________________ पंचमस्तवके] ईश्वरसाधनम् / ततश्च कर्त्तव्यतैकार्थसमवायिनी इष्टसाधनता लिङर्थ इत्यबधारयति / न च - वाच्यम्-एवञ्चेत् वरं कर्चव्यतैवास्तु, अवश्याभ्युपगमनीयत्वात् ; कृतमिष्टसाधन प्रकाशः। भवात् , पाकं कुर्य्यामित्यस्य पाकं कृत्या साधयामीति विवरणाच्च / सा स्वकृतिसाध्यताज्ञानसाध्या, इच्छायाः स्वजनकज्ञानसमानप्रकारकत्वनियमात् / अत एव स्वकृतिसाध्ये प्रवर्तते, न त्विष्टसाधनेऽपि स्वकृत्यसाधे। अथ कृत्या साध्येऽपि विषभक्षणादावप्रवृत्तेरिष्टसाधनत्वमादाय विधिः / न च तत्रानिष्टसाधनताज्ञानं प्रतिबन्धकम् , प्रवृत्तौ तदभावस्य हेतुत्वे गौरवापत्तेः / तद्वरं लाघवादिष्टसाधनत्वं विषयतावच्छेदकमस्तु / न च प्रवृत्तेः पूर्वमनिष्टसाधनताज्ञानविरह उभयसिद्धः, इष्टसाधनताज्ञानश्च सन्दिग्धम् , अतो युगपदुपस्थित्यभावान्न लाघवावतार इति वाच्यम् / त्वयाऽपि प्रवृत्तेः पूर्वमिष्टसाधनताज्ञानविनियोगस्वीकारात् / यत्र शब्दादनुमानाद्वा तदधिगतं, तत्र तदभावाच, तस्माद्विषभक्षणादौ वृष्ट्यादौ च प्रत्येकं व्यभिचारात् कृतिसाध्यत्वे सतीष्टसाधनत्वं विधिरिति / न / विषभक्षणादौ स्वकृतिसाध्यत्वाभावात् , न हि कश्चिद्विषभक्षणं चिकीर्षति ततः करोतीति दृश्यते, जीवनयोनिकृतिसाध्यञ्च तन्न भवत्येव, न चान्या कृतिरस्ति / ___ अथेष्टसाधनताभ्रमानन्तरं विषभक्षणमपि चिकिर्षाजन्यकृतिसाध्यम् , अतो विशेषदर्शनेऽपि तत्र प्रवर्ततेति चेत् / न / द्विधा हि कृतिरनुभूयते, बलवदनिष्टजनिका यथा विषभक्षणादौ, तदजः निका च यथा पाकादौ, तदिह बलवदनिष्टाजनककृतिसाध्यत्वं विवक्षितम् / न च विषभक्षणे तदस्ति। अत एव तत्र प्रथममिष्टसाधनतया तथाविधकृतिसाध्यत्वमविद्यमानमवगत्य प्रवर्त्तते, प्रवृत्यनन्तरञ्च बलवदनिष्टहेतुकृतिसाध्यत्वं विरोधि तत्र विगतमिति न प्रवत्तते / तथाभूतकृतिसाध्यत्वं पूर्वानुभूतं स्मृत्वा प्रवर्ततेति चेत् / न / विशेषदर्शनेन भ्रमाहितसंस्कारोन्मूलनात् , अन्यष्टसाधनतास्मरणेऽप्यप्रतोकारात् / न चैवं श्रमेऽपि प्रवर्तेत, स्वेच्छाजन्यकृतिसाध्यस्य विवक्षितत्वात् / श्रमस्य च नियमतोऽन्येच्छाधीनकृतिसाध्यत्वं, दुःखत्वेन तत्रेच्छाविरहात्। अतएव स नान्तरीयक इत्युच्यते / न चैवमिच्छाज्ञानस्य प्रवर्तकत्वप्रसङ्गः, कृतौ परिचायकमात्रत्वात्। _____ या कृतौ स्वरूपसतीच्छा जनिका, इच्छायान्तु तज्ज्ञानं जनकमस्तु, को विरोधः / न हि यदेकत्र स्वरूपतो हेतुस्तज्ज्ञानमन्यत्र न जनकम् / एवं चिकीर्षा हेतुतया कृतिसाध्यताज्ञाने व्यवस्थिते प्रकाशिका। तस्माद्विषभक्षणादाविति / विषभक्षणे कृतिसाध्यत्वेऽपीष्टसाधनत्वाभावात् वृष्टयादौ इष्टसाधनत्वेऽपि कृतिसाध्यत्वाभावात् न प्रवृत्तिरिति भावः / विषभक्षणे कृत्यसाध्यत्वादेव प्रवृत्तिर्नेत्यत अाह न हि कश्चिदिति / ननु चिकीर्षाधीनकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यमेव विषभक्षणं स्यादित्यत आह जीवनयोनीति / इच्छायान्त्विति / चिकीर्षायामित्यर्थः / तथाचेच्छाज्ञानस्य प्रवर्तकत्वं बाधितमेव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः / मकरन्दः। ननु चिकीर्षाजन्यकृतिसाध्यत्वाभावेऽपि जीवनयोनिकृतिसाध्यत्वं स्यादित्यत आह जीवनेति / इच्छायान्त्विति / चिकीर्षायामित्यर्थः। तथाचेच्छाज्ञानस्य प्रवर्तकत्वप्रसङ्गो वारित एव, कृतौ स्वरूपसदिच्छाया एव हेतुत्वाभ्युपगमादिति भावः / वस्तुतश्चिकीर्षाहेतुज्ञानस्यैव प्रवर्तकत्वमितीच्छाज्ञानस्य चिकीर्षाहेतुत्वे प्रवर्तकत्वापत्तिरिति प्रथमकल्प एव साधुरिति /