________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [ 12 कारिकान्याख्यायां ____अस्तु तर्हि पुत्रेण हते ब्रह्मणि चिरध्वस्तस्य पितुस्तमपान्तरव्यापारीकृत्य कर्तृत्वम् , तथाच लोकयात्राविप्लव इति चेत् / न / सत्यपि सुते कदाचित्तदकरणात् तस्मिन्नसत्यपि कदाचित् करणादनिर्वाहकतया तस्य व्यापारत्वायोगात्। यं जनयित्वैव हि यं प्रति यस्य पूर्वभावनिर्वाहः, स एव तं प्रति तस्य व्यापारोनापरः, यथाऽनुभवस्य स्मरणं प्रति संस्कारः, तस्य छन्वयव्यतिरेकानुविधाने सिद्ध तदन्यथाऽनुपपत्या संस्कारः कल्यते, न त्वन्यथा, तथेहापि / न चेदेपं, तवापि ब्रह्मभिदुरशरविमोकसमसमयहतस्य हन्तृत्वं न स्यात् , स्याश्च स्वनिवे. शनशयानस्य तत्पितुरिति / एतेनोभयं वेति निरस्तम् / अस्तु तर्हि क्रियाधर्म एव कार्यत्वं विधिः, सर्वो हि कर्त्तव्यमेतदिति प्रत्येति, ततः कुर्यामिति सङ्कल्प्य प्रवर्त्तते इति चेत् / न / कर्त्तव्यं मयेति कृत्यध्यवसायार्थों पा स्यात् ? कर्तव्यं मयेत्युचितार्थो वा स्यात् ? तत्र प्रथमः सङ्कल्पान्न भिद्यते। व्यवहितकार्यसङ्कल्पो हि कर्त्तव्यो मयेति, सन्निहितकार्यसङ्कल्पस्तु कुर्यामिति / स च न लिङर्थः। सत्तामात्रेण प्रवर्तनादित्युक्तम् / तदेतत् कर्त्तव्यतायां जातायां .. प्रवर्तते इति वस्तुस्थितौ भ्रान्तैर्शातायामिति गृहीतम्। औचित्यन्तु क्रियाधर्मः प्रागभाववत्त्वं, तस्मिन् सति शक्यत्वं वा, तस्मिन् सति कर्तारं प्रत्युपकारकत्वं वा 1 प्रथमे कुतश्चिदपि न निवर्त्तत / द्वितीये दुःखेऽपि तथाविधे प्रवर्तत / तृतीये तु वक्ष्यते // 12 // प्रकाशः। भाविसस्यजनकत्वम् , यथा वा दशमूलीकषायपानस्य धातुसाम्यद्वारा भाविज्वरशान्तिजनकत्वमित्यर्थः / व्यवहितस्य कारणत्वेऽतिप्रसङ्गमाह-अस्त्विति / येन विना यत्कारणत्वं न निर्वहति तस्य स व्यापारः, न च पितुः कारणत्वं पुत्रं विना न निर्बहतीति न स व्यापार इत्याह सत्यपीति / तदेव स्पष्टयति यं जनयित्ववेति। यदि च कार्यसमानकालस्यैव कारणत्वं, तदा तवाप्यनिष्टमित्याह न चेदेवमिति / उभयं वेति / कार्यत्वम पूर्खत्वञ्च लिङः प्रवृत्तिनिमित्तमित्यर्थः / कृत्यध्यवसायः-कृत्यनुकूलेच्छा उचितार्थोऽर्हार्थः / तत्रैव कृत्यविधानादिति भावः / व्यवहितति / प्रवृत्त्यपेक्षयेति शेषः / स चेति, उभयरूपोऽपि सङ्कल्पः / .. तस्याज्ञातस्यैव प्रवृत्तिहेतुत्वेन प्रवर्तकज्ञानाविषयत्वादित्यर्थः / सङ्कल्पविधिवादिनमुपहसति तदेतदिति / शक्यत्वं, कृतिसाध्यत्वमित्यर्थः / कुतश्चिदिति। अनिष्टादपीत्यर्थः / तृतीये इति / इष्टसाधनार्थत्वनिरासेनेत्यर्थः / तद्धर्मोऽभिधा वेति / वाक्यार्थज्ञानानुकूला भावना-शब्दव्यापारादिपदवाच्या अभिधा शब्दधर्मों वा लिङर्थः / तदाहुभट्टपादाःअभिधां भावनामाहुरन्यामव लिङादयः / अर्थात्मभावना चान्या सर्वाख्यातेषु गम्यते // इति / तदर्थो भावनादित्यत्र करणमित्यनुषजनीयम् / लिङर्थो भावादिः प्रयत्नादिः करणं, तद्धर्म इष्टसाधनता वेत्यर्थः // 12 // मकरन्दः / करणमित्यनुषजनीयमिति / यदि हि धर्मविकल्प एवायमपि स्यात् , तदाऽस्य पृथग: दोषात् न्यूनत्वापत्तिः / करणविकल्पे च शब्दः / प्रयत्नादिश्च करणत्वेन विकल्पितः, तद्धम्मैश्वाभिधा इष्टसाधनता वेति विकल्पद्वयं पर्य्यवस्यति / तच्च दूषितमेव / किञ्च धर्मविकल्पपने प्रयत्नादेः शब्दधर्मत्वाभावाद्विरोध इति भावः // 12 //