________________ पंचमस्तवके ] . . ईश्वरसाधनम् / न चं कार्यत्वमपूर्व सम्भवति। तद्धि कृतिव्याप्यता चेत्, नीहादिष्वेव, सिद्धत्वात् / कृतिफलत्वाचेत्, यागस्यैव, ततस्तस्यैवाहत्योत्पत्तेः / कृत्युद्देश्यता चेत्, स्वर्गस्यैव, निसर्गसुन्दरत्वात् / न त्वपूर्वरय, तद्विपरीतत्वात् / स्तन्यपानादिवदौपाधिकोति चेत्। साऽपि यागस्यैव / स्वर्गस्य साध्यत्वस्थिती यागस्यैव साधनत्वेनान्वयात् / कालव्यवधानान्नैतन्निवहतीति चेत् , यथा निर्वहति श्रुतानुरोधेन तथा प्रकाशः। कार्यत्वमपूर्वस्य विकल्प्य निराकरोति न चेति / तद्धीति / कृतिजन्यव्यापाराश्रयत्वमित्यर्थः / न त्यसिद्धस्य व्यापारभागित्वमिति भावः। कृतिफलत्वं कृत्यनन्तरभावित्वमिति भावः / कृत्यु:श्यत्वमनन्योद्देशकृतिव्याप्यत्वमित्यर्थः। तद्विपरीतत्वादिति। सुखदुःखाभावयोरेव स्वतःकाम्यत्वादित्यर्थः / न च लिव तद्बोध्यते, वस्तुसत एव बोध्यत्वात् / न चापूर्वस्य निरुपाधीच्छाविषयत्वमस्ति, यल्लिका बोध्येतेत्युक्तमिति भावः / साऽपीति। औपाधिकोष्टसाधनता यागस्य स्वर्गसाधनतयाऽस्तीति कृतिसाध्यत्वमप्यौपाधिकमिति तत्परित्यागे नापूर्वसिद्धिरित्यर्थः। ___ यागस्याशुतरविनाशित्वात् स्वर्गस्य च कालान्तरभावित्वात् यागस्य स्वर्गसाधनत्वं न सम्भवतीत्याह कालेति / यागस्य प्रतीतस्वर्गसाधनताऽन्यथानुपपत्त्या फलसमयपर्यन्तस्थायी व्यापारः कल्प्यते इत्याह यथेति / ननु साधनताप्रतीतिरेव योग्यताज्ञानाभावान्न सम्भवति / तथाहि स्वर्गसाधनताज्ञानं यागस्य भवत्साक्षात्साधनताविषयकं भवेत् 'परम्परासाधनताविषयकं वा, एतदुभयोदासीनसाधनताविषयक वा ? नायः, आशुतरविनाशित्वेन क्रियायाः कालान्तरभाविस्वर्गाव्यवहितपूर्वसमयावृत्तित्वात् / न द्वितीयः, परम्पराघटकस्यानुपस्थितेः / अथास्तु तृतीयः, तथाहि-साक्षात्परम्परोदासीनसाधनतामात्रं यागस्य स्वर्ग प्रति नायोग्यम् / न च साक्षात्परम्पराविशेषद्वयं विना सामान्यं नास्त्येवेति वाच्यम् / साक्षात्परम्पराभ्यां विशेषणानुपपत्तेः। न च विशेषद्वयबाघे सामान्यमपि बाधितं, परम्परासाधनस्वस्याबाधनात् / बाधो हि विपरीतप्रमा। न च स्वर्गे यागो न परम्परासाधनमिति प्रमा नास्ति / न च योग्यानुपलब्ध्या परम्पराघटकबाघः, संस्कारवदयोग्यस्यापि तस्य सम्भवात् / अन्यथा वाच्येऽप्यपूर्वे क्रिया कामिकार्य्या न स्यात् , काम्यासाधनत्वात् / न हि यदयोग्यं तत्पश्चाद् योग्यम् / तस्मात् स्वर्गसाधनं याग इति सामान्यतः परम्परासाधनत्वमनुल्लिख्य वस्तुगत्या परम्परासाधनविषयकं ज्ञानमुत्पद्यमानं नायोग्यतया परिभवितुं शक्यमिति / मैवम् , तथाहि-स्वर्ग प्रति यागो न साक्षात्साधन मिति ज्ञानानन्तरं स्वर्गसाधनं याग इति सामान्यज्ञानं भवत् परम्परासाधनताप्रकारकं स्यात् एकविशेषबाधे शाब्दज्ञानस्य तदितरविशेषप्रकारकत्वनियमात् / यथा छिद्रबाधे घटपदजन्यं घटज्ञानं छिद्रेतरत्वप्रकारकम् / न च परम्परा प्रकाशिका / ___ कृतिजन्यत्वमपूर्वस्यापीत्यन्यथा व्याचष्टे कृत्यनन्तरेति / कृत्यव्यवहितानन्तरेत्यर्थः / तत्रापि किश्चिद्व्यवधानेऽपि अपूर्वापेक्षया अव्यवधानमस्त्येवेति भावः / एकविशेषबाधेशाब्दज्ञानस्येति। एकविशेषबाधसहकृतसामान्यप्रकारकज्ञानजनकसामप्रया. मकरन्दः। कृतिजन्यत्वमपूर्वस्यापीत्यन्यथा व्याचष्टे कृत्यनन्तरेति / कृत्यव्यहितानन्तरेत्यर्थः / यद्यपि तत्रापि किश्चिद्यवधान, तथाप्यपूर्वापेक्षया अव्यवधानमस्त्येवेति भावः / मकरन्द