________________ पंचमस्तवके] ईश्वरसाधनम् / सम्बन्धमपेक्षते, भावनाऽपि व्यापारभूता सती व्यापारिणमित्युभयाकाङ्क्षा अन्वयहेतुः / कटं कटेनेत्यादि तु कारकतयैव फलसमन्वितं न व्यापारान्तरमपेक्षते इति निराकासमिति। अत एवाऽऽस्यते सुष्यते' इत्यादी नाक्षिप्तेनान्वयः। न हि चैत्रेणेति तृतीयान्तशब्दस्य भावनायामाकाङ्क्षाऽस्ति / भाव्याकाङ्क्षाऽस्तीति चेत् / न, फलेन शयनादिधात्वर्थेनान्वयात् / फलसंबन्धिनश्यात्र कर्चनतिरेकात् , न हि शयनादयो धात्वर्थाः कतिरेकिसंवन्धाः। न च फलतत्संवन्धिव्यतिरेकेणान्यो भाव्यो नाम यमपेक्षेत। - प्रकाशः। पदिकार्थ इति / फलेन-धात्वर्थेन, क्रियासम्बन्धं व्यापारसम्बन्धमित्यर्थः / कटं कटेनेति / अत्र द्वितीयातृतीयाभ्यां कारकविभक्तिभ्यां क्रियाऽनुकूलव्यापारसहितस्यैवोपस्थितेर्न भावनाऽऽका. क्षेत्यर्थ / ____ ननु यदि स्वपिति इत्यादावाक्षिप्तेन काऽन्वयस्तदा सुप्यते इत्यादावपि तथा स्यादित्यत आह अत एवेति / यत एव उभयाकांक्षानिबन्धनोऽन्वय इत्यर्थः / भाव्यं भावनाजन्यं, फलञ्चेत्तत्राह फलेनेति / अंथ फलसम्बन्धि कर्म भाव्यं, तबाह फलेति / धातूनामकर्मकत्वात् तदाश्रयत्वं कर्तुरेवेत्यर्थः। तस्य च चैत्रेणेति तृतीयया कर्तृत्वोपस्थितेन भाव्यत्वेनान्वयान्तरमिति भावः / ननु चैत्रस्तण्डुलान् पचति इत्यत्र भावनाऽन्वयश्चैत्रे सम्भवत्याश्रयत्वात् / चैत्रेण पच्यन्ते तण्डुला इत्यत्र तण्डुलानां न तावद्विषयत्वेन भावनाऽन्चयः, यत्नस्य विक्लित्यनुकूलव्यापारविषयत्वात् / विषयत्वेनान्वये वा चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां विषयत्वेन भावनाऽन्वयापत्तौ सङ्खथाया अपि तदन्वयापत्तेः / नाप्याश्रयतया, भावनाया अतदाश्रितत्वात् / न च चैत्रेण भावनाऽन्वयः, तृतीयार्थयत्नेनावरुद्धतया भाननायास्तदनन्वयात् / अचेतने वा कथं सङ्ख्याऽन्वयनियमः ? / तत्र भावनाया अनन्वयात् / यत्र च पचतीत्येव प्रयुज्यते, तत्र कथं भावनायाः कन्वयः ? / यत्र वा चैत्रः कर्ता पचत्योदनम् इति प्रयोगः, तत्र चैत्रेणेतिवत् कर्तृत्वेनेवोपस्थितावाकाङ्क्षाविरहाद्भावनाऽनन्वये कथं कर्तरि सङ्ख्याऽन्वयः ? / ___ उच्यते-- यत्र यद्विशेष्य, तेन सङ्ख्याऽन्वयः / तथा हि चैत्रस्तण्डुलान् पचतीत्यत्र तण्डुलानां कर्मत्वेनान्वयात् तण्डुलवृत्तिफलजनकव्यापारजनकयत्नाश्रयश्चैत्र इति प्रतीतेः स विशेष्यः / चैत्रेण पच्यन्ते तण्डुला इत्यत्र चैत्रवृत्तियत्नजन्यव्यापारजन्यफलाश्रयास्तण्डुलाः प्रतीयन्ते इति प्रकाशिका। तृतीयार्थयत्नेति / 'कर्तृकरणयोस्तृतीये'त्यनेन कर्तरि तृतीयानुशासनादिति भावः। ननु तत्राक्षिप्तेनैव चैत्रादिना भावनान्वयोऽन्यथा तदनन्वय एवेत्यरुचेराह यत्र वा चैत्र इति / ___ यत्र यद्विशेष्यमिति / आख्यातवाच्यविशेष्यमित्यर्थः / श्राख्यातवाच्यश्च क्वचिद्यत्नः क्वचिद्व्यापार इति / तण्टुलवृत्तीत्यादि / फलं द्वितीयार्थः, तदेव कर्मत्वं, वृत्तिस्तु संसर्गः, व्यापारश्च धात्वर्थः, जनकत्वं च संसर्गः, यत्नश्वाख्यातार्थः, तस्य च व्यापारेण समं जनकत्वं देवदत्तेन सममाश्रयत्वं संसर्ग इति भावः / चैत्रवृत्तीत्यादि / अत्र च यत्नस्तृतीयार्थः व्यापारो मकरन्दः। तृतीययेति / 'कर्तृकरणयोस्तृतीयेति कर्तृत्वे तृतीयाऽनुशासनादिति भावः। ननु अत्राक्षिप्तेन चैत्रादिना भावनाऽन्वयः, अन्यथा तदनन्वय इष्ट एवेत्यरुचेराह यत्र वेति / यद्विविशेष्यमिति / आख्याततात्पर्यविषयीभूतार्थविशेध्ये इत्यर्थः। अत एवाह अचेतनेऽपीति।