________________ पंचमस्तवके ] ईश्वरसाधनम् / तद्धि विध्यन्यथाऽनुपपत्त्या कल्प्येत, कार्य्यत्वप्रत्ययान्यथाऽनुपपत्त्या वा, लोकचत् / न प्रथमः / भवतां दर्शने तस्योपेयरूपत्वात् , यतः श्रुतस्वर्गफलत्वेऽपि साध्यविवृद्धिरुच्यते। न द्वितीयः / शब्दवलेन तत्प्रत्यये तदनपेक्षणात् , लोके हि तत्प्रत्यय इष्टाभ्युपायताऽधीनो न तु वेदे इत्यभ्युपगमात् / अन्यथेष्टाभ्युपायतैच प्रथमं वेदादवगन्तव्या, प्रमाणान्तराभावात् , ततः कार्यतेत्यानुमानिको विधिः स्यात्, न शाब्दः। श्रानुमानिकं फलमस्तु, यत्कर्त्तव्यं तदिष्टाभ्युपाय इति व्याप्तेरित्यपि न युक्तम्। सुखेन व्यभिचारात्। अन्यत्वे सतीति चेत् / न। दुःखाभावेन व्यभिचारात् / फलं विहायेति चेत् / तदेव किमुक्तं स्यात् / इष्टं स्वभावत इति चेत् / तर्हि ततोऽन्यदनिष्टं स्यात्, तच्च कर्त्तव्यमिति व्याघातः। तत्साधनमिति चेत् / तत्साधनत्वे सतीति साध्याविशिष्टं विशेषणम् / स्वभावतो नेदमिष्टं कर्त्तव्यञ्च, ततो नूनमिष्ठ प्रकाशः। तथाच तवापसिद्धान्त इति भावः। बीजाभावं स्पष्टयति तद्धीति / तत्-फलम् / विधित्वं-कार्यत्वम् / तत् फलजनकत्वं विनाऽनुपपन्नं फलं कल्पयतीत्यर्थः / लोकवदिति / यथा लोके कार्यत्वं पाकादेरिष्टसाधनत्वेन लिङ्गेनानुमीयते इति कार्यत्वमिष्टं फलं प्रतीत्यैव प्रतीयते, तथा वेदेऽपीत्यर्थः / उपेयरूपत्वादिति / , त्वन्नये अपूर्वस्यैव स्वतःकाम्यतयाऽनन्योद्देशकृतिव्याप्यत्वादित्यर्थः / तथा च फलजनकत्वं विनाऽपि फलस्येवापूर्वस्य कार्यत्वमुपलभ्यमानं न फलकल्पकमिति भावः / यत इति / यत्रापि स्वर्गः फलं श्रूयते, तत्राप्यपूर्वस्येव स्वतःप्रयोजनता स्वर्गपर्यन्तं व्याप्नोति / न त्वपूर्ण स्वर्गसाधनमिति धीः, प्रधानस्य गुणत्वानुपपत्तेरिति तव दर्शनादित्यर्थः।। एतच्च विरोधोद्भावनमात्रम् , वस्तुतोऽपूर्व न स्वतःप्रयोजनं, लोके तथाऽनवगमात् / वेदेऽपि काम्यस्थले काम्यसाधनस्यैवापूर्वस्य गौणप्रयोजनस्य लिङाऽभिधानम् , काम्यसाधनताज्ञानं विना कामिकार्यत्वस्य बोधयितुमशक्यत्वात् , न तु स्वतःप्रयोजनस्वेन, तत्रासामर्थ्यादनुपयोगाच्च / प्रवृत्त जनादाविव लोकक्लृप्तकाम्यसाधनताज्ञानात् कार्यताज्ञानाद्वा गौणप्रयोजकत्वेनैवोपपत्तेः / अथ नित्ये लोकवेदावगतगौणमुख्यप्रयोजनाभावे सति लिङेचापूर्वस्य स्वतःप्रयोजनत्वं बोधयति, तेन विना प्रवृत्तिपरत्वानिर्वाहादिति चेत् / न / निरुपधीच्छाविषयत्वं हि स्वतःप्रयोजनत्वमपूर्वस्य लिका बोधनीयं, न चापूर्वस्य तादृशेच्छाविषयत्वं क्वचिदपि सिद्धमिति भावः। शब्दबलेनेति / कार्यताधीलैंगिकी, तत्र सा लिङ्गमिष्टसाधनस्वमपेक्षते, वेदे तु कार्यशक्ता लिडेव तां जनयतीति न तत्र सा तदपेक्षतेत्यर्थः। यदि चापूर्व न स्वतःकार्यमिति तत्रापि सा तदपेक्षेत, तदेष्टसाधनत्वज्ञापकस्यान्यस्याभावाद्वेद एव तद्बोधयेत् , तथाच लोकवलिङ्गादेव कार्यताधीसम्भवान लिङस्तत्र शक्तिः कल्प्येतेत्याह अन्यथेति / साध्याविशिष्टमिति / इष्टसा. धनत्वस्यैव साध्यत्वादित्यर्थः / स्वभावत इति / सोपाधीच्छाविषयत्वे सति कर्तव्यत्वेनापूर्व फल प्रकाशिका। न त्वपूर्व स्वर्गसाधनमिति धीः। यत्र गौणप्रयोजनत्वीरित्यर्थः / प्रधानस्येति / तच्चापूर्व स्वतःप्रयोजनमेव न तु गौणप्रयोजनमित्यर्थः / तन्मतेऽस्वरसमाविष्करोति एतच्चेति / परं प्रत्यसिद्धान्तोद्भावनमात्रमित्यर्थः। मकरन्दः। प्रधानस्येति / तथा चापूर्व स्वतःप्रयोजनमेव न तु गौणप्रयोजनमिति भावः / अत्र मते अस्वरसमुद्भावयति एतच्चेति / परं प्रत्ययपसिद्धान्तोद्भावनमात्रमित्यर्थः / यदि चेति / स्वतःकाम्यत्वे इष्टसाधनत्वाभावान तदपेक्षेति भावः /