________________ 556 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 13 कारिकाव्याख्यायाँ . धात् , अधिकत्वेऽपि ततोऽप्रवृत्तेः। बालानां तदभावेऽपि तद्भावात् / शब्दान्तरेण तच्छाविणामध्यप्रवृत्तेः। न च विलक्षणैव सा लिङो विषयः। तदैलक्षण्यं प्रतीतं प्रति चेत्, अर्थविशेषोऽपि स्यात् / प्रवृत्तिमात्रं प्रति चेत् , अभिधासमवेतं तदिति कुतः ? तत्सन्निधानादिति चेत् / न / अनियमात् / अन्यस्य सर्वस्य निषेधादिति चेत् / न / प्रवृत्तिहेतुत्वनिषेधस्य तुल्यत्वात् / शब्दैकवेद्यत्वे चाव्युत्पत्तेः। प्रवृत्त्यन्यथाऽनुपपत्तिसिद्ध व्युत्पत्तिरित्यपि वार्तम् / न हि प्रवृत्तिहेतुः कश्चिदस्तीति प्रवर्तते / इष्टसाधनता तु स्यात् / सर्वो हि मया क्रियमाणमेतन्मतं समीहितं साधयिष्यतीति प्रतिसन्धत्ते, तत इच्छति कुर्यामिति, ततः करोतोति सर्वानुभवसिद्धम्। तयं व्युत्पित्सुर्यज्ज्ञानात् प्रयत्नजननीमिच्छामवाप्तवान् , तज्ज्ञानमेव लिङ्श्राविणः प्रवृत्तिकारणमनुमिनोति / प्रकाशः। शब्दव्यापारोऽभिधा लिङ्वाच्या, तथापि नासौ प्रवृत्तिहेतुः अपुरुषार्थत्वादित्याह अधिक स्वेऽपोति / अभिधायामव्युत्पन्नानामभिधाज्ञानाभावेऽपि प्रवृत्तिसत्त्वादित्याह बालानामिति / अभिधादिपदैरभिधां ज्ञातवतोऽप्यप्रवृत्तेरित्याह शब्दान्तरेणेति / ___अथाभिधादिपदात्तत्सामान्यज्ञानेऽपि न प्रवृत्तिः, लिङभिधेयविलक्षणाभिधाज्ञानस्य प्रवर्तकस्य ततोऽनुत्पादात् , अत एव नाख्यातान्तरेण तज्ज्ञानेऽपि प्रवृत्तिः, अत्राह न चेति / प्रतिपत्ति प्रतोति / प्रतिपत्तिविशेषकमित्यर्थः / अर्थविशेषोऽपोति। अर्थविशेषं विना बुद्धिविशेषस्यानुत्पत्तेरित्यर्थः। यदि प्रवर्तकज्ञानविशेषादेव सोऽर्थः प्रतीयते, तदा लोके यत्प्रतीयमानं प्रवर्तकत्वेन ज्ञातं तत् लिङा वाच्यम् , न चाभिधायां तत्सम्भवतीति भावः। __ अथाभिधाज्ञानमात्रस्याप्रवर्तकत्वात् प्रवृत्त्यैव तद्वैलक्षण्यमनुमेयं, तत्राह प्रवृत्तिमात्रमिति / तदिति / अभिधायाः सन्निहितत्वात्तद्वैलक्षण्यं प्रवर्तकमित्यर्थः / नानियमादिति / बौद्धसभिधानं धात्वर्थे इष्टसाधनत्वे चास्तीत्यर्थः / प्रवृत्तिहेतुत्वस्य निषेधः प्रमाणान्तरात् , विधिवादसभिधेर्वा ? श्राद्ये प्रवृत्तिहेतुत्वेति / अन्त्ये तत्सनिधीति / यथाऽभिधायां विधिसन्निधिनिषेधोऽशक्यः, तथा धात्वर्थादावपीत्यर्थः। ननु मानान्तरादभिधाज्ञानेऽपि न प्रवृत्तिः, लिङादिपदैकवेद्याभिधाज्ञानस्य प्रवर्तकत्वादित्यत आह शब्दैकेति / एवं तत्र लिङादिशक्तिग्रह एव न स्यात् , मानान्तरेण तदनुपस्थितेरित्यर्थः / न हीति / प्रवृत्त्यन्यथानुपपत्त्या हि तद्धेतुः कश्चिदित्येव ज्ञानं स्यात् , न च तत्प्रवर्तकमित्यर्थः / द्वितीयं पक्षमाह इष्टसाधनता विति।करणधर्मो विधिरिति शेषः / तदुपपादयति सर्वो हीति। मयेत्यादिनाऽसाध्ये कृत्यसाध्ये स्वकृत्यसाध्ये च प्रवृत्तिनिवारिता। तदयमिति / ननु कार्य्यत्वमेव विधिः, तथाहि-ज्ञानस्य कृतावुत्पाद्यायां चिकीर्षाऽतिरिकं न कर्त्तव्यम् , सा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयेच्छा, पाकं कृत्या साधयामीति तदनु प्रकाशिका। प्रतीयमानमिति / इष्टसाधनत्वादिकमित्यर्थः / मकरन्दः। अपुरुषार्थत्वादिति / पुरुषार्थसुखादिप्रतिसन्धान विना प्रवृत्त्यभावादिति भावः। यत्प्रतीयमानमिति / इष्टसाधनत्वादिकमित्यर्थः /