SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 546 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलौ [12 कारिकाव्याख्यायो / तथाच न्यायसम्पादनाऽप्यरण्ये रुदितम् , न हि युक्तिसहस्रैरप्यविदिते सङ्गतिग्रहोऽविदितसङ्गतिर्वा शब्दः प्रवर्तते इति / एतेन-भेदाग्रहात् क्रियाकार्ये व्युत्पत्तिा-इति निरस्तम् , न ह्यशाते भेदाग्रहो व्यवहाराङ्गम् , अतिप्रसङ्गात्।। - किश्चापूर्वत्वे प्रवृत्तिनिमित्ते कल्प्यमाने लौकिकी लिङनर्थिका प्रसज्येत, तत्रोपलक्षणीयाभावात्। तत्र कार्यत्वमेव प्रवृत्तिनिमित्तमिति यदि, प्रकृतेऽपि तथैवास्तु क्लुप्तत्वात् सम्भवाच्चेति // अस्तु तर्हि तदेव प्रवृत्तिनिमित्तं, तर्कसम्पादनया त्वपूर्वव्यक्तिलाभ इति चेत्। न / नित्यनिषेधापूर्वयोरलाभप्रसङ्गात्। न चास्मिन् पक्षे एकत्र निर्णीतेन शास्त्रा. प्रकाशः। तथा चेति / स्थायिकार्यत्वमेव लिङः प्रवृत्तिनिमित्तं, क्रियारूपकाये तु भेदाप्रहाल्लिङः प्रवृत्तिरित्यप्यत एवापास्तं, ज्ञातेनैव सह भेदाग्रहस्य प्रवर्तकत्वादित्याह एतेनेति। किञ्चेति। पचेतेत्यादौ क्रियाया योग्यत्वेन त्यागाभावात्तत् क्रियाकार्यत्वमेव लिङपदात् प्रतीयते इत्यपूर्वत्वस्य तत्प्रवृत्तिनिमित्तत्वे तदानर्थक्यं स्यादित्यर्थः। प्रकृतेऽपीति। तच्च क्रियासाधारणमिति नापूर्वव्यक्तिलाभ इति भावः। .. ननु कार्यधर्मिणि कार्यत्वेन रूपेण घटादावेव शक्तिग्रहः सम्भवति, कार्यत्वश्च मानान्तरोपस्थितमेवातोऽन्विताभिधानदशायां स्वर्गकामायोग्यतया घटादिकं तिरस्कृत्य क्रियातोऽन्यत् स्थायिस्वर्गसाधनतायोग्यं लिङा बोध्यते। न चान्यत्र शक्तिग्रहोऽन्यच्च शब्देन बोध्यते इति न स्यादिति वाच्यम् / येन रूपेण शब्दादनुभवः, तेन शक्तिग्रहस्य हेतुत्वात् , तथा च कार्यत्वेन रूपेण घटादौ शक्तिप्रहे योग्यतादिसहकारिवशादप्रतीतं धय॑न्तरं लिडाऽनुभाव्यते / न च स्मृतानां पदार्थानां योग्यतादिसाचिव्याच्छब्देनान्वयो बोध्यते, न चापूर्व स्मृतिगोचर इति वाच्यम् / शक्तिग्रहपदार्थस्मरणवाक्यानुभवादीनां समानप्रकारत्वेनैव कार्यकारणमावात् , लांघवादावश्यकत्वाच / न च क्वचित् सहचारमात्रेणान्वयप्रतियोगिन एव स्मृतिरन्वयबोधे हेतुः, गौरवात् / प्रकृतेऽपि कार्यशक्ता लिङिति शक्तिग्रहात् कार्यमिति ततः स्मृतिः, यागविषयक कार्यमित्यनुभव इति क्रमेण तेषां समानप्रकारकत्व. मस्त्येवेत्यभिसन्धायाह__ अस्त्विति / यदि कार्यत्वेन क्रियासाधारण्येन लिङः शक्तिप्रहः, स्वर्गकामायोग्यतया च क्रियानिरासः, तदा 'अहरहः सन्ध्यामुपासीत, न कलचं भक्षयेदि'त्यत्र नित्यनिषेभापूर्वयोरलाभः, न हि तत्रायोग्यतया क्रिया त्यक्तं शक्यते, फलाश्रवणेन न्यायसम्पादनानवकाशादित्याह नित्येति / अस्मिन् पक्षे-कार्यत्वप्रवृत्तिनिमित्ततापक्षे / न्यायेति / न त्यपूर्वत्वेन शक्तिरपि तु कार्यत्वेन कार्ये धर्मिणि, क्रिया च तथा भवत्येवेति न तद्भिनं लिङा बोध्येतेत्यर्थः। . ननु न लोके कार्ये धर्मिणि शक्तिः कल्पिता, किन्त्वनन्यलभ्ये कृतिरूपे कार्यत्वमात्रे, धर्मिणः पाकादेर्धातोरेवोपस्थितिसम्भवात् / क्रियाकार्यत्वस्य चान्विताभिधानलभ्यत्वात् / तथा च धर्मिणि शक्तिर्वेद एव कल्प्या, सा च क्रियानिरासेनेव, क्रियाया अन्वययोग्यत्वे धर्मिणि शक्तिप्रहस्या प्रकाशिका। स्थायिकार्यत्वमेवेति / अपूर्वनिष्ठमिति शेषः। यद्वा अपूर्वमेवानेनोपलक्षितम्-अत एवाप्रे तस्यैव दूषणं किंचेत्यादिना / कार्यत्वमात्रमित्युपलक्षणम्-क्रियासाधारणं कार्यमात्रमभेदश्चान्वय इत्यपि द्रष्टव्यम्। मकरन्दः। स्थायिकार्यत्वमेवेति / अपूर्वनिष्ठमिति शेषः / यद्वा अपूर्वत्वमेवानेनोपलक्षितम्, अत एव किञ्चेत्यादिना तदेव दूषयतीति भावः /
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy