________________ पंचमस्तवके] ईश्वरसाधनम्। र्थेनान्यत्र तथैव व्यवहार इति सम्भवति / कार्यत्वस्यैव प्रवृत्तिनिमित्तत्वेन निर्णी• तत्वात्, न त्वपूर्वत्वस्य / न्यायसम्पादनायाश्च तत्रासम्भवात् / फलानुगुण्येन हि प्रकाशः। शक्यत्वात् / तस्मादयोग्यतया क्रियायां निरस्तायां धर्मिणि शक्तिप्रहकाले वस्तुतो यक्रियाभिन्न कार्य, तत्र शक्तिः। तथा च नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिडाऽभिधीयते, क्लृप्तत्वात् , न तु क्रिवान्वययोग्यकार्यत्वमात्र, लक्षणाप्रसङ्गात् , धर्मिणि बाधकाभावाच्च / अत एव क्रियाकार्यत्वे लौकिकी लिङ् लाक्षणिकी, उक्तरीत्या क्रियानिरासेनैव वेदे धर्मिणि शक्तिकल्पनात् / लौकिकानां तत्र तात्पर्यासम्भवात् , क्रियासाधारणशक्तावपि लोके लिङ् लाक्षणिकी / पचेतेत्यादौ पाककार्यताज्ञानेऽपि लाघवात् कार्यत्वे लिङस्तात्पर्यम् , न तु धर्मिण्यपि धातुलभ्यत्वात् , तथा च तृतीयायाः करणैकत्ववत् कार्य कार्यत्वञ्च न स्वतन्त्रं शक्यं, किन्तु विशिष्टम् , विशिष्टाच्च विशेषणमन्यदेवेति कार्यत्वे लक्षणा। न चानुपपत्त्या कार्यत्वविशिष्टोपस्थितावपि धय॑शमपहाय क्रियायाः कार्यत्वान्वयोपपत्तौ किमुपस्थित्यन्तरार्थ लक्षणयेति वाच्यम् / यत इतरधर्मिगतत्वेनोपस्थितस्य कार्यत्वस्य न धय॑न्तराकाङ्क्षाऽस्ति, येन तदितरधर्म्यन्वयो ज्ञायेत , तथा च स्वतन्त्रकार्यत्वोपस्थितये लक्षणा युक्ता। ___ मैवम् / कार्यत्वमात्रशक्तस्य लिङ्पदस्यापूर्वलक्षणयैवोपपत्तौ तत्र शक्तौ मानाभावात् / न चापूर्व शक्यकार्यत्वसम्बन्धितया न ज्ञातमिति न तत्र लक्षणेति युक्तम् / यथा हि शक्तिपक्षे कार्यत्वेन रूपेण घटादावेव लिङः शक्तिप्रहः कार्यमिति ततः स्मृतिश्चानुभवदशायां च योग्यतावशात् घटादिकं विहायापूर्व भासते, तथा लक्षणायामपि लिङ्वाच्यं कार्यत्वं कार्यघटादिसम्बन्धितया ज्ञातं कार्य घटादि स्मारयतु, योग्यतावशाचापूर्वमनुभवे भासताम् , कार्यस्मरणं हि अन्विताभिधानोपयोगि न त्वपूर्वस्मरणम्, तच्च पदेन पदार्थेन वेति न कश्चिद्विशेषः। न च लिडो लाक्षणिकत्वेनापूर्वाननुभवप्रसङ्गः, लाक्षणिकपदस्याननुभावकत्वादिति युक्तम् / त्वन्नये इतरान्वितस्वार्थशक्तस्य यजिपदस्यैवेतरद पूर्वमादायानुभावकत्वात् , अन्यथा तोरादेरप्यननुभवापत्तिः / अथेतरोपलक्षितस्वार्थान्वयमात्रे पदानां शक्तिर्न तु इतरत्रापि, गौरवात् , पदान्तरलभ्यत्वाचा * न च तीरादिप्रतिवन्धिः, तत्र हि तीरोपलक्षितान्वयशालिस्वार्थान्वयानुभावकत्वं वसतीत्यादिपदस्य, तीरस्य तु संस्कारादुपस्थितिः, प्रकृते चापूर्वस्य संस्काराविषयत्वादिति चेत् / न / मश्चाः क्रोशन्तीत्यत्र मञ्चस्थाः पुरुषाः क्रोशन्तीत्यवगम्यते, न च मञ्चस्थः पुरुषः प्रागनुभूतो येन तीरमिव प्रकाशिका। तच्च पदेन पदार्थेन वेति। एतच्च लक्षणास्थाने पदार्थस्य शक्यस्य लक्ष्योपस्थापकत्वमिति मतमाश्रित्य, वस्तुतः पदस्यैव लक्ष्योपस्थापकत्वमिति साक्षात्सम्बन्धेन परम्परासम्बन्धेन वेति विकल्पार्थो द्रष्टव्यः / न चैतादृशं बोधयति चिकीर्षाजनकस्यैव बोधकस्याकांक्षितत्वात् , एतस्य चातथात्वात् , न ह्यनेनापूर्वगोचरा चिकोर्षा तदविशेष्यकत्वात् , नापि यागविशेष्यिका तत्र कार्यत्वसम्बन्धानवगाहनात् / मकरन्दः। कार्य्यत्वमात्रमित्युपलक्षणं, न क्रियासाधारणं कार्यमात्रमभेदश्चान्वयः, न हि यत्प्रयुक्तानु. पपत्त्यां यस्कल्पनं तदेव तस्य विषय इत्यभ्युपगमादित्यपि द्रष्टव्यम् / - कार्य्यमात्रशक्तस्येति / न च स्वार्थादन्येन रूपेण ज्ञाते भवति लक्षणेति नियम इति वाच्यम् / अप्रयोजकत्वात् / अत एव नीलादिपदस्य तद्वति लक्षणाऽभ्युपगम इति भावः / अधिकं शब्दप्रकाशे द्रष्टव्यम् /