________________ 52 व्याख्यात्रयोपेतप्रकाणयुते न्यायकुसुमावलौ [12 कारिकाम्याख्यायो / प्रकाशः। घटकानुपस्थित्या प्रकृते तथा घटते / तन्न / एतादृशनियमे मानाभावात् / न हि छिद्रबाधानन्तरं घटपदेन छिद्रेतरत्वेन ज्ञानं जन्यते, किन्तु योग्यतया छिद्रं विहाय यद्वस्तुगत्या छिद्रेतरत् , तस्य घटत्वेन ज्ञानम् / न च छिद्रेतरत्वेन ज्ञानं सम्भवत्यपि, तस्याशक्यत्वेन घटपदादुपस्थित्यभावात्। न च घटपदात्तथैवानुभव आनुभविकत्वेनोभयसिद्धः, येन लक्षणयाऽपि तथा निर्वाह्येत / न च लक्षणाऽपि, सा हि जहत्स्वार्था, अजहृत्स्वार्था वा ? नाद्या, घटाननुभवप्रसङ्गात् / नान्त्या, शक्यलच्यसाधारणैकरूपाभावात् / एवं सर्वत्र सामान्यशब्दस्य विशेपरत्वे द्रष्टव्यम् / अथ छिद्रेतरतया योग्यतावधारणेन शब्दानुभवात् पूर्व नियमेनोपस्थितिः संस्कारादेव / न च विभक्तीनां प्रकृत्यर्थानुगतस्वार्थान्वयबोधकत्वव्युत्पत्तेस्तत्र विभक्त्यर्थो नान्वीयेतेति वाच्यम् / प्रकत्यर्थो हि प्रकृतिप्रतिपायः, स च प्रकृतेऽप्यस्ति, अन्यथा पाचकमानयेत्यत्र पाककर्तरि विभक्त्यर्थकर्मताऽन्वयानुपपत्तिः, तस्याशक्यत्वात् / तथा च संस्कारोपस्थितं छिद्रेतरत्वमादाय शाब्दा. न्वयबोधः स्यात् / ___ मैवम् , शब्दानुपस्थितस्य शब्देनान्वयबोधाजननात् / एतच्च शाब्दी त्याकांक्षा शब्देनेच पूर्यते इत्युपपादयद्भिरस्माभिर्घाणादिसूत्रे प्रपश्चितमिति नेहोपपाद्यते। संस्कारस्यानियतोद्बोधतया नियमेन तदुपस्थितेरभावाच्च / फलस्योभयासिद्धतया तद्वलेनापि नियतोपस्थितेरभावात् / तथापि सामान्यभानस्य विशेषभाननियतत्वाद् विशेषाभाने कथं सामान्यं भासते इति चेत् / न / परम्परासाधनत्वस्य परम्पराघटकानुपस्थित्याऽभानेऽपि वस्तुतः परम्परासाधनस्य भानात् / ननु काम्यादन्यत् काम्याव्यवहितसाधनतयाऽवगतमेव कर्त्तव्यतया चेति / न च यागस्य स्वर्गाव्यवहितसाधनता सम्भवति / न च तृप्तिकामस्य पाके प्रवृत्तेर्व्यभिचारः, श्रोदनकामस्य तत्र प्रवृत्तेः / तृप्तिकामना च तृप्तिसाधनतत्साधनपरम्पराकामनोपयोगिनी, न तु साक्षात् , अन्यथा साधन साधने प्रवृत्त्यभावापत्तेः। मैवम् / काम्यसाधनत्वज्ञानस्यैव प्रवर्तकत्वात् , लाधवात् / न च तृप्तिकामस्य सिद्धौदनस्य पाके प्रवृत्तिप्रसङ्गः, गुरूपायत्वात् , इष्टोत्पत्त्यनान्तरीयकदुःखजनकत्वज्ञानस्य प्रतिबन्धकत्त्वाच्च / तस्मात् प्रतीता स्वर्गसाधनता ब्यापारं विनाऽनुपपद्यमाना व्यापारमपूर्व कल्पयति / प्रकाशिका। स्तदितरविशेषप्रकारकज्ञानजनकतानियमादित्यर्थः। शक्यलक्षणसाधारणेति। यद्यपि तादृशरूपाभावेपि राजपुरुषपदादिवलक्षणास्त्विति वाच्यम् , तथापि शक्यस्य लक्ष्याविशेषणतयोपस्थितिरित्यत्र तवैषम्यात् / न च विभक्तीनामिति / तथा च छिद्रेतरत्वस्य शब्दानुपस्थितौ तद्विशिष्टे तृतीयार्थकरणत्वान्वयो न स्यादित्यर्थः / प्रकृत्यों हीति / प्रकृतितात्पर्यविषयत्वं प्रकृतिप्रतिपायत्वं छिद्रेतरत्वविशिष्टेऽस्त्येव, यद्वा संस्कारसहितप्रकृतिप्रतिपाद्यत्वेऽपि प्रतिपाद्यत्वमस्त्येवेति भावः। अन्यथेति। यदि स्ववृत्त्या प्रत्युपस्थाप्य एव विभक्त्यर्थान्वय इत्यर्थः / शक्यत्वादित्युपलक्षणमशक्यत्वाच्चेत्यपि द्रष्टव्यम् / शब्दात्मेति शेषः। नन्वपूर्वानभ्युपगमे प्रायश्चित्तवैफल्यमित्यत आह मकरन्दः। प्रकृत्यों हीति / यद्यपि संस्कारस्योपस्थापकत्वमुक्तं न तु प्रकृतेः, शक्तिलक्षणयोरभावे तदुपस्थापकत्वस्यासम्भवाच्च, अत एव शब्दानुपस्थितस्येति सिद्धान्ते वक्ष्यति / तथापि प्रकृतिप्रतिपाद्यत्वं प्रकृतितात्पर्य्यविषयत्वमित्येके / तन्मते श्रीपादानिकी तदुपस्थितिः, तत्र प्रकृतेरपि तेन हेतुताभ्युपगमात् तथोक्तमित्यन्ये / अन्यथेति / यदि वृत्त्युपस्थितस्यैव विभक्त्यर्थान्वयस्तदेत्यर्थः /