SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 540 व्याख्यात्रयोपैतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 11 कारिकाम्याख्यायां स्यादेतत् , किमिति न प्रयुज्यते कटः करोति चैत्रमित्यादि, अभिहितानभिहितव्यवस्थाऽभावादिति चेत् / न, चैत्रमिति प्रथमान्तस्यासाधुत्वात् / द्विती प्रकाशः। यत्नस्य परम्परया तण्डुला विशेष्याः। एवं यद्यप्युभयत्र चैत्रः कर्ता तण्डुलाः कर्माणि, तथापि पत्नविशेष्ये सङ्ख्याऽन्वयः। अचेतनेऽपि रथो प्रामं गच्छतीत्यत्र ग्रामवृत्तिफलजनकव्यापाराश्रयो रथः प्रतीयते, रथेन गम्यते प्राम इत्यत्र रथवृत्तिव्यापारजन्यफलाश्रयो प्राम इति, तत्रापि विशेध्ये सङ्ख्याऽन्वयः। चैत्रेण सुप्यते इत्यत्र न चैत्रो भावनाविशेष्यः, तृतीयाविरुद्धत्वात् , कर्म तत्र नास्त्येव / अतो धात्वर्थ एव भावनाविशेष्यः, फलत्वाद्विषयत्वाद्वेति तत्र सङ्ख्याऽन्वयः / न च प्रातिपदिकार्थे भावनाऽन्वयेऽपि न सङ्ख्याऽन्वयः, प्रथमोपनीतसङ्ख्याऽन्वयेन च तस्य तदनाकाङ्क्षत्वादिति वाच्यम् / प्रथमाऽऽख्याताभ्यामेकस्या एव सङ्घयाया अभिधानात् , चैत्रो दण्डीत्यत्रेव सामानाधिकरण्यानुरोधात् / अन्यथा त्वन्मते प्रथमाऽर्थसङ्ख्याऽन्वयश्चैत्रे न स्यात् , आख्यातेनैव स्ववाच्यकर्तृसङ्ख्याऽभिधानात् / नापि पचतीत्यत्र पाकयत्नवानिति विवरणात् कर्ता आख्यातवाच्यः / कर्तुरन्यलभ्यत्वेनावाच्यत्वस्थितौ विवरणस्य तात्पर्यविषयपरत्वात् , द्वन्द्वादिसमासस्य विप्रहेण विवरणेऽपि तत्र शक्त्यभावाच्च / __ अत्रास्मत्पितचरणा:-कृतिरूपकर्तृत्ववत् कर्मत्वमपि लकारवाच्यम् , तद्धर्मिणोरन्यत एव लाभात् / तण्डुलान् पचतीत्यत्र (1) द्वितीयात इव चैत्रेणौदनः पच्यते इत्यत्रान्यतः कर्मत्वालाभादित्याहुः। कर्तृकर्मकरणादीनामभिहितानभिहितत्वविशेषाभावे कटं करोति चैत्र इत्यत्र बिभक्तिपरिणामे प्रयोगः किं न स्यादित्याह-किमिति / चैत्रशब्दस्य पुंलिङ्गत्वात् प्रथमायां तद्रूपमसाध्वित्याह प्रकाशिका। धात्वर्थः फलं च कर्मत्वरूपमाख्यातार्थः कृतिजन्यत्वादिकञ्च संसर्ग इति भावः। न चैवं कर्मत्वस्याख्यातवाच्यत्वे चिन्तामणिकारीयमतभेदः, आख्यातवाच्यकर्तृत्वे कर्मत्वाधिकरणत्वं संख्यान्व. यनियामकमित्येतावता चिन्तामणिकारीयमतभेदात् / कर्मत्ववाचकता तु कर्माख्यातस्योभयमतेऽपीति भावात् , एषा च रीतिः फलोपलक्षितव्यापारवाचकत्वे धातोः, यदा तु फलविशिष्टव्यापार एव धात्वर्थोऽन्यथा त्यजिगत्योः पर्यायतापत्तिरिति मतं, तदाश्रयत्वरूपमेव कर्मत्वं द्वितीयायाः आख्यातस्य चार्थः, तत्प्रकारकप्रतीत्यनुरोधादन्यच्च पूर्ववदेवेत्यवधेयम् / केचित्तु फलस्य विशेषरूपेण धातुवा च्यत्वं सामान्येन तु द्वितीयादिवाच्यत्वमिति फलस्य धातुवाच्यत्वपक्षेऽपि पूर्वव रीतिरित्याहुः / तद्धम्मिणोरिति / कर्तृत्वधम्मित्वधमिणोः, कर्तृधम्मिणोरित्यर्थः। द्वितीयाया इति। तथा च वाच्यतयाचैत्रोपस्थितेः तथात्वेन कटं नापेक्षते किन्तु भावकत्वेनैव, तच्च विपर्ययादयुक्तमिति भावः / मकरन्दः। तद्धर्मिणोरिति / कर्तृत्वकर्मत्वम्मिणोः कर्तृकर्मणोरित्यर्थः / इत्याहुरित्यस्वरसोद्भावनम् / तद्वीजन्तु-तथाप्याश्रयत्वमात्रमनन्यलभ्यतया लकारवाच्यं, परसयवेतक्रियाफलशालित्वं हि कर्मत्वमिति चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयत्वमेव तस्य कर्मत्वं वाच्यम् / तत्र तृतीयया यत्नस्य धातुना फलावच्छिन्नव्यापारस्याभिधानेऽपरस्यानन्यलभ्यत्वादिति / द्वितीयाया इति / तथा च भाव्यतया चैत्रस्योपस्थितेस्तथात्वेन कटं नापेक्षते, किन्तु भावकत्वेनैव, तच्च विपर्य्ययादयुक्तमिति भावः / (1) अत्र द्वितीयाया इति प्रकाशिकामकरन्दाभिमतः पाठः /
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy