________________ पंचमस्तवके] ईश्वरसाधनम्। तथा प्रयत्नविषयसमवायिनीमिष्टसाधनतामधिगम्याधिकारी प्रवर्तते इत्यनुभवः // प्रकाशः। ननु तादृशकृतिसाध्यत्वज्ञानाच्चिकीर्षा ततः कृतिः कृतौ सत्यां प्रत्यक्षेण कृतिसाध्यताज्ञानमित्य. न्योन्याश्रयात् , कृतिसाध्यतोत्तीर्णे चिकिर्षाकृत्योरसम्भवाच्च / नानुमानात् , कृतक्रियमाणयोः पक्षत्वे कृतिसाध्यतोत्तीर्णत्वेन बाधात् , भाविपक्षत्वे चाश्रयासिद्धेः। ___ उच्यते-पाको मत्कृतिविशेषसाध्यः मत्कृतिं विनाऽसत्त्वे सति मदिष्टसाधनत्वात् मद्भोजनवत् / यस्य यदिष्टसाधनं यदा यत्कृति विना न सिध्यति, तत् तदा तत्कृतिविशेषसाध्यमिति व्याप्तेः, असिद्धस्येष्टसाधनत्वाभावात् / ___ न च पक्षानुपपत्तिः, पाके कृतिसाध्यत्वं हि सिध्यत् सिद्धे बाधादनागतं पाकमादाय सिध्यति, पक्षतावच्छेदकधर्मसामानाधिकरण्यं साध्यमानस्य हेतुना सिध्यतीत्यनुमाने क्लृप्तत्वात् / यथा प्रसिद्धवह्निबाधेऽपि बह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि बह्निः सिध्यति, तथा प्रसिद्धपाके कृतिसाध्यत्वबाधेऽपि पाकमात्रे न बाधितमित्यप्रसिद्धं पाकमादाय सिध्यति, अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् / तथापि प्राथमिकत्वादावश्यकत्वाच्च लिङ्गज्ञानमेव प्रवर्तकमस्तु / न च लाघवात् कृतिसाध्यत्वं तथा, तदा कृतिसाध्यत्वानुमितौ मानाभावेन युगदुपस्थित्यभावादिति चेत् / न लिङ्गज्ञाने कृतिसाध्यत्वाप्रकाशे तत्प्रकारकचिकीर्षायां ननु कृतिसाध्यत्वस्य विधित्वे 'ज कलजं भक्षयेदि'त्यत्र विध्यर्थनिषेधानुपपत्तिः / कलजभक्षणं न कृतिसाध्यमित्यस्यायोग्यत्वात् / न, तत्रापूर्वस्य लिङर्थत्वेन कलाभक्षणप्रवृत्तं प्रति कलजभक्षणाभावाविषयकापूर्वस्य कृतिसाध्यत्वेन बोधनात् / न चानादित्वेन प्रागभावो न साध्यः, भक्षणप्रवृ. तस्य हि भक्षणप्रागभावस्तस्कृति विनोत्तरकाले न भवति तत्कृत्या तु भवतीत्यन्वयव्यतिरेकाभ्यां तत्कृतिसाध्य एवानुभूयते / न हि कृत्यनन्तरक्षणे घटस्वरूपं कृत्यधनीनमित्यतोऽन्यत् कृतिसा. ध्यस्वं घटे / इयांस्तु विशेषः / क्वचित् कृत्यधीनः प्राक्कालयोगः क्वचिदुत्तरकालयोग इत्युभयोरपि योगक्षेमयोः कृतिसांध्यत्वमानुभविकम् अत, एवेदं मत्तोऽभूतमिति व्यवहारः / / * ' ननु कृतौ नष्टायां सन्नपि धर्मी न कार्य्यः, तथासति कथमपूर्व कार्ये कामिनोऽन्वयः ? आशुविनाशितया क्रियातुल्यत्वात् / मेवम् , यवृत्ति काम्यसाधनत्वं तत्र कार्यताबुद्धिः प्रयोजिका, न तु कार्यताविशिष्टस्य काम्यसाधनताविशिष्टतेति व्याप्तिः / तस्मात् कृतिसाध्यत्वमेव विधिः।। __ अत्रोच्यते-कृतिसाध्वताज्ञानस्य प्रवर्तकत्वे तृप्तोऽपि भोजने प्रवर्तेत तथा विशेषदर्शनेऽपि चैत्यवन्दनादौ। ___ अथ स्वविशेषणवत्ताप्रतिसन्धानजन्य कार्य्यताज्ञानं प्रवर्तकम् / तथा हि-काम्ये पुरुषविशेषणं कामना, ततः काम्यसाधने यागपाकादौ कार्यताज्ञानम् / नित्ये च कालशौचादि स्वविशेषणम् / तृप्तस्य तृप्तौ कामनाविरहेणेष्टसाधनताज्ञानाभावात् न तथा बोधः। विशेषदर्शने च भ्रमदशायामिव चैत्यवन्दने नेष्टसाधनताज्ञानं, येन तज्जन्यकार्यताबोधात् प्रवर्तेत / प्रकाशिका। अत एवेदं मत्तोऽभूतमित्यकारप्रश्लेषः अभवनस्य प्रागभावरूपत्वादित्यर्थः / क्वचिन्मत्तो न भूत इति पाठः, स तु सुगम एव / तत्र कार्यताबुद्धिःप्रयोजिकेति / तद्धम्मिनिष्टकाम्यसाधन• ताज्ञानमेव कार्यताबुद्धिप्रयोजकम् न तु कार्यताविशिष्टस्य काम्यसाधनत्वज्ञानमित्यर्थः। तथा विशेषवर्शनेऽपीति / इष्टसाधनत्वज्ञानेऽपीत्यर्थः / बलवदनिष्ठाजनकत्वेन कृतिविशेषणेऽपि तत्रातिप्रसा