________________ 542 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमालौ [ 11 कारिकाव्याख्यायो ताऽऽपत्तेः। कर्तृसङ्ख्याऽभिधानानभिधानाभ्यां विशेष इति चेत् / न, यागयत्न. वानित्यनेन साम्यापत्तेः। इष्ट एवायमर्थ इति चेत् / न, इतोवत्सरशतेनाप्यप्रवृत्तः। फलसमभिव्याहाराभावान्न प्रवर्तते इति चेत् / न, स्वर्गकामो यागयत्नवानित्यतोऽप्यप्रवृत्तः। तत् कस्य हेतोः? न हि यत्नो यत्नस्य हेतुर्यत्नप्रतीतिर्वा यत्नस्य कारणं, अपि विच्छा। न च साऽपि प्रतीता यत्नजननी येन सैव विध्यर्थ इत्यनुगम्यताम् , अपि तु सत्तया। न च लिङः श्रुतिकाले सा सतो / न च लिङव तां जनयति / अर्थविशेषमप्रत्याययन्त्यास्तस्यास्तजनकत्वे व्युत्पत्तिग्रहणवयात् / अनुपलब्धलिङाञ्चेच्छाऽनुत्पत्तिप्रसङ्गादिति / एतेन-वृद्धव्यवहाराद् व्युत्पत्तिर्भवन्ती बालस्यात्मनि प्रवृत्तिहेतुर्यो ऽवगतस्तमेवाश्रयेत्, स्वयञ्च कुर्यामिति सङ्कल्पादेवायं प्रवृत्तः, ततः स एव लिङर्थ-इति निरस्तम् / कुर्यामिति प्रयत्नो वा स्यादिच्छा वा ? नाद्यः, स्वात्मनि वृत्तिविरोधात् / न द्वितीयः, सा हि सत्तयैव प्रयत्नोत्पादिनी, न च लिङः श्रुतिकाले सा सतीत्युक्तम् / फलेच्छा तु निसर्गवाहितया सत्यपि न प्रयत्न प्रति हेतुः। अन्य विषयत्वात् / तदर्थश्च शास्त्रवैयर्थ्यात्। तस्याः कारणान्तरत एव सिद्धः, तत्प्रतीत्यर्थमपि प्रकाशः। यत्नः क्रियते अपि तु यत्नज्ञानमिति, तत्राह यत्नप्रतीतिवति / अत्रापि न हीति योज्यम् / अस्तु कर्तृधर्म इच्छैव लिङ्वाच्येत्यत आह न चेति / प्रवृत्तिहेतुज्ञान विषयस्थ लिङर्थत्वादित्यर्थः / असत्त्वादिति विवृणोति न च लिङ इति / प्रत्ययत्यागादिति हेतुं व्याचिख्यासुर्भुमिकामारचयति न च लिङवेति / अथ विषयज्ञानमनुत्पाद्य लिपि नेच्छां जनयति, अन्यथा व्युत्प. नस्येवाव्युत्पन्नस्यापि लिद्भवणादिच्छा स्यादित्याह अति / स्वयञ्चति / इष्टसाधनं ममेति मत्वा कुर्यामिति यः सङ्कल्पः, तज्ज्ञानादहं प्रवृत्तः, अतः प्रयोज्यवृद्धोऽपि तत एव प्रवृत्तः, ततः सङ्कल्पज्ञानं लिकुच्चारणान्तरं जातमिति लिङेच तत्करणमित्यवगच्छति व्युत्पद्यमानो बाल इत्यर्थः / स्वात्मनीति / यत्नस्य यत्नहेतुत्वे स्वात्मनि वृत्तिविरोध इत्यर्थः / अनेन विरोधत इति कारिकांऽशो विवृतः / इच्छा साधनगोचरा प्रवृत्तिहेतुरपि न ज्ञाता सतीति न लिडर्थ इत्याह सा हीति / न चेति / लिङः श्रवणात् प्रागिच्छाहेत्विष्टसाधनताज्ञानाभावादित्ययः / सङ्करादिति कारिकांऽशं विचरीतुं, सुखादीच्छा लिङः श्रुतिकालेऽप्यस्तीति सा लिङर्थः प्रयनहेतुश्च स्यादिति निरस्यति फलेच्छा विति। निसर्गवाहित्वं-निरुपाधित्वम् / अन्यविषयत्वादिति / फलसाधने हि पुरुषः प्रवर्तते, न फले अन्येच्छायाश्चान्यत्र प्रवृत्तिहेतुत्वेऽतिप्रसङ्ग इत्यर्थः / अपि च फलेच्छां शास्त्रमुत्पादयेत् , ज्ञापयेद्वा ? तत्र नाद्य इत्याह तदर्थञ्चति / फलेच्छायाः फलज्ञानादेवोत्पत्तेः, तस्य स्वविषयेच्छाजनकत्वस्वभावत्वादित्यर्थः / अतएव यज्ज्ञातं स्ववृत्तितयेष्यते, तदेव स्वतः प्रयोजनमिति भावः। द्वितीयमाशङ्कय निराकरोति तदिति / प्रकाशिका।। म्परासाधनत्वेऽपि साक्षादसाधनत्वाभिप्रायेण वा कुम्भकारपितृवदन्यथासिद्धथभिप्रायेण वेदमु. तम् / न चेति / तथा च संकल्पविषयः संकल्पो न भवत्येवेति भावः // 11 // मकरन्दः। न चेति / तथा च सङ्कल्पविषयः सङ्कल्पो न भवत्येवेति भावः // 11 // टिप्पणी। कया श्लाघते इत्येव प्रयुज्यते. तत्र श्लाघतेपदसमभिव्याहारमन्तरेणापि कुतो न प्रयोग इति प्रश्ने तथैव व्यवहारः शरणमित्यर्थः // 11 //