________________ 558 व्याख्यात्रयोपैतप्रकाशयुते न्यायकुसुमाञ्जली [ 12 कारिकाव्यख्यायो व्यक्तिविशेषो लभ्यते, न च तत् तत्र श्रूयते। न चाश्रुतमपि कल्पयितुं शक्यते / बीजाभावात्। प्रकाशः। संस्कारादुपतिष्ठेत / न चापूर्वः पुरुषविशेषो न भासते इति वाच्यम् / गृहप्रवेशानन्तरं अयं यथा पूर्वमज्ञात एव मञ्चाः क्रोशन्तीति शब्दात् क्रोशनकर्तृतयाऽवगत इत्यनुभवात् / तस्मादनन्यगति. कतयेतरान्वितस्वार्थबोधकत्वमभ्युपेयम् / / ___ अथैवंसति यजिपदेन स्वर्गकामकार्यविषयो याग इत्यनुभवो जन्येत, लक्षणायामितरपदस्य लक्षणीयविशेषणस्वार्थविशेष्यकानुभवजनकत्वात् , न चैतादृशो बोध श्राको क्षित इति चेत् / न / स्वर्गकामकार्यविषयो याग इत्यनुभवेऽपि स्वर्गकामकार्ययोरन्वयप्रकारत्वेनापूर्वलाभात् / ताहशशब्दानुभवानन्तरमाद्यागविषयक कार्यमित्यौपादानिकबोधात् प्रवृत्त्युपपत्तेश्च / अस्तु वा लाक्षणिकमपि पदमनुभावकम् , तच्च द्वितीयाध्यायप्रकाशे प्रपश्चितमस्माभिरिति नेह प्रतन्यते / किश्च न कार्ये घटादौ लिङः शक्तिप्रहः , स्वर्गकामायोग्यतया शक्तिप्रहकाले क्रियानिरासवत् यागान्वयानुपपत्त्या घटादिनिरासस्यापि सम्भवात् , तत्र यागविषयकस्वस्य बाधात् , अन्यथाऽन्विताभिधामकालेऽपि तमिरासानुपपत्तेः / न च शक्तिप्रहकाले यागान्वयानुपपत्तेरप्रतिसन्धानं, किन्तु, . स्वर्गकामान्वयानुपपत्तिमात्र प्रतिसन्धीयते इति युक्तम् / प्रत्ययस्यान्तरङ्गप्रकृत्यर्थान्वयं बोधयत एवेतरान्वयबोधकत्वमिति तदन्वयानुपपत्तिप्रतिसन्धानस्यैव प्राथमिकत्वात् / पुरुषदोषादप्रतिसन्धानेऽपि शक्तिप्रहस्य भ्रमत्वापत्तेः, घटादेरशक्यत्वात् / घटादीनामानन्त्येऽपि पृथिवीत्वादिनाऽन्विताभिधानकालवन्निरासोपपत्तेः / एवश्च प्रचरत्कार्यनिरासे व कार्यधर्मिणि शक्तिप्रहः / / __ एतेन-लिङपदमेकत्रोच्चारणे स्थायिकार्यस्वर्गजनकत्वादीनां ज्ञाने शक्तमिति व्युत्पत्तिः / स्थायि. ज्ञानादिकश्चोपस्थितमेव / अतो लिङ्पदेनैकत्रोच्चारणे योग्यतादिवशाद् यागविषयकं स्थायिस्वर्गजमकं कार्यमित्येकं ज्ञानमनुभवरूपं प्रचरद्वस्तुविलक्षणविषयं क्रियते / न चैवं नानार्थवदेकैकज्ञाने शक्तिमहादेकैकविषयोऽनुभवो भवेत् , न समुदितविषय इति वाच्यम् / शक्तिग्रहकाले एकत्रोच्चारणे इति विशेषणमहिम्ना तत्सम्भवात् / नानार्थे तु प्रमाणाभावेन गौरवेण शक्तिप्रहे तस्याप्रवेशात् / तथाप्यमीषां समूहालम्बनापत्तिर्न तु मिथो वैशिष्टयज्ञानमिति न वाच्यम् / साकाङ्क्षधर्मधर्मिणोरेक ज्ञानमेव हि विशिष्टज्ञानम् / इत्यमेवालौकिककार्येषु स्वर्गादिपदेषु शक्तिग्रह-इत्यपास्तम् / स्थायिनां घटादीनां निरासाद् धर्ममात्रे च शक्तिप्रहस्य प्रकृतेऽनुपयोगात् / किञ्च तेषु समु. दितेषु न शक्तिप्रह, प्रथमं समुदायस्यैकज्ञानाविषयत्वात् / विषयत्वे वा पूर्वमेव विशिष्टस्य सत्त्वे अपूर्वत्वव्याघातः / एकज्ञानविषयकसाकाङ्क्षधर्मधर्मिणोरेव विशिष्टत्वात् / नापि प्रत्येकम् , तथाहिलिल्पदात् स्मरणत्रयं यजिपदाच यागस्मरणम् / न च चतुर्णा तेषां योगपद्यमस्ति / न च प्रत्येक शक्ति प्रहेऽपि समुदितविषयमेकं स्मरणं लिब्पदादिति वाच्यम् / समुदायस्य पूर्वमननुभवात् / किञ्च एकमेव स्मरणं यदि साकाक्षधर्ममिविषयक, तयपूर्वत्वक्षतिः। तवैकज्ञानारूढयोः साकाङ्क्षधर्मधर्मिणोरेव विशिष्टत्वादित्यस्मपितृचरणाः / ननु विश्वजिन्न्यायेन नित्येऽपि फलं कल्पयिष्यते इत्यत आह न चेति / त्वन्नये इति शेषः / प्रकाशिका। स्वर्गकामकार्यविषय इति। कार्यपदमत्र यागपरम्। नन्वेवमपि चिकीर्षाजनकत्वानुपपत्ति स्तदवस्थैवेत्यत आह तादृशशब्देति / वस्तुतस्तु एतदुत्तरकालीनो यागः कार्य इतीहोत्पादानिक बोधः प्रवर्तक इति मन्तव्यम् / त्वन्नय इति। त्वन्नयेत्यस्य निस्फलत्वाभ्युपगमादिति भावः। . . मकरन्दः / त्वन्नये। इति / त्वया मिष्फलत्वेनाभ्युपगमादिति भावः / न त्विति / न त्वपूर्व-स्वर्गसाधनमिति तत्र गौणप्रयोजनत्वधीरित्यर्थः /