________________ न्यायकुसुमाञ्जली [प्रथमः बोधनी / क्षते, तत्र न्यायेनोपार्जितः प्रसूनाञ्जलिायप्रसूनाञ्जलिरिति // 1 // - ननु देहादिव्यतिरिक्तस्य नित्यस्यापरस्यात्मनस्तत्त्वज्ञानं संसारनिदानतद्विषयमिथ्याज्ञानादिनिवृत्तिद्वारेण निर्वाणकारणं वर्णयन्ति / यथाहुः- "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायात्तदनन्तराभावादपवर्गः"(१) (न्या. सू . 1. 1. 2) इति / विवेचितश्चायमात्मतत्त्वविवेक इति प्रकाशः। अथ च न्याय इव प्रसूनाञ्जलिः - अञ्जलिस्थानि कुसुमानि, तत्रानघत्वं न्यायोपात्तत्वमप र्युषितत्वादि च / रूपकपक्षेऽपि न साधयं विना तदिति तदुभयसाधर्म्यमाह-सत्पनेति / "पचि व्यक्तीकरणे' इति धात्वनुसारात् पक्षशब्दो दलवचनः / सत्पक्षाणां प्रसरो यत्र, सता पक्षणानुकूलेन रविकिरणादिना विकाशो यस्येति वा। तेन हस्तादिना कलिकाप्रकाशो निषिद्धः / यद्वा, सत्पक्षप्रसरः =सदनुकूलविकाशः। सतां= सुकृतिनामनुपहतघ्राणानां, परिमलः = सौरभविशेषः, तस्य यः प्रोद्बोधः = प्रकृष्टज्ञानम् / तेन बद्धः = स्थिरीकृत उत्सवो येन स तथा। विमर्दने = करपुटसम्पर्के, न विम्लानो= नान्यथाभूतसंस्थानः / अमृतप्रायो रसः, तं प्रस्यन्दते इति प्रस्यन्दः / कर्मण्यण / अमृतरसप्रस्यन्द एव माध्वीकम् , तस्य भूरुत्पत्तिस्थानम् / यद्वा, अमृतमिव रसो यस्य / प्रस्यन्दते इति प्रस्यन्दः / अनयोः कर्मधारयः // 1 // ... ननु कर्मसु विद्यमानेषु जन्मानुच्छेदात् , तेषां चाभुक्तानामक्षयाद् भोगेन च तद्धेतुना पुनः कर्मान्तरार्जनात् क्वाशेषविशेषगुणोच्छेदो मोक्षः। नापीश्वरे प्रमाणव्युत्पादनस्य मोक्षहेतुत्वे मानमिति तन्निष्फलम् / किञ्च, ईश्वरमननस्य मोक्षहेतुत्वे मानाभावः “आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्त्तव्य इति श्रुतौ सामानाधिकरण्याद् यद्विषयकः साक्षात्कारो मोक्षजनकस्तद्विषयकं मननं मोक्षहेतुः। साक्षात्कारश्च न जीवात्ममात्रगोचरो, न वेश्वरविषयकस्तथा। मिथ्याज्ञानध्वंसद्वारा ह्यस्य तद्धेतुत्वम् / न च जीवात्ममात्रगोचरमीश्वरगोचरं वा मिथ्याज्ञानं संसारहेतुयेन तदुच्छेदस्तवारं स्यात् / किन्तु स्वात्मगोचरं मिथ्याज्ञानमिति तत्तत्त्वसाक्षात्कार एव मोक्षहेतुरित्यत आह / प्रकाशिका। न्यथा व्याचष्टे / अञ्जलिस्थानीति / नन्वमृतप्रायो रस इत्यत्र रसशब्दस्य गुणपरत्वे तं प्रस्यन्दत इत्यनन्वयः तस्य कर्मविशेषवाचकत्वात् , द्रव्यपरत्वे सुतरां तत एव / न च जनयतीति तस्यार्थः, तथाच गुणपरतयैव सङ्गतिरिति वाच्यम् / लक्षणापत्तेरित्यरुचेराह / यद्वति // 1 // नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह-किञ्चेति / जीवा मकरन्दः। ध्वीकोत्पत्तिस्थानकत्वादिकमसम्भवीत्यत आह / अञ्जलिस्थानीति // 1 // किञ्चेति। तथाचेश्वरमननद्वाराऽपि तद्व्युत्पादनं न मोक्षप्रयोजनमिति भावः। ननु प्रमाणव्युत्पाद टिप्पणी। प्रस्यन्दत इति अन्तर्भावितणिचः प्रयोगः, तेन स्यन्दधातोरकर्मकत्वेऽपि न क्षतिः // 1 // नन्वीश्वरमननद्वारा प्रमाणव्युत्पादनं मोक्षोपयोगि स्यादित्यत आह-किञ्चेति / साक्षात्कारश्च न जीवात्ममात्रगोचर इति / नायं प्रकृतोपयोगी किन्तु विवेचनमात्रं, दृष्टान्तार्थ (1) दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति विश्वनाथपञ्चाननसम्मतः पाठः। तदनन्तराभावादिति न्यायसूचीनिबन्धे न्यायसूत्रविवरणे च पाठः /