________________ पंचमस्तवके ] ईश्वरसाधनम् / यान्तस्य तु कर्मवचनत्वेन तत्संबन्धाद्भाव्यानपेक्षणीभावेन भावकमात्रमपेक्षेत / न च कटस्य चैत्रं प्रति भावकत्वं, विपर्ययात् / अनाप्तेन तु विवक्षायां प्रयुज्यत एव। प्रयुज्यतां तर्हि कटः करोति चैत्र इत्यादि / न, नित्यसन्दिग्धत्वेन पाक्यार्थास. मर्पकत्वात्। ततस्तदुपपत्तये विशेषस्य व्यञ्जनीयत्वात् / व्यज्यतां तर्हि तृतीयया चैत्रेणेति, एवं देवदत्तः क्रियते कटमिति व्यज्यतां द्वितीययेति चेत् / न, अप्रयो. गात् / न ह्यनाप्तेनाऽप्येवंप्रायाणि प्रयुज्यन्ते। लक्षणाविरोधेन कुत एतदेवेति चेत् / लोकस्यापर्यनुयोज्यत्वात्। ___ न हि गार्गिकयेति पदं साध्विति श्लाघाऽभिधायिपदसन्निधिमनपेक्ष्य प्रयुज्यते / तस्य तदुपाधिनैव विहितत्वादिति चेत् / एतदेव कुतः ? लोके तथैव प्रयोगदर्शनादिति चेत् / तुल्यम्। करोतीत्यादिकर्मविभक्तिसमभिव्याहारेणैव प्रयुज्यते, क्रियते इति कर्तृविभक्तिसमभिव्याहारेणैवेति किमत्र क्रियताम्। ___ इममेव विशेषमुररीकृत्यानभिहिताधिकारानुशासनेन ह्येतावान् परामर्शःसर्वेषां हृदि पदमादधातीत्यभिधानानभिधानविभाग एव व्युत्पादनदशायां पेशल इति / स्यादेतत् , भवतु सर्वाख्यातसाधारणी भावना , कालविशेषसंबन्धिनी सा लड़ाद्यर्थः, कालत्रयापरामृष्टा लिङर्थ इति चेत् / न, यत्नपदेन समानार्थत्वप्रसङ्गात् / विषयोपरागानुपरागाभ्यां विशेष इति चेत् / न, यागयत्न इत्यनेन पर्याय . प्रकाशः। चैत्रमितीति / भाव्यानपेक्षिणीति / द्वितीयायाः कर्मत्वाभिधायकत्वेन भाव्यानपेक्षिणी भावनेत्यर्थः / नित्येति / कर्तृकर्मभावे इति शेषः। लोकस्येति। व्याकरणस्याप्यनादिप्रयोगानुपजीव्यैव शब्दान्वाख्यायकत्वादित्यर्थः। तुल्यमिति। अनादिः प्रयोगोऽस्माकमप्युपजीव्य इत्यर्थः / इममेवेति / बालव्युत्पत्त्यर्थ प्रकृतिप्रत्ययविभागस्येवाभिहितानभिहितत्वस्यापि व्युत्पादनमित्यर्थः / वस्तुतो यत्पदस्य यत्पदसमभिव्याहारेणेव प्रयोगनियमः, तस्य तत्पदं विना न प्रयोग इत्यर्थः। कर्तृधर्मस्य यत्नस्य विधित्वे सर्वाख्यातसाधारण्येनोक्तातिप्रसङ्गे समाघि शङ्कते स्यादेतदिति / लडादीनां वर्तमानादिकालनियमवल्लिब्स्तदभावादिति नातिप्रसङ्ग इत्यर्थः / यनज्ञानस्याप्रवर्तकतया प्रागुक्ताप्रवृत्तेरिति स्मारणेन परिहरति यत्नपदेनेति / अथ लिग न प्रकाशिका। यत्नस्येति / यद्यपि यत्नस्य लिङर्थत्वे तज्ज्ञानं प्रवर्तकमिति, न तु स्वात्मनि वृत्तिविरोधदोषः, तथापि यत्नवानित्यतोऽप्रवृत्तिरेव तत्पक्षे दूषणमित्यवधेयम् / न वा तत्साधनमिति / पर मकरन्दः। यत्नस्येति / यद्यपि यत्नस्य लिर्थत्वे तज्ज्ञानं प्रवर्तकमिति न स्वात्मनि वृत्तिविरोधो दोषः, तथापि प्रवृत्तिहेतौ सङ्कल्पे शक्तरित्युक्तत्वात् तदूषणे तात्पर्य्यम् / न वा तत्साधनमिति / यद्यपि परम्परया तत्साधनत्वं वक्ष्यति, तथापि साक्षान तयेत्यापातत इदम् / यद्वा कुम्भकारपितृवदन्यथासिद्धतया न साधनमिति भावः। टिप्पणी। नित्यसंदिग्धत्वेन-कोऽत्र कर्ता किं कर्मेति संदिग्धत्वेन / गार्गिकयेत्यादि / गोत्रचरणाच्छ्लाघाऽन्याकारतदवतेषु (5-1-134 ) इति पाणिनी. यसूत्रेण गोत्रप्रत्ययान्तात् गाय॑शब्दात् भावे वुश्प्रत्ययेन केवलं गार्गिकशब्दो व्युत्पादितोऽपि गार्गि