________________ पंचमस्तवके] ईश्वरसाधनम्। अस्तु तर्हि करणधर्मः। न। करणं हि शब्दः, तद्धोऽभिधा वा स्यात्, तदर्थो भावनादिर्वा, तद्धर्म इष्टसाधनता वा ? न प्रथमः, असत्त्वादप्रवृत्तेश्च नाभिधाऽपि गरीयसी। बाधकस्य समानत्वात् परिशेषोऽपि दुर्लभः // 13 // सङ्गतिप्रतिसन्धानाधिकायां तस्यां प्रमाणाभावात् / अन्यसमवेतस्यापूर्ववदन्यव्यापारत्वेनाप्युपपत्तेः। विषयतयाऽपि च स्वव्यापार प्रति लिङ्गवद्धतुभावाविरो प्रकाशः। पराभिमतशब्दधर्मस्वरूपाभिधायां मानाभावादित्याह असत्त्वादिति। तत्सत्त्वेऽपि पदान्तरेण तदुपस्थितौ ततोऽपि न प्रवृत्तिरित्याह अप्रवृत्तेश्चेति / सर्वत्रान्यत्र पक्षेषु बाधकसत्त्वात् परिशेषेणाभिधा लिङर्थ इत्यपि नास्ति, तत्रापि बाधकसत्त्वादित्याह बाधकस्येति / ननु शब्दस्य वाक्यार्थधीकारणत्वात् तस्य व्यापारेण भाव्यमवश्यमित्यभिधैव तद्वयापारः / किञ्च पदानां प्रत्येकमर्थज्ञानाजनकत्वादाशुविनाशितया क्रमभावितया च तन्मेलकस्याभावादर्थज्ञा. नानुपपत्त्या अभिघा कल्प्यते इत्यत आह सङ्गतीति / सङ्गतिस्मृतिरेव पदस्यावान्तरव्यापारः, एकस्मृतिविषयानुपूर्वीविशेषविशिष्टपदमालैव पदार्यस्मृतिव्यापारा वाक्यार्थधीकरणमिति न तत्र मानमित्यर्थः / ननु सङ्गतिस्मृतिर्न शब्दव्यापारः, व्यापारिणं विहायान्यत्रात्मनि तत्समवायात् , ततो यः शब्दसम्बन्धस्तद्वयापारः साऽभिधा स्यादित्यत आह अन्येति / यथाऽऽत्मसमवेतमपूर्व यागादेः करणस्य व्यापारः, तथा सङ्गतिस्मृतिरपि तादृशी शब्दव्यापार इत्यर्थः / अतएव-यद्वयापारे कर्तृ तदेव फरणं, यथा पाककरणानि काष्ठानि ज्वलनावान्तरव्यापारकर्त्तणि, न च विषयज्ञाने शब्दः कर्ता किन्तु कर्म-इत्यपास्तम् / कर्तृपदस्य मुखार्थतायामचेतनस्य व्यापारासम्भवात् , हेतुमात्रविवक्षायाश्च प्रकृतेऽन्यदोषादिति भावः। ननु व्यापारी व्यापारकारणं भवति, न च सङ्गतिस्मृतौ पदं कारणम् , अतः शब्दजन्याभिधा मन्तव्येत्यत आह विषयतयाऽपीति / यथा लिङ्गस्य स्वविषयपरामर्श विषयतया हेतुत्वं, तथा शब्दस्यापिं सातिस्मृतावित्यर्थः / अस्मन्मते स्मृतेविषयाजन्यत्वेऽपि परमतेनेदमुक्तम् / अस्तु वा प्रकाशिका। स्वविषयज्ञान इति / सगृहीतग्रहरूपे शब्दव्यापारतयाभिमतेत्यर्थः। प्रकृतेऽप्यदोषादिति / विषयतया कथञ्चिल्लिङ्गवद्धतुत्वादिति मूले एवोक्तत्वादिति भावः / तदेव पर्शयितुं शकते नन्विति / पुरुषार्थसुखादिप्रतिसन्धानस्यैव प्रवर्तकत्वादिति भावः। स्वविषयज्ञाने-सङ्गतिप्रहरूपशब्दव्यापारतया अभिहिते इत्यर्थः। प्रकृतेऽपीति / विषयतया कयश्चित् लिङ्गवद्धेतुत्वादिति मूल एवोक्तत्वादित्यर्थः / तदेव दर्शयितुं शङ्कते नन्विति / टिप्पणी। अनिष्ठसाधनताज्ञानकालेऽपि कार्यताज्ञानसंभवात् प्रवृत्त्यापत्तेरित्यर्थः / लिडादिशब्दात्मककरणवृत्तिधर्मरूपा याऽभिधा तज्ज्ञानं प्रवर्तकमिति, लिङाद्यर्थो यो भावनादिः स एव करणं तद्धर्मस्येष्टसाधनत्वस्य ज्ञानं प्रवर्तकमिति वा विकल्प्य दूषयति करणं हीति / गरीयसी लिङयता उचिता। नन्वन्यस्य बाधात् लिङर्थत्वं परित्यक्तं ततः परिशेषात् भावनैवास्तु लिङर्थ इत्यत आह बाधकस्येत्यादि / इच्छादेलिंडर्थत्वे यथा बाधकमुक्तं तथाऽत्रापि समानमित्यर्थः /