________________ पंचमस्तवके ] ईश्वरसाधनम्। कर्म हि फलं वा स्यात्, तत्कारणमपूर्व वा, तत्कारणं क्रिया वा ? न प्रथमः फलेच्छायाःप्रवृत्ति प्रत्यहेतुत्वात्,अतिप्रसङ्गादित्युक्तत्वात् / न द्वितीयोऽव्युत्पत्तेः। लिङो हि प्रवृत्तिनिमित्तमपूर्वत्वं वा स्यात्, उभयं वा ? न प्रथमः। शब्दप्रवृत्तिनिमित्तस्यापूर्वत्वस्य प्रमाणान्तरादवगतावपूर्वत्वव्याघातात् , अनवगतापव्युत्पत्तेः, सम्बन्धिनोऽनवगमे सम्बन्धस्य प्रत्येतुमशक्यत्वात्। तत एवावगतावितरेतराश्रयदोषात्। न च गन्धवत्त्वेनोपनीतायां पृथिव्यां पृथिवीशब्दवत् अपूर्व प्रवर्तते लिङिति युक्तम् / तत्रोभयोरपि प्रतीयमानत्वेन सन्देहकल्पनागौरवपुरस्कारेण पृथिवीत्वएव सङ्गतिविधान्तेरुपपत्तेः, न त्वत्रापूर्ववप्रतीतिः। __ स्यादेतत् , कार्यत्वमुपलक्षणीकृत्य तावदेषा लिङ् प्रवृत्ता, तदुपलक्षितश्च यागो वा यत्नो वाऽन्यो वा शब्देतरप्रमाणगोचरो नाधिकारिविशेषणस्वर्गसाधनसमर्थः / न चाकाम्यफले कामी नियोक्तुं शक्यते / ततोऽन्यदेवालौकिक किश्चिदनेनोपलक्ष्यते, यो लिङादिप्रवृत्तिगोचर इति किमनुपपन्नमिति चेत्। उपलक्षणं हि स्मरणमनुमानं वा / उभयमण्यनवगतसम्बन्धेनाशक्यम् , न हि संस्कारवन्मनोवददृष्टवडा कार्यत्वमपूर्वत्वमुपलक्षयति, ज्ञानापेक्षणात् / ततो हस्तीच हस्तिपकं, धूम इव धूमध्वजं, तत्सम्बन्धज्ञानादुपलक्षयेत्, न त्वन्यथा। - प्रकाशः। तत्कारणमपूर्वकारणम्। फलेच्छाया इति / स्वर्गादेः कार्यतां जानन्नपि उपायज्ञानं विना न प्रवर्तते / कथं वाऽन्यज्ञानादन्यत्र साधने प्रवृत्तिः। यदि च साध्यसाधनभावो नियामकः, तदा भ्रमादसाधने न प्रवर्ततेत्यर्थः। . प्रमाणान्तरादिति / शब्देतरप्रमाणागोचरत्वस्यापूर्वस्य त्वयाऽभ्युपगमादित्यर्थः / अनवगताविति / मानान्तराच्छक्तिप्रहविषयानुपस्थितौ तदसम्भवादित्यर्थः / तत एवेति / लिङ्पदादेवेत्यर्थः / इतरेति / लिङः शक्तिप्रहे ततोऽपूर्वोपस्थितिस्तदुपस्थितौ च तत्र शक्तिग्रह इत्यर्थः / तत्रेति / पृथिवीत्वगन्धवत्त्वयोः प्रत्यक्षतः सिद्धौ तदन्यतरत्र प्रवृत्तिनिमित्तत्वसंशये गन्धवत्त्वस्योपाधित्वेन सखण्डत्वात् पृथिवीत्वस्य च जातित्वेनाखण्डत्वात् तत्रैव शक्तिः कल्प्यते, प्रकृते त्वपू. वत्वाप्रतीतौ न तथेत्यर्थः। कार्यात्वमिति / वृद्धव्यवहाराद्वयत्पद्यमानो बालः आत्मन्यवगतं प्रवृत्तिहेतुं कार्यत्वं लिङ. मवधारयति ततः कार्यशक्तं लिङ्पदं स्वर्गयोः कार्यत्वं त्यक्त्वा स्वर्गसाधनतायोग्यं तन्मध्यवर्तिकार्यत्वोपलक्षितमपूर्वत्वमनुभावयिष्यतीत्यर्थः / उपलक्षणं हीति / यथा गङ्गापदं स्वार्थान्वयानुपपत्त्या स्वसम्बन्धितया प्रतीतचरं तीरं स्मारयति, यथा वा व्माप्यं व्यापकतयाऽवगतमनुमापयति, न तद्वदपूर्वमप्रतीतचरत्वेन सम्बन्धि तया व्यापकतया वाऽनवगतं कार्य्यत्वं स्मारयितुमनुमापयितुं वाऽलमित्यर्थः / न च यथा संस्कारादिरशात एव स्मृत्यादि जनयति, एवं कार्यत्वमज्ञातमेवापूर्व ज्ञापयति, सम्बन्धित्वव्याप्यत्वाभ्यां ज्ञातस्यैव सापकत्वादित्याह न हीति / तत्सम्बन्धेति / अपूर्वेण सम्बन्धज्ञानादित्यर्थः / एवञ्च प्रागुक्तन्यायसम्पादनमपि अफलं, सर्वथाऽपूर्वस्याप्रतीततया तत्र शक्तिग्रहाशक्यत्वादित्याह ___ मकरन्दः। एवं कार्यत्वमिति / स्वभावादिति भावः / तमेवाह सम्बन्धित्वेति / प्रागुक्तति / उपलक्षितस्येत्यादिना प्रागुक्तेत्यर्थः। 66 न्या० कु.