________________ 544 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजला [ 12 कारिकाव्याख्यायां अन्यथेष्टसाधनताशानमध्यनर्थकमापद्येत / तस्मात् सङ्कल्पः प्रवर्तक इत्यभ्युपेयते, किन्तु सत्तामात्रेण न तु ज्ञात इति नासौ विधिः। शानञ्च विषयोपहारेणैव व्यवहारयतीति तद्विषय एवावशिष्यते इति कर्तृधर्मव्युदासः // 11 // अस्तु तर्हि कर्मधर्मः। नेत्युच्यते, अतिप्रसङ्गान्न फलं नापूर्व तत्वहानितः॥ तदलाभान्न कार्यश्च न क्रियाऽप्यप्रवृत्तितः॥ 12 // प्रकाशः। यद्वा सङ्करादिति विवृणोति तीति / एवं लाघवादिष्टसाधनतैव विधिः, सङ्कल्पस्य तु तरसकीर्णत्वादित्यर्थः। यदि च नैवं तदा भोजनादाविष्टसाधनताज्ञानमिच्छोत्पादकं न स्यादित्याह अन्यथेति / सङ्कल्पस्याप्रवर्तकत्वे शास्त्रविरोधं परिहरति तस्मादिति / तर्हि ज्ञानमेव कर्तृधर्मो विधिरस्त्वित्यत अाह ज्ञानश्चेति / तद्विषय एव-ज्ञानविषय एव / विधिरित्यनुषज्यते / यदि हि विषयविशेषानवच्छिन्नं ज्ञानं प्रयतयेत् , सर्वत्र प्रवृत्तिप्रसङ्गः / तदवच्छिन्नस्य च तस्य तथात्वे यं विषयमुपनयत्तत् प्रवर्तकं स एवार्थो विधिरिति कृतिहेतुचिकीर्षाकारणज्ञानविषयो विधिरित्यर्थः // 11 // क्रियते इति व्युत्पत्त्या कर्मपदेन यदि फलं स्वर्गाद्युच्यते, तस्य च कार्य्यत्वं ज्ञात्वा प्रवर्तते तदा अनुपायेऽपि प्रवर्ततेत्याह अतिप्रसङ्गादिति / अथापूर्वस्य कार्यत्वं ज्ञाखा प्रवर्त्तते, तदा शब्दानुभवात् पूर्व तदुपस्थितं न वा ? आये अपूर्वस्वव्याघातः, तस्य शब्दानुभवैकवेद्यत्वादित्यर्थः। अन्त्ये कथं शक्तिप्रह इति भावः। ननु कार्यत्वेनोपलक्षिते अपूर्वे कार्यत्वेनैव रूपेण शक्तिग्रहः, कार्यत्वविशिष्टश्वोपस्थितमेवेत्याह तदलाभादिति / उपलक्ष्यस्यान्यत्र मानान्तरसिद्धत्वादत्रापि तथात्वे अपूर्ववहानिरन्यथा तु तदलाभ इत्यर्थः। ___ या कार्य्यत्वविशिष्ट कार्ये धर्मिणि शक्तिप्रहः, वाक्यानुभवदशायामयोग्यतया घटादौ निरस्ते च तदतिरिक्तापूर्वलाभः स्यादित्यत आह तदलाभादिति / तथापि नित्यनिषेधापूर्वयोरलाभः स्यादित्यर्थः / न क्रियाऽपीति / क्रियायाः कार्य्यत्वज्ञानात् न प्रवृत्तिरनिष्टसाधनत्वादित्यर्थः / टिप्पणी फलनिष्ठकार्यताज्ञानम् अपूर्वनिष्ठकार्यताज्ञानं, यागादिनिष्ठकार्यताज्ञानं वा प्रवर्तकमिति विकल्प्य प्राभाकरमतं क्रमेण दूषयति अतिप्रसङ्गादिति / स्वर्गादिः कार्य इति ज्ञानं यदि प्रवर्तकं स्यात्तदा स्वर्गाद्यसाधनेऽपि प्रवृत्तिप्रसङ्गनियामकस्य कस्यचिदप्यभावात् / तत्वहानित इति / अपूर्वस्य शाब्दबोधात्प्रागुपस्थितावपूर्वस्वहानिः अनुपस्थितौ च शाब्दबोधानुपपत्तिरित्यर्थः / ननु यथा गन्धवत्त्वेनोपलक्षितायां पृथिवीत्वविशिष्टायां घटादिव्यक्तौ पृथिवीपदस्य शक्तिग्रहस्तदनन्तरं च पृथिवीत्वेन शाब्दबोधः तथा कार्य विधिशक्यमिति कार्यत्वोपलक्षितेऽपूर्वे शक्तिप्रहस्तदनन्तरं चापूर्वत्वेनापूर्वस्य शान्दबोधः स्यादत आह तदलाभादिति / अपूर्वत्वविशिष्टापूर्वव्यक्त्यनुपस्थितेरित्यर्थः / अयमाशयः-गन्धवत्वपृथिवीत्वयोः पूर्वानुभवजन्यसंस्कारेण स्मरणस्य सहचारदर्शनेन पूर्वगृहीतव्याप्तेः स्मरणेनानुमितेर्वा संभवात किमनयोः पृथिवीपदप्रवृत्तिनिमित्तमिति संशये अखण्डपृथिवीत्वजातौ लाघवात् प्रवृत्तिनिमित्तत्वं परिच्छिद्यते नतु गन्धवत्त्वे सखण्डे गौरवात् इह तु अपूर्वत्वस्य प्रागनुपस्थितिः, उपस्थितिश्चेदपूर्वत्वव्याघात इति / क्रिया यागादिस्तद्धर्मोऽपि कार्यत्वं न विध्यर्थ इत्याह न क्रियाऽपीति / अप्रवृत्तित इति /