________________ 538 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जला [ 11 कारिकाव्याख्यायो काङ्क्षति। न हि व्यापारघन्तं व्यापार श्राश्रयते, आत्माश्रयत्वात् , समवायं प्रति तदनुपयोगात् , विजातीयव्यापारवतोऽकर्तृत्वाच्च / न च द्वितीयाद्याः प्रातिपदिकविभक्तयः। ततः प्रथमानिर्दिष्टेनैव भावनाऽन्वीयते इति तस्यान्वययोग्यतानियमात् सङ्ख्याऽपि तदनुगामिनी तेनैवान्वीयते इति नातिप्रसङ्गः, नञर्थवत्। यथा हि चैत्रो न गौरो न स्पन्दते न कुण्डलीत्यादौ विशेषणविशेष्यसमभिव्याहाराविशेषेऽपि ना तदनभिधानाविशेपेऽपि नअर्थस्य विशेषणांशैरेवान्वयो न विशेष्यांशेन / ननु बाधात्तत्र तथा, न हि विशेष्येण तदन्वये विशेषणोपादानमर्थववेत् , तनिषेधेनैव विशेषणनिषेधोपलब्धेः / उभयनिषेधे चावृत्तौ वाक्यभेदादनावृत्ती निराकाङ्क्षत्वादिति चेत् / न, तुल्यत्वात् / समानप्रत्ययोपात्तभावनाऽक्षिप्तान्वयोपपत्तौ बाधकं विना सन्निहितत्यागे व्यवहितपरिग्रहस्य गुरुत्वात् / भावनायाश्च सामान्याक्षेपेऽपि साकाङ्क्षपरित्यागे निराकाङ्क्षान्वयानुपपत्तेः। न ह्यन्यतराकाङ्क्षा अन्वयहेतुः, अपि तूभयाकाङ्क्षा / प्रातिपदिकार्थो हि फलेनान्वयमलभमानः क्रिया प्रकाशः। ___ युक्त्यन्तरमाह समवायं प्रतीति / तदनुपयोगाद् = व्यापारवदनुपयोगात् / भावनाया इव तत्समवायस्यापि शुद्धप्रातिपदिकार्थापेक्षतया भावनादिविशिष्टनिराकाङ्क्षत्वादित्यर्थः / यद्धा समवायो मेलकः / यत्नमेलकस्य पूर्वापरीभूतभावनावाचकेनाख्यातेनैव वोधितत्वाद् न तदन्वयाय भावनान्तरापेक्षेत्यर्थः / नन्वात्माश्रयानवस्थाभ्यां सजातीयव्यापारवदनाकाङ्क्षति द्वितीयाद्यपनीतविजातीयव्यापारवत् साकाङ्क्षत्वं स्यादित्यत आह विजातीयेति / तथासत्यऽयोग्यत्वादनन्वयापत्तिः, न हि घटानुकूलव्यापारेण पाककर्तृत्वं दृष्टमित्यर्थः / ननु शुद्धप्रातिपदिकार्थापेक्षिण्यपि भावना कुतो न द्वितीयाद्युपनीतेनान्वेतीत्यत आह न चेति। उभयोपस्थितावपि साकाक्षेण सहान्चयो भावनाया न निराकाङ्क्षेणेति दृष्टान्तेन स्पष्टयति नअर्थवदिति / न चैत्र इत्यादिना क्रमेण जातिगुणकर्मद्रव्यानां विशेषणानां निषेध्यत्वमुक्तम् / श्रावृत्ताविति / उभयनिषेधे च सकृदुच्चरितस्य नोऽन्यतरनिषेधेनैव निराकाङ्क्षत्वात् तदर्थान्वयार्थमावृत्तिकल्पने पदावृत्तिरूपवाक्यभेदापत्तिरित्यर्थः / अनावृत्ताविति / सकृदुच्चरितनो येन केनचिदेकेनैव चरितार्थत्वाद् निराकाङ्क्षत्वादित्यर्थः / . भावनाऽन्वयिनैव सङ्ख्याऽन्वेतीत्यत्राभिमतं नियामकं स्पष्टयति समानेति / यद्यपि व्यापारात्मिका भावना व्यापारिसामान्यमाकाङ्क्षति आक्षिपति, तथापि साकाक्षेण व्यापारिणा प्रातिपः दिकार्थेनान्वीयते, न तु निराकाङ्क्षण कारकान्तरेणैत्याह सामान्येति / उभयाकाङ्क्षामाह प्राति प्रकाशिका / प्येऽतिव्याप्तिरिति प्रथमान्तेत्यादि व्याचक्षते भावनादिविशिष्टेति। सजातीयव्यापारमभिप्रेत्य। ननु भावनासमवायस्यापदार्थत्वेन तदन्वयो न शङ्कास्पदमपीत्यरुचेराह यति। भावनान्तरापेक्षेति। लथा च शुद्धप्रातिपदिकमात्राकाङ्क्षवेति भावः / ___ मकरन्दः। भावनादिविशिष्टेति / सजातीयव्यापारमभिप्रेत्य / ननु भावनासमवायो न पदार्थः, किन्तु तदन्वय इति तस्यान्वयप्रतियोगित्वाभावानिराकाङ्क्षत्वेऽप्यदोष इत्यरुचेराह यति / भावनान्तरेति / तथा च शुद्धप्रातिपदिकार्थमात्राकाङ्क्षवेति भावः /