________________ 558 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [ 13 कारिकाव्याख्यायां तया-इति / यथा हि नेष्टसाधनतामात्र प्रतीत्य प्रवर्तते, असाध्येषु व्यभिचारात्। प्रकाशः। विषभक्षणादौ व्यावर्तककृतिवृत्तिबलवदनिष्टाजनकचिकीर्षाधीनत्वमेव, न विष्टसाधनत्वम् / कृतिवृत्तिधर्मापेक्षया वहिरङ्गत्वात् जीधनयोनिकृतिजन्यप्राणादिसञ्चारनिवृत्त्यर्थमावश्यकत्वात् भोगचिकीर्षायां व्यभिचाराच्च / न चोपायचिकीर्षेष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावदिति वाच्यम् / साध्यत्वसाधनत्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् / असिद्धतां सिद्धताश्चादाय तयोर्व्यवस्थितेः / न च यदस्तुतः कृतिसाध्यं तदिष्टसाधनमिति ज्ञायते इति युक्तम् / कृतिसाध्यतोत्तीर्णशानात् चिकीर्षाऽनुत्पत्तेः / अपि च साधनत्वस्य सिद्धमात्रधर्मत्वात् साधनत्वज्ञानमिच्छाविरोधि, न हि कश्चित्कृतिसिद्धमिच्छति, अतोऽसुन्दरे वृष्टयादौ चेच्छा तत्साध्येष्टज्ञानात् / . अथ तादृशकृतिसाध्यत्वे कृतिर्न विशेषणम् , असत्त्वात् , सत्त्वे वा कृतौ सत्यां कृतिसाध्यताज्ञान, तथा ज्ञाने च कृतिर्वेत्यन्योन्याश्रयः / नोपलक्षणम् , अनतिप्रसक्तोपलक्ष्याभावादिति चेत् / न / ज्ञाने विषयतया कृतेविशेषणत्वात् , साध्ये च प्रवृत्तिविषये परिचायकतयोपलक्षणत्वात् , अन्यथेष्टसाधनतापक्षेऽपीष्टस्य तथाविधविकल्पप्रासात् / प्रकाशिका। बलवदनिष्टजनकत्वस्य चिकीर्षाविशेषणत्वेऽपि न क्षतिरित्याह बलपदनिष्टाजनकचिकीर्षाधीनत्वमिति / वलवदनिष्टाजनकत्वस्य पूर्व कृतिविशेषणतयोक्तस्यायमुपसंहारो, न तु पक्षान्तरमिति ध्येयम् / केचित्त-बलवदनिष्ठाजनकचिकीर्षाजन्यचिकीर्षाधीनत्वमिति पाठः / तत्र बलवदनिष्टाजनिका या चिकीर्षा तज्जनकं यच्चिकोर्षाधीनत्वमुक्तरूपन्तदेव विशेषणमिति योजनया पूर्वोक्त एवार्थः / ननु यागस्येव कृतेरपीष्टसाधनस्त्रं धर्म इति तुल्यमेवान्तरशत्वमित्यत आह जोवनयोनिकृतीति / यद्यपि तव्यावर्तकं चिकीर्षाधीनत्वमात्रं बलवदनिष्ठाजनकत्वमपि, तथापि मधुविषसंपृक्तान्नभोजनव्यावृत्तये तदप्यावश्यकमिति भावः / भोगेति / तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः / वस्तुतः कृतिसाध्यमिति। यदा कदापीति शेषः / कृतिसाध्यतोत्तोर्णेतीति / सिद्धत्वज्ञानादित्यर्थः / अन्यथा साधनत्वस्यैव अप्रहादित्यर्थः / मकरन्दः। यद्यपि बलवदनिष्टाजनकत्वं कृतौ विशेषणीकृतं प्राक् , तथापि चिकीर्षाविशेषणत्वेऽपि न दोष इत्याशयवानाह बलवदनिष्टाजनकचिकीर्षाधीनत्वमिति / वस्तुतो बलवदनिष्टाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थः, तथा च न पूर्वविरोधः / क्वचित्तु वलवदनिष्ठाजनकचिकीर्षाजन्ययत्नचिकीर्षाधीनत्वमिति पाठः / तत्र बलवदनिष्टाजनकचिकीर्षाजन्ययत्ने यच्चिकीर्षाधीनत्वमुक्तरूपं, तदेव विशेषणमिति योजनया तादृशार्थलाभ इत्याहुः / ___ ननु यागस्येव कृतेरपीष्टसाधनत्वं धर्म इति तुल्यमेवान्तरङ्गत्वमत आह जीवनयोनिजेति / यद्यपि तव्यावर्तकं चिकीर्षाधीनत्वमानं न तु बलवदनिष्टाजनकत्वमपि, तथापि मधुविषसंपृकानभोजनव्यावृत्यथं तदावश्यकमिति भावः। ___ भोगेतीति / तस्य स्वतःपुरुषार्थत्वेनेष्टसाधनत्वाभावादित्यर्थः / वस्तुत इति-यदा कदा. कृतिसाध्यतोत्तीर्णेति / सिद्धत्वज्ञानादित्यर्थः, अन्यथा साधनत्वस्यैवाप्रहादिति भावः / शेषं शब्दप्रकाशे प्रपश्चितमनुसन्धेयम् / श्रत एवेदं मत्तोऽभूतमित्यत्राकारप्रश्लेषः, अभवनस्य प्रागभावरूपत्वादिस्यर्थः। अत एव क्वचित् मत्तो न भूतमित्येव पाठः। पीत्यर्थः।