________________ पंचमस्तवके] ईश्वरसाधनम् / 553 कल्प्यताम् / व्यापारद्वारा कथञ्चित् स्यात् , न तु भिन्नकालयोापारव्यापारिभावः। कारणत्वञ्च व्यापारेण युज्यते / अव्यवधानेन पूर्वकालनियमच तत्त्वम् / अन्यथाऽतिप्रसङ्गादिति चेत् / न, पूर्वभावनियममात्रस्य कारणत्वात् / कार्यानुगुणावान्तरकार्य्यस्यैव व्यापारत्वात् , कृषिचिकित्सादी बहुलं तथा व्यवहारात् / लाक्षणिकोऽसाविति चेत् / न / मुख्यार्थत्वे विरोधाभावात् // प्रकाशः। ननु व्यापारेण तन्निर्वाहो न तज्जननात्, उत्तरवर्तित्वेन व्यापारस्य तत्रासामर्थ्यात् / न ज्ञापनात् , लिडैव तज्ज्ञापनात् / न च चिरध्वस्तं कारणं व्यापारव्याप्तं, विपक्षे बाधकाभावात्, प्रायश्चितस्य च फलप्रतिबन्धकत्वं स्यात् , तस्मात् पापान्मुच्यते इति फलश्रवणस्य च निषिद्धक्रियातः फलभागी न भवतीत्यर्थः / न च मुख्ये वाधकाभावः, उपस्थितत्वेन विहितनिषिद्धक्रियायामेव धर्माधर्मशक्तिप्रहस्य बाधकत्वात् / ___मैवम् / चिरध्वस्तस्य व्यापारसत्त्वे कारणत्वमिति. निरुपाध्यन्वयव्यतिरेकाभ्यां व्याप्त्यवधार. णात् / न चाप्रयोजकत्वं, यागो यदि चिरध्यस्तत्वे सति सव्यापारो न स्यात् , स्वर्गसाधनं न स्याद्धटवदिति विपक्षबाधकात् / न चात्र कारणताप्राहकाभाव उपाधिः, तेनापि समं व्याप्त्यवधारणेन तस्याप्यापादनात् / ___ तथापि देवताप्रीतिर्यागव्यापारोऽस्तु / न च तत्र मानाभावः, यजिधातोः पूजार्थतया तस्याश्चाराध्यप्रीतिहेतु क्रियात्वात् / तथाच यागस्य देवताप्रीतिसाधनत्वेन कालान्तरभाविस्वर्ग प्रति तद्द्वारा साधनतोपपत्स्यते, प्रीतेः क्षणिकत्वेऽपि तदनुभवजनितसंस्कारद्वारा तत्सम्भवात् / अत्राहुः-देवतो द्देशेन द्रव्यत्यागेन देवताप्रीतिर्जन्यते इत्यत्र मानाभावः, यज देवपूजायामिति शान्दिकस्मृतिः, स्मृतित्वादेव न स्वतः प्रमाणम् / तन्मूलञ्च मानान्तरं नास्त्येव / न वा स्वर्गस्य प्रीतदेवतासाध्यत्वे मानम् / वस्तुतो लाघवात् कर्तृगतफलावसानिकव्यापारस्य कल्पनान्न देवताप्रीतिर्व्यापारः / न च स्वर्गभागिदेहान्तरमेव तद्वयापारः, प्रलये विच्छेदेऽपि तद्वयापारानुवृत्तेः, शरी. रस्य च कार्य्यद्रव्यतया अभावात् , नापि ध्वंस एव तद्वयापारः, तस्यानन्त्येऽपि स्वभावात् सावधिफलजनकत्वमिति वाच्यम् / प्रतियोगिध्वंसयोरेकत्राजनकत्वादिति संक्षेपः। शकते व्यापारेति / न च प्रकृते तथेति शेषः / कारणस्यावान्तरव्यापरयोगः, यागश्च न स्वर्गकरणं, कार्याव्यवहितप्राक्कालसत्त्वस्य कारणत्वादित्यर्थः / अत्राव्यवहितत्वमतन्त्रं गौरवात् / अतएव न सहभावेन कारणत्वम् / न च विनश्यदवस्थसमवायिनः कारणत्वापत्तिः, तावता समवायिकारणस्यैव तथात्वादिति परिहरति पूर्वभावेति / कार्येति / यजन्यं सज्जन्यजनकं, स एव तस्य व्यापार इत्यर्थः / कृषीति / यथा माघमासीयभूकर्षणस्य पाकजपरम्पराव्यापारद्वारा हेमन्त प्रकाशिका / प्रायश्चित्तस्य चेति। निषिद्धचियासमानकालीनप्रायश्चित्तादिप्रागभावस्याव्यवधानेन जनकत्वादिति भावः / कारणमित्यनुषजनीयम् / विकल्पत्वेऽस्य पृथक् दूषणं न्यूनत्वापत्तिः, प्रयत्नादेः शब्दधर्मत्वाभावाद्विरोधश्चेति भावः।। मकरन्दः / अशक्यत्वादित्युपलक्षणम्-अलक्ष्यत्वाच्चेत्यपि द्रष्टव्यम् / शब्दानुपस्थितस्येति / वृत्त्येति शेषः / नन्वेवमपूर्वानभ्युपगमे प्रायश्चित्तविधिवैफल्यमित्यत आह प्रायश्चित्तस्य च फलप्रतिबन्धकत्वं स्यादिति। 70 न्या०कु० प्रकाशमा