________________ 536 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जली [ 10 कारिकाव्वक्ष्यायां दृश्यते च समानप्रत्ययाभिहितेनान्वयः सङ्ख्यायाः / तद् यथा-भूयते सुप्यते इत्यादौ / न हि तत्र क; कर्मणा वा अन्येनैव वा केनचिदन्वयः, किन्तु भावेनैव / अनन्वये तदभिधायिनोऽनकर्थत्वप्रसङ्गात् / आक्षिप्तेन चान्वये तत्रापि कर्बवान्वयापत्तेः।कोहि सुप्यते स्वपितीत्यनयोः कर्ताक्षेपं प्रति विशेषः / ___ स्यादेतत्, भावकर्मणोरित्याद्यनुशासनबलात्तावत् भावकर्मणी प्रत्ययवाच्ये, ततस्तदभिहिता सङ्ख्या ताभ्यामन्वीयते। यस्तु प्रत्ययो न तत्रोत्पन्नः, तदभिहिता सङ्ख्या, 'मुख्यं वा पूर्वचोदनालोकवद्' (मी० 12, 2, 23,) इति न्यायेन कर्तारमेवाश्रयते इति नियमः। न। विपर्ययप्रसङ्गात् / 'शेषात् कर्त्तरि परस्मैपदं' 'कर्त्तरिशवि'त्यनुशासनबलाद्भावकारी प्रत्ययवाच्यौ, ततस्तदभिहिता सङ्ख्याऽपि ताम्योमन्धीयते / यस्तु प्रत्ययो न तत्रोत्पन्नस्तदभिहिता संख्या तेनैव न्यायेन कर्म समाश्रयेदिति नियमोपपत्तेः। तस्मान्मतिकर्दममपहाय यथाऽनुशासनमेव गृह्यते इति प्राप्तम् / एवं प्राप्तेऽभिधीयते प्रकाशः। दृश्यते चेति। यथा भाववाचकाख्याताभिधेयसङ्ख्या तेनैवान्वीयते नत्वाक्षिप्तेन का, साकाक्षयोग्यासन्नपदार्थमात्रस्यैवान्वयप्रतियोगित्वात् , भिन्नपदोपस्थापितत्वस्य गौरवेणाप्रयोजकत्वात् , तथाऽऽख्यातवाच्ययोः कर्तृसङ्ख्ययोरप्यन्वय इत्यर्थः / न हीति / अन्वये वा कर्तुरनेकत्वे द्विवहुवचनयोः प्रयोगः स्यादिति भावः / ____ यदि च भावसङ्ख्ययोरन्योन्यमनन्वयः तदा निश्चितान्वयपदत्वेनाख्यातमपार्थकं स्यादित्याह अनन्धय इति / यद्याक्षिप्तेन कान्वयः सङ्घयायाः स्यात् , तदा स्वपितीत्यत्रेव सुप्यत इत्यत्रापि तेनैव तदन्वयः स्यादित्याह आक्षिप्तेन वेति / को हीति ।'आक्षेपहेतोर्भावनाऽभिधानस्योभयत्राविशेषादित्यर्थः / मुख्यं वेति / 'पाग्नावैष्णवमैकादशकपालं चरुं निर्वपेत् , संग्रामे सरस्वतीमप्याज्यस्य यजेते'त्यत्राग्नावैष्णवधर्मा अप्रतो भवन्त्याहो सारस्वतधर्माः ? इत्यनियमे आग्नावैष्णवधर्मा एव प्रथम भवन्ति / अत्र हेतुः-पूर्वचोदनात्-प्रथममुपस्थितत्वात् अस्योदाहरणं-लोकवदिति / यथा लोके यत्र विवादपदे साक्षिद्वयसत्त्वान्मुख्यः साक्षी पृष्टस्तमनुजानाति, द्वितीयश्च पृष्टस्तमपलपति / तत्र प्रथमपृष्ठेनैव व्यवहारः तस्य मुख्यत्वात् , तथा कारकाणां प्रथमं कत्तैव देशित इति बाधकं विना तेनैव सङ्ख्याऽन्वीयते इत्यर्थः / ___ भावकर्ताराविति द्वन्द्वः तेनैव, मुख्यं वेत्यादिनैवेत्यर्थः / कर्मैवेति / तथा च पक्ष्यते प्रोदनं देवदत्त इति न स्यात् , किन्तु पक्ष्यते श्रोदन देवदत्तेन इत्येव स्यादित्यर्थः। यथाऽनुशासनं, व्याकरणानतिक्रमेणेत्यर्थः। तथा च कर्तरि विहितस्याख्यातस्य सङ्ख्या का कर्मणि च / कर्मणाऽन्वेतीति नियम उपपद्यते इति भावः / प्रकाशिका / मुख्यं वेत्यादिनैवेत्यर्थ इति / ननु कारकेषु कर्तुः प्रथमं दर्शनादस्तु तथा कर्मणस्तु न प्रथमोपस्थितिरिति न तत्रास्य न्यायस्यावतार इति चेत् / न कर्तुविशेषर्विध्यवरुद्धतया तदतिरिक्तविशेषानाकाक्षत्वात् विशेषविध्यनवरुद्धेषु च कर्मण एव प्रथमोपस्थितत्वादित्याशयात् / मकरन्दः / मुख्यं वेत्यादिनैवेत्यर्थ इति / ननु तत्र कारके कर्तुः प्रथमं देशनादस्तु तथा, प्रकृते तु न तस्य न्यायस्यावतारः कर्मणः प्रथममदेशनादिति चेन्न / यथा कारकेषु प्रथमं देशनात् कर्तुर्मुख्यत्वं तथोद्देश्यतया कर्मणो मुख्यत्वमित्याशयादित्याहुः / विहितस्य सा करणार