________________ 543 पंचमस्तवके ] ईश्वरसाधनम् / शास्त्रानपेक्षणात् , तस्या मनोवेद्यत्वात् / श्रप्राप्ते च शास्त्रानवकाशात् / तद* भिधाने न स्वर्गकाम इति कर्तृविशेषणपौनरुक्त्यात् , तदा हि यजेतेत्यस्यैव यागकर्ता स्वर्गकाम इत्यर्थः स्यात् / यदि च फलविषयैव साधनविषयं प्रयत्नं जनयेत; अन्यत्रापि प्रसुवीत, नियामकाभावात् / हेतुफलभाव एव नियामक इति चेत् / न / अज्ञातस्य तस्य नियामकत्वे लिङ विनाऽपि स्वर्गेच्छातो यागे प्रवृत्तिप्रसङ्गात् / ज्ञातस्य तु तत्साधन. त्वस्य नियामकत्वे तदिच्छैव तत्र प्रवर्त्तयतु / यो यत्कामयते स तत्साधनमपि कामयत एवेति नियमात् / न च सा तदानीं सती / न च तज्ज्ञानमेव प्रयत्नजनकं, तच्च लिङा क्रियते इति युक्तम् / स्वर्गकामो यागचिकीर्षावानित्यतोऽपि प्रवृत्तिप्रसङ्गात् / लिङो वेच्छां प्रतीत्यानिच्छन्नपि सर्वः प्रवर्त्तत। स्वसम्बन्धितयातदवगमस्तथा न तु सामान्यत इति चेत् / न / प्रथमपुरुषेण तदभिधाने तस्याविध्यर्थत्वप्रसङ्गात् / ओदनकामस्त्वं पाकचिकीर्षावानित्यतोऽपि प्रवृत्त्यापत्तेश्च / / अपि च, सङ्कल्पज्ञानात् यदि प्रयत्नो जायेत तथापि सङ्कल्पस्य कुतो जन्म किमर्थश्च ? सङ्कल्पज्ञानादेव, प्रयत्नार्थश्चेति चेत् / नन्विच्छाविशेषः सङ्कल्पः; स तावत् सुखे स्वभावता, तत्साधने चौपाधिकः, सङ्कल्पविषयस्तु कथम् ? तत्साधनत्वादेवेति चेत् / तर्हि तत्साधनत्वज्ञानात् न तु सङ्कल्पस्वरूपज्ञानाद्भवितुमर्हतीति। प्रकाशः। किमतो यद्येवमित्यत आह अप्राप्ते चेति / अवकाशे वा फलेच्छाया लिडैवोक्तत्वात् स्वर्गकाम इति पुनरुक्तरूपसङ्कारापत्तिरित्यत आह तदभिधान इति / ननु समानविषयकतयेच्छाप्रवृत्त्योहे तुहेतुमद्भाव एव कुतः इत्यत आह- . यदि चेति। अन्यत्राप्यसाधनेऽपीत्यर्थः / नियामकमाह हेतुफलेति / फलेच्छा तत्साधन एव प्रयत्नमुत्पादयति नान्यत्रेत्यर्थः / यदि स्वरूपसन्नेव हेतुफलभावः प्रवृत्तिनियामकः, तदा स्वर्गकामो यजेतेत्यादिविधिजन्यज्ञानं विनाऽपि स्वर्गसाधने प्रवृत्त्यापत्तिरित्याह अज्ञातस्येति / भ्रमादसाधनेऽप्रवृत्त्यापत्तेश्चेति भावः। अथ ज्ञातः, तदा फलसाधनेच्छैन तत्साधने प्रवर्त्तयतु समानविषयत्वादित्याह ज्ञातस्य विति। ____ ननु साधनविषया नेच्छा तस्य निसर्गसुन्दरत्वाभावादित्यत आह ये यदिति / अस्तु साधनविषयैवेच्छा प्रयत्नजननी लिङर्थ इत्यत आह न चेति / साधनेच्छा न लिङः श्रुतिकाले सती. त्यर्थः। ननु साधनेच्छायास्तत्कालासत्त्वेऽपि तज्ज्ञानादेव प्रवृत्तिः स्यादित्यत आह न चेति / तच्चेति / साधनविषयेच्छाज्ञानमित्यर्थः / यदि च साधनेच्छाज्ञानादेव प्रवृत्तिः, तदा स्वेच्छानुत्पत्तिदशायामपि ततः प्रवर्ततेत्याह लिङो वेति / यजेतेत्यतः साधनेच्छाज्ञानं जातं, न तु स्वसम्वन्धितया, तादृशश्च प्रवर्तकम् , अतो नानिच्छन्नपि प्रवर्यतीत्यत आह स्वसम्बन्धितयेति / एवं यजेतेत्यस्य विध्यर्थत्वं न स्यात्तस्य स्वेच्छाज्ञानाजनकत्वादित्याह प्रथमेति / - किमर्थमिति / इच्छ।ज्ञानादेव प्रवृत्तौ किमर्थमिच्छोत्पादनमित्यर्थः / कुत इति प्रश्ने सङ्क: ल्पज्ञानादित्युत्तरं, किमर्थमित्यत्र तु. प्रयत्नार्थमिति / इच्छाविशेषः,-कुर्यामित्याकारः / स्वभावतः- सुखज्ञानस्य स्वविषयविषयकेच्छाजनकस्वभावत्वादित्यर्थः / औपाधिकः-तत्साधनताज्ञानजन्य इत्यर्थः / सङ्कल्पस्तु न फलं न वा तत्साधनमिति नेच्छाविषयः, न च सङ्कल्पज्ञानात् फलसाधन एवेच्छा, ज्ञानस्य स्वसमानविषयकेच्छाजनकत्वनियमादिति भावः। तत्साधनत्वादेवेति / परम्परया फलसाधनत्वज्ञानादेवेत्यर्थः। तीति / तथा चेष्टसाधनतैव विधिः स्यान्न सङ्कल्पः, तेन / रूपेणाप्रवत्तेकत्वादिति भावः /