________________ पंचमस्तवके ईश्वरसाधनम्। नुकूलतायाः प्रत्ययार्थस्यान्वयः। तदसम्भवात् / न खलु प्रकृत्यैव साऽभिधीयते / धातूनां क्रियाफलमात्राभिधायित्वात् / अन्यथा पाक इत्यादावपि भावनाऽनुभव. प्रसङ्गात् / नापि चैत्र इत्यादिना पदान्तरेण / प्रकृतिप्रत्यययोरुभयोरप्यकारकार्थत्वात् // ओदनमित्यादेः कारकपदत्वात् तस्य च क्रियोपहितत्वात् तेनाभिधानमातेपो पा, कथमन्यथौदनमित्युक्ते, किं भुङ्क्ते पचति वेति विशेषाकाङ्क्षति चेन्न / पचतीत्युक्ते किमोदनं तेमनं वेति विशेषाकाङ्क्षादर्शनात् / सा चापाभिधानयोरन्यतरभन्तरेण न स्यात् / तस्यां दशायां न चेदातेपो नूनमभिधानमेवेति // प्रकाशः। नेति / तदसम्भवादिति / श्रोदनं पचति चैत्र इत्यत्र पदान्तरेण भावनाऽनुपस्थानादित्यर्थः / अस्माकन्तु अनुकूलयत्नोपस्थितावपि अयोग्यतया स नान्वीयते इति भावः। न हि धातुनैव भावनोपरक्तार्थोऽभिधीयते इत्यत आह न खल्विति / प्रकृत्या धातुनेत्यर्थः।। __फलस्य धात्वर्थतया पच्यर्थो विक्लित्तिाघवाद् , न तु तत्फलको व्यापारोऽधःसन्तापनादिः / न चैवं व्यापारविगमे फलसत्त्वकाले पचतीति प्रयोगापत्तिः। धात्वर्थानुकूलव्यापारवत्त्वस्याख्यातार्यतया व्यापारकाल एव पचतीति प्रयोगात् / अथैवं धात्वर्थतया फलं क्रियेति तण्डुलादेः कर्मता न स्याद् , विक्लित्यादिजन्यफलभागित्वाभावादिति चेन्न / परसमवेतव्यापारफलशालिनः कर्मत्वात् / स च व्यापारो धात्वर्थ श्राख्यातार्थो वा, उभयथाऽपि समवेतव्यापारफलशालिनस्तण्डुलादेः कर्मत्वात् / विक्लित्यनुत्पादे व्यापाराविगमदशायां पाको वर्तते इत्यत्र पाकपदे व्यापारलक्षणेति मतमाश्रित्योक्तं दूषणमिदम्। अन्यथेति। यदि धातूनामेव भावनाऽभिधायकत्वमित्यर्थः / प्रकृतीति / प्रकृतिश्चैत्रपदं, प्रत्ययः प्रथमा, तयोरुभयोरपि शुद्धप्रातिपदिकार्थतया न कारकार्थत्वं, व्यापारवतः कारकत्वेन कारकाऽर्थस्य भावनार्थत्वं सम्भाव्यतापीत्यर्थः / कथमिति / ओदनमित्युक्त भावनाविशेषजिज्ञासा तत्सामान्यज्ञानं विना न स्यादित्यर्थः / कर्मपदादाक्षेपतोऽभिधानतो वाऽऽवश्यकी तदुपस्थितिरिति भावः / पचतीत्युक्त इति / कर्मपदानुच्चारणेऽपि तदभिधानाक्षेपयोरभावे पचतीत्यत्र भावनाधीन स्यादिति भावनाऽभिधायकमाख्यातपदं कल्प्यमित्यर्थः / ननु बीजेनाङ्कुरः कृतो बीजमकरं करोतीति यत्नं विनाऽपि कृषः प्रयोगाद् न यत्नो वाच्यः / नापि कर्तृपदं यौगिकं, तथा सति कृषो यत्नार्थत्वे तृचश्च कर्थत्वे धातुप्रत्ययार्थयोः कृतिकोः परस्परमनन्वयापत्तेः, कृतिविशिष्टस्य कृतिनिराकाङ्क्षत्वात् / एवं कृषः कियार्थत्वे तृचश्च सदाश्रयवाचकत्वे तयोः परस्परमनन्वय एवेत्युभयदर्शने कर्मपदवत् कर्तृपदं रूढमेव / तथाच कृताकृतविभागेन कर्तृरूपव्यवस्थया च कृमो यत्नोऽर्थ इति न तेन विवरणादाख्यातस्य यत्नार्थत्वं, किन्त्वनुकूलत्वेन व्यापार एव तद्वाच्यः। तेन चेतनाचेतनयोर्धात्वर्थानुकूल. व्यापारवत्त्वादाख्यातप्रयोगो मुख्यः / न चैवं पथि श्रमशयानेऽपि पचतीति प्रयोगापत्तिः, यत्नवाचकत्वेऽपि तण्डुलक्रियानुकूलयत्नवति पचतीति प्रयोगापत्तेः / यदि तु तस्य प्रयत्नविशेषो वाच्यः, प्रकाशिका।। स्याख्यातवाच्यत्वे विद्यते व्योम इत्यादौ सर्वत्र भावनान्वयः स्यादित्यत आह अस्माकन्विति / - न च तत्रापि भावनानुभवो भवत्येवेति पूर्वोक्तन विरोध इति वाच्यम् / वर्तमानत्वादिविशिष्टः भाषमानुभवेऽपि सत्त्वादौ धात्वर्थे भावनानन्वयात् इत्याशयात् / ननु कारकत्वेऽपि न यत्नवाचकत्वं ध्यापारमात्रगर्भत्वात्कारकत्वस्येत्यत आह व्यापारतः कारकत्वेनेत्यादि /