________________ 560 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाखलौ [ 13 कारिकाव्याख्यायां प्रकाशः। मैवम् / कृतिसाध्यत्वज्ञाने लाघवाद्विषयतयेष्टसाधनत्वस्यैवावच्छेदकत्वात् / न तु स्वविशेषणवत्ताप्रतिसन्धाजन्यत्वं तत्र विशेषणं, गौरवात् / न च साध्यत्वसाधनत्वयोविरोधः, निर्विशेषितयोस्तयोरविरोधात् / तदा साध्यत्वसाधनत्वयोरेव विरोधात् / तथात्वस्य चानभ्युपगमात् / अन्यथा साध्यत्वसाधनत्वयोरन्यतरमेव स्यात् पाके, न तु समयभेदादुभयम् / तस्मात् समयभेदमादाय साध्यत्वसाधनत्वयोनिमवाधितम् / न चैवं गौरवं, समयमेदस्य प्रवृत्तावनुपयोगात् , ज्ञानोत्पतावेव तदुपक्षयात् / ___ कथं वा इष्टसाधनत्वेन कार्यत्वानुमानं, पक्षे साध्यसाधनयोरन्यतरसत्त्वे बाधासिद्ध्योरन्यतरप्रसनात् / समयभेदेन तयोरविरोध इति तु तुल्यम् / अपि च स्वविशेषणवत्ताज्ञानजन्यकार्यताज्ञानाभावात् कथं सुखे चिकोर्षा ? अथोपायचिकीर्षायां तद्धेतुः, इच्छाकारणसुखज्ञाने कृतिसाध्यत्वं यदा विषयः, तदा सुखे चिकीर्षा, नो चोदिच्छामात्रमित्युभयं चिकीर्षाहेतुः / तींच्छाहेतुज्ञाने कृतिसाध्यत्वं यदा भासते, तदा चिकीर्षा, नो चेदिच्छामात्रमित्यनुगतमेव सुखतदुपायचिकीर्षा हेतुरस्तु, लाघवात् / सुखत्वज्ञाः नवविष्टसाधनत्वज्ञानस्यापि इच्छाहेतृत्वात् / अत एव पाकादाविष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति चिकीर्षा, वृष्टयादाविष्टसाधनताशाने तु न तद्विषय इतीच्छामात्रम् / सुखचिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयके चिकीर्षाहेतुत्वावधारणात् / परमार्थतस्तु देवाधीनवृष्टीच्छादौ स्वतोऽसुन्दरविषयेच्छामात्र प्रतीष्टसाधनताशानं कारणं क्लूतम्, अतः पाकादिचिकीर्षाऽपि तज्जन्या, न हि यज्जातीयं प्रति यत्कारणं गृहीतं, तदतिपत्य तद्भवति / न च चिकीर्षान्यत्वे सत्युपायेच्छात्वं तत्र तन्त्रं, गौरवात् / न च साधनत्वज्ञानमिच्छाविरोधि, निर्विशेषितयोः सिद्धत्वासिद्धत्वयोरविरोधेनेच्छासाधनत्वयोरविरोधात् / यत्त तत्साध्येष्टज्ञानादृष्टयादाविच्छेत्युक्तम् / तन्न, असिद्धावस्थावतो वृष्टया रिष्टानुत्पत्तेस्तस्यावश्यं सिद्धत्वमवगन्तव्यम , इच्छानुरोधाच्चासिद्धत्वमिति तत्रापि विरोधात् / वृष्टिसाधनत्वमादायैवे. ष्टसाध्यत्वप्रहाच्च / एवञ्चेष्टसाधनतामात्रज्ञानात् कृतिसाध्यताप्रकारिकेच्छा नोत्पत्तमर्हति, न चातिप्रसनिवृत्तिरिति कृतिसाध्यत्वमपि तत्र विषयतयाऽवच्छेदकमस्तु / . ननु कृताविच्छा चिकीर्षा, सनः प्रकृत्यर्थगोचरेच्छावाचित्वात् / न च कृतिविषयपाकादिविषये कृतिसाध्यस्वप्रकारकेच्छावाचित्वम् / तथा च कृताविष्टसाधनताज्ञानादिच्छा, वृष्टयादौ तथा कल्पनात् / यदा कृताविच्छा, तदा सेव चिकीर्षा, अन्यत्रेच्छामात्रम्, न तु कृतिसाध्यताज्ञानात् , कृतौ कृतिसाध्यत्वाभावात् / अथ पाक कृत्या साधयामीतीच्छा अनुभवसिद्धा, सा च कृतिसाध्यताज्ञानात् / सा च चिकीषांपदाप्रतिपाद्याऽपि कृतिहेतुः, समानविषयकत्वात् / न तु कृतीच्छा कृतिहेतुः, कृतिविषयाविषयत्वा. दिति चेत् / अस्ति तावत् पाककृताविच्छा वृष्टीच्छावत् , अस्ति च कृतिसाध्यत्वप्रकारिका तत्रेच्छा। तथापि कृतीच्छेव कृतिहेतुर्लाघवात् , न तु कृतिसाध्यत्वप्रकारिकेच्छा, गौरवात् / न चावगतिप्रवृत्त्योः समानविषयत्वमुभयसिद्धं, तस्यैव विचार्यत्वात् / कथन्तर्हि पाकं कृत्या साधयामीतीच्छा? येन रूपेण यस्येष्टसाधनत्वं तेन रूपेण तत्रेच्छासत्वात् / यथा स्वकेदारवृष्टित्वेनेष्टसाध. प्रकाशिका। वारणादिति भावः / न चैवं गौरवमिति / समयभेदविशिष्ठस्य वाच्यत्वस्वीकार इति भावः। समयमेदस्येति / प्रवर्तकं ज्ञानं न समयभेदविषयकं, किन्तु वस्तुगत्या भिन्नसमयावच्छिनमेव / वस्तुतो बलवदनिष्ठाजनकत्वे सति चिकीर्षाधीनत्वमित्यर्थोऽतो साध्यत्वं साधनत्वं च प्रतीतिविषय