________________ पंचमस्तवके ] ईश्वरसाधनम्। आक्षेपलभ्ये सङ्खयेये नाभिधानस्य कल्पनी। सङ्खयेयमात्रलाभेऽपि साकाङ्केण व्यवस्थितिः // 11 // सङ्ख्याऽपि तावदियं भावनाऽनुगामिनी; यं यं भावनान्वेऽति, तं तं सङ्ख्याs. पीति स्थित एकप्रत्ययवाच्यत्वनियमात् / भावना च शुद्ध प्रातिपदिकार्थमात्रमा. प्रकाशः। समानप्रत्ययोपात्तत्वे प्रत्यासत्त्यान्तरङ्गत्वात् सङ्ख्येयमात्रसाकाङ्क्षाऽपि सङ्ख्या भावनाऽन्वयिनैवान्वेति / अग्निना चैत्र ओदनं पचतीत्यत्र चैत्रपदार्थस्य निर्व्यापारत्वेनोपस्थितस्य भावनाssस्मकव्यापारसाकाक्षत्वाद् भावनायाश्चाश्रयाकाङ्क्षत्वात् तेनैव भावनाऽन्वेति, न कर्मकरणादिना / द्वितीयादिना तस्य व्यापारवत्तयोपस्थितेापारान्तरनिराकाङ्क्षत्वात् , भावनायाः साकाङ्क्षत्वेऽप्यन्यतराकाक्षाया अन्वयानङ्गत्वात् / ओदनः पच्यते चैत्रेणेत्यत्र तु कर्तुर्व्यापारवत्त्वेनोपस्थिते न तत्र भावनाऽन्वयः किन्तु प्रथमानिर्दिष्टेण कर्मणा, तस्य व्यापारवत्त्वेनानुपस्थितेस्तत्साकाङ्क्षत्वात् / चैत्रेण सुप्यते इत्यत्र तु कर्तुनिराकाङ्क्षत्वात् कर्मणश्चाभावाद् धात्वर्थेनैव सङ्ख्याया अन्वय इति आक्षेपादेव कर्तृकर्मणोर्लाभे सङ्ख्याऽन्वयो, नियमस्य चान्यथोपपत्तौ न ते लकारवाच्ये इत्याह सङ्ख्याऽपि तावदिति। शुद्धं-निर्व्यापारत्वेनोपस्थितम् / इदश्च कर्तृकर्मणोराक्षेपलभ्यत्वं यद्भावनाविशेष्यत्वे सति प्रथमान्तपदोपस्थाप्यत्वं, न तु सङ्ख्यालिङ्गकानुमितिविषयत्वम् , अनुमित्या सङ्ख्येयमात्रगतत्वेन सङ्ख्याप्रतीतेः / शब्दोपस्थापितसङ्ख्यायास्तदुपस्थापितेनैवान्वयनियमाच्चेति तत्त्वम् / किं तद्यापारविशिष्टे तयापाराश्रयणम् , उत व्यापारान्तरविशिष्टे ? तत्र नाय इत्याह प्रात्माश्रयत्वादिति / अन्त्ये, त्वनवस्थितेरिति भावः / प्रकाशिका। केचित्तु यथा कर्तुः प्रथमोपस्थितत्वं प्राधान्यं तथा च कर्मण उद्देश्यत्वं प्राधान्यमित्याशय इति वदन्ति / तत्तुच्छम्-तेनैवेति ग्रन्थविरोधात् एवमपि विनिगमकाप्राप्तेश्चेति / __ यद्भावनाविशेष्यत्वे सतीति / भावनाविशेष्यस्य कर्तुः कर्मणो वा प्रथमान्त पदोपस्थाप्यत्वमेवाक्षेपलभ्यत्वमित्यर्थः / मिश्रास्तु विशिष्टमेव पारिभाषिकमाक्षेपलभ्यत्वमितरकारकव्यावृत्तं, तत्र च तान्तपदोऽपस्थाप्येऽतिव्याप्तिरिति सत्यन्तम्। सुप्यत इत्यादिभावप्रत्ययान्तोपस्था मकरन्दः। यद्भावनेति / भावनाविशेष्यस्य कर्तुः कर्मणो वा प्रथमान्तपदेनोपस्थाप्यत्वमेवाक्षेपलग्य. स्वमिति भावः / टिप्पणी। श्राक्षेपलभ्य इति / संख्येये कर्तरि, आक्षेपलभ्ये सति, अभिधानस्य शको, कल्पना आख्यातस्य न भवति अनन्यलभ्यो हि शब्दार्थ इति न्यायात् / नन्वेवमाख्याताभिहितसंख्यायाः कर्तवैवान्वयो न कर्मणीति कुतोऽत आह संख्येयमानस्यादि / तुशब्दोऽ. प्यर्थकः, संख्यायाः संख्येयमात्राक्षेपित्वेऽपि यं यं पदार्थ भावनाऽन्वेति तं तं संख्यापीति व्युत्पत्त्या व्यवस्थितिः संख्याऽन्वयनियमः, तथाच कर्तृविवक्षिताख्यातोपस्थाप्यसंख्यायाः कर्तरि, कर्मविहिताख्यातोपस्थाप्य संख्यायाः कर्मण्यन्वय इति भावः / 68 न्या० कु०