________________ 550 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [ 12 कारिकाव्याख्यायां साधनमिति साधनार्थ इति चेत् / न / स्वभावतो नेदमिष्टमित्यसिद्धः। अनन्योद्देशप्रवृत्तकृतिव्यातत्वात् , अन्यथा तदसिद्धः, ततो व्याघातादन्यतरापाय इति / अस्तु नित्यनिषेधापूर्वयोरलाभः, किं नश्छिन्नमिति चेत् / किं नश्छिन्नं, यदा कामाधिकारेऽपि तदलाभः, न हि लिङा कार्य स्वर्गसाधनमुक्तम् / नापि स्वर्गकामपदसमभिव्याहारान्यथाऽनुपपत्त्या तल्लब्धं, ब्राह्मणत्वाविदधिकार्यवच्छेदमात्रेणैवोपपत्तेः। न चेदमनुमान-यस्य यदिच्छातो यत्कर्त्तव्यं, तत्तस्येष्टसाधनम्-इति / अन्येच्छयैव तत्कर्त्तव्यतायाः सुखेनानैकान्तिकत्वात् , औपाधिककर्तव्यतायाश्चेष्टसाधनत्वमप्रतीत्य प्रत्येतुमशक्यत्वात् // किमनया विशेषचिन्तया, प्रतीयते तावच्छब्दादन्यदिच्छतोऽन्यत्कार्यमित्येतावतैवानुमानमिति चेत् / नन्वन्वितमभिधानीयं, योग्यश्चान्वीयते, अन्यदिच्छतश्चान्यत् कर्त्तव्यमन्वयायोग्यं, तत्कथमभिधीयताम् / तत एव तत्साधनत्वसिद्धिरिति चेत् / एवं तहीष्टसाधनतैकार्थसमवायिकर्त्तव्यत्वाभिधानादनुमानानवकाशः। न चान्विताभिधानेऽपि तत्साधनत्वसिद्धिः। अधिकार्यवच्छेदमात्रेणाप्यन्वययोग्यतोपपत्तेः। प्रकाशः। साधनमित्यनुमेयमित्यर्थः। असिद्धेरिति / त्वन्मतेऽपूर्वस्यैव स्वतःकाम्यतया विशेषणासिद्धौ हेतुरित्यर्थः / असिद्धिं स्पष्टयति अन्यथेति / उद्देश्यफलान्तरसद्भावे नित्यनिषेधापूर्वत्वासिद्धेरित्यर्थः / तत इति / अपूर्वस्य स्वभावत इष्टत्वे न काम्यसाधनत्वं, तथात्वे वाऽनन्योद्देशप्रवृत्तकृतिव्याप्यत्वरूपं स्वभावत इष्टत्वं नेत्येकतरसत्त्वमन्यतरसत्त्वविरुद्धमित्यर्थः।। तदलाभोऽपूर्वालाभः / किं निरपेक्षा लिङेव स्वर्गसाधनतामाह येन तत्साधनं-स्थिरमपूर्व शब्द. बोध्यं, स्वर्गकामपदसमभिव्याहृता वा ? आये न हीति / तथा सति लौकिकी लिङनर्थिका स्यात् / वेदेऽप्यनन्योद्देश्यकृतिव्याप्यत्वरूपस्य कार्य्यत्वस्य स्वर्गसाधनत्वविरोध इति भावः। द्वितीयमाशकथान्यथासिद्धथा निराकरोति नापीति / यथा यस्य ब्राह्मण्यमस्ति तस्य कार्यमिति धीः, तथा यस्य स्वर्गकामनाऽस्ति तत्सम्बन्धि कार्यमिति शाब्दी धीः, न तु स्वर्णोद्देशप्रवृत्तकृतिसाध्यं कार्यमिति, तथाच न स्थायिनोऽपूर्वस्य लाभ इत्यर्थः। ___अनुमानादपूर्वलाभोऽस्त्विति मतमाशङ्कय निराकारोति न चेमिति / यस्येति / काम्यासाधने कामिनः कर्तव्यताज्ञानाभावाव्याप्तेरित्यर्थः / किमन्येच्छया कर्त्तव्यत्वं, स्वभावतो वा. ? आये, अन्येच्छयेति / अन्येच्छया कर्त्तव्यत्वेऽनन्योद्देशप्रत्तकृतिसाध्यत्वं भज्येतेत्यर्थः / अन्त्ये, तदिति / प्राये दूषणान्तरमाह औपाधिकेति। अत्र स्वाभाविकत्वौपाधिकत्वरूपविशेषाविवक्षायां कर्त्तव्यत्वमात्रं विवक्ष्यते , तच्च शब्देनान्येच्छोरेव बोध्यते इति पूर्वमनुमानमदुष्टमेवेत्याह किमनयेति / इष्टसाधनताऽभिधानं विनाऽन्यदिच्छतोऽन्यत् कर्तव्यमयोग्यतया नान्वेतुमर्हतीत्याह नन्विति / काम्यभिन्नस्य कामिकार्यस्य काम्यसाधनस्यैवान्वययोग्यत्वादित्यर्थः / तत एवेति / शब्दादेवेष्टसाधनत्वसिद्धिरित्यर्थः / अस्तु वा अन्यदिच्छतोऽन्यत् कर्त्तव्यमन्वययोग्यं, तथापि नेष्टसाधनत्वमनुमातुं शक्यते, ब्राह्मणत्वस्येव स्वर्गकामत्वस्याधिकारितावच्छेदकत्वेनाप्यन्वययोग्यतोपपत्तेरित्याह न चान्वितेति / वस्तुतः तवापूर्वस्यैव स्वतःकाम्यसाधनत्वं विरुद्धमिति भावः /