' इत्यादि / गुडजिबिकया रागिजनमावर्जयितुमत्र स्वर्गापादानं, तेऽपि दुःखसन्तमससन्ततासु सुखखद्योतिकासु निर्विद्य मुमुक्षवो भविष्यन्तीति भावः / न चैकस्या एवोपास्तेः कथं परस्परविरोधिस्वर्गापवर्गहेतुत्वमिति वाच्यम्। उपासकसङ्कल्पादिसहकारिविशेषेण सामग्रीभेदादुपपत्तेः / यद्वा, अत्र पूर्वत्र सूचितयोर्विषयप्रयोजनयोः स्पष्टीकरणेनेश्वरोपास्तेरपवर्ग प्रकाशः। .... स्वगति / स्वर्गयोरुत्कटरागगोचरयोः, अपवर्गयोरपरपरयोर्मुक्तयोः, मार्गमुपायमित्यर्थः / तथा च परापरमुक्त्योरेकानुष्ठानसाध्यतां दर्शयता जीवन्मुक्तिसहिता परममुक्तिः साध्येति दर्शितम् / तेन च न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य देहिन इत्यपूर्वकर्मोपार्जनशङ्का निरस्ता। ईश्वरमननञ्च न तद्गोचरं प्रमाणमव्युत्पाद्य शक्यं व्युत्पादयितुमिति तद्बोधक(१)प्रमाणव्युत्पादनमपि मोक्षहेतुः / प्रमाणव्युत्पादने च तत एव मननसिद्धौ न मननपर्यन्तं ग्रन्थव्यापारः, धूमोऽस्तीति प्रकाशिका। ममात्रगोचर इति दृष्टान्तार्थम् / ननु तत्प्रमाणव्युत्पादनस्य ग्रन्थरूपस्य शब्दात्मकतया तस्यानुमितिजनकत्वे शाब्दत्वानुमितित्वयोः सङ्करः स्यादत आह-प्रमाणव्युत्पादने चेति / मकरन्दः / नरूपग्रन्थस्य शब्दात्मकस्येश्वरानुमितिजनकत्वे जातिसङ्कर इत्यत आह / प्रमाणव्युत्पादने चेति / टिप्पणी। वेति ध्येयम् / हीनक्लेशस्य जीवन्मुक्तस्य प्रवृत्तिः, 'प्रतिसन्धानाय' अपूर्वकर्मणे न भवतीत्यर्थः। इति हेतौ, अयं शङ्कानिरासेऽन्वेति तथा च मुक्तिर्नालीकेति भावः / जीवन्मुक्तानां मद्यस्त्रीनिषेवणं, ब्रह्महत्यादिकं, तपो यज्ञादिकं च, केवलपूर्वकृतकर्मणां फलीभूतसुखदुःखादिहेतुतयैवावतिष्ठते न पुनः फलाय / तथा च श्रुतिः "जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे" "अभयं वै जनक प्राप्तोऽसीत्याद्या, एवं “तत्सुकृतदुष्कृते विधूनुते” “एनं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरव"मित्याद्यापीति। तदुद्वारेति।द्वारताया जन्यत्वव्याप्यत्वेनेश्वरमननस्य तत्त्वे शाब्दानुमितित्वयोः सङ्करप्रसङ्गोऽत आह-प्रमाणव्युत्पादने चेति। ततएव प्रमाणादेवेत्यर्थः / यागादेः स्वर्गपर्यन्तव्यापारत्वमदृष्टस्यान्यथाहेतुत्वानुपपत्त्या कल्प्यते / अनुमानप्रमाणस्यान्यत्र हेतुतायाः क्लप्तत्वादिति भाव / ग्रन्थव्यापार इति / साक्षाद्यापार इत्यर्थः / येन तत्र शाब्दत्वं स्यात् / साक्षाव्यापारस्तु प्रमाणप्रतिपत्तिपर्यन्तमेवेति भावः / द्वारता च परम्परयेति बोध्यम् / ननु प्रमाणव्युत्पादनस्य मननपर्यन्तव्यापाराभावेऽमृतरसेत्यादिना सूचितस्य प्रयोजनवत्त्वस्यानिर्वाह इत्यत आह-धूमोऽस्तीत्यादि / प्रमाणव्युत्पादनस्य सन्निहितत्वेन न मनने कश्चिद्विलक्षणो व्यापारः, अपि तु धूमोऽस्तीत्यादिवाक्यस्य व्यवहितस्येव साधारणो व्यापारोऽस्त्यवेति भावः / (1) तद्द्वारेति पाठान्तरम् /