________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [10 कारिकाव्याख्यायां न त्ववान्तरव्यापारार्थमेव तेषां प्रवृत्तिरिति चेत् / तर्हि तदपेक्षयैव ककर्मादिव्यवहारविशेषनियमे किं कारणमिति चिन्त्यताम् / स्वातन्त्र्याहीति चेत्। ननु तदेव किमन्यत् प्रयत्नादिसमवायादिति विविच्याभिधीयतामिति / तस्मात् सर्वत्र समानव्यापार एवाख्यातार्थः // 6 // तथापि फलानुगुणतैवास्तु प्रत्ययस्य प्रवृत्तिनिमित्तं,प्रयत्नस्त्वाक्षेपतो लप्स्यते इति चेत्, न भावनैव हि यत्नात्मा सर्वत्राख्यातगोचरः। तया विवरणध्रौव्यादाक्षेपानुपपत्तितः // 10 // केन हि तदाक्षिप्येत / न तावदनुकूलत्वमात्रेण, तस्य प्रयत्नत्वेनाव्यापनात् / न हि यत्नत्वैकार्थसमवाय्येवानुकूलत्वम् / अत एव न संख्यया, तस्याः संख्येयमात्रपर्यवसायित्वात् / कर्डेति चेत् / न / द्रव्यमात्रस्याकर्तृत्वात्। व्यापारवतश्चाभिधाने व्यापाराभिधानस्यावश्याभ्युपगमनीयत्वात् / नापि धात्वर्थेन तदाक्षेपः। विद्यते इत्यादौ तदसम्भवात् / न ह्यत्र धात्वर्थो भावनाऽपेक्षी, सत्ताया नित्यत्वात्। तत्र न भविष्यतीति चेत् / न / पूर्वापरीभूतभावनाऽनुभवस्याविशेषात्। भावनोंपरागेण ह्यतथाभूतोऽप्यर्थस्तथा भासते इति / न च पदान्तरलब्धया भावनया: प्रकाशः। तत्कर्तृत्व करणादिव्यावृत्तं तस्यैव किं लक्षणमित्यर्थः। स्यातन्त्र्यादीति। 'स्वतन्त्रः कर्तेति' पाणि निलक्षणादित्यर्थः। तस्यान्यस्य व्यवस्थाबीजस्याभावाज्ज्ञानचिकीर्षाकृतिसमवायित्वमेव तद्वाच्यमित्याह नन्विति // 9 // आक्षेपेति / पाकादीनां यत्नं विनाऽनुपपत्तेरित्यर्थः / पादत्रयस्य प्रागेव विवृतत्वादन्तिमं पादं म्याचष्टे केन हीति / तत्प्रयत्नत्वमित्यर्थः / न हीति / प्रयत्नस्याप्यनुकूलस्वात् , तथात्वे वा रथो गच्छतीत्यादि तवापि गौणं स्यादित्यर्थः। तस्या इति / सङ्ख्यया सङ्ख्येयमात्राक्षेपेऽपि न प्रयत्नाक्षेपः, प्रयत्ने समयाया अभावादित्यर्थः। कषेति / श्राख्यातवाच्येनेत्यर्थः / परमते तस्याऽऽख्यातवाच्यत्वात् / कर्ता न द्रव्य. मात्रं, द्रव्यमात्रस्यायत्नवत्त्वात् तेन यत्नस्यानाक्षेपादित्याह द्रव्यमात्रस्येति / नापि व्यापारवन्मात्रं, यत्नरहितस्याप्यचेतनस्य व्यापारवत्त्वात् , यत्नरूपव्यापारवदभिधाने तु प्रयत्नोऽपि वाच्य एव स्यादित्याह व्यापारवतश्चेति / तत्रेति / श्राक्षेप इति शेषः / पूर्वेति / पचतीत्यादाविव धात्वर्थानुकूलयत्नानुभवादित्यर्थः / ननु सत्ताया नित्यत्वे पूर्वापरीभावो विरुद्ध इत्यत आह भाव प्रकाशिका। अनुपस्थितेन का कथमाक्षेप इत्यत आह श्राख्यातवाच्येनेत्यर्थ इति / . पचतीत्यादाविवेति / तथा च तत्रापि तदाक्षेप आवश्यक इति भावः / ननु यत्न मकरन्दः। ननु कर्ताऽप्यनुपस्थितः कथमाक्षेपहेतुः स्यादत आह आख्यातवाच्येनेति / पचतीत्यादाविवेति / तथा च तत्रापि तदाक्षेप आवश्यक इति भावः / टिप्पणी व्याप्येन व्यापकमाक्षिप्यते अनुकूलत्वन्तु क्रियान्तरसाधारणं न यनत्वव्याप्यमित्याह तस्येति। यत्नत्वैकार्थसमवायीति / यत्नत्वाश्रयमात्रवृत्तीत्यर्थः। तत्र नेत्यादि / अन्यत्र तु स्यादिति शेषः। नित्याया अपि सत्तायाः तिङन्तधात्वर्थतया साध्यत्वेन प्रतीयमानतया पचतीत्यादाविव भावनान्वयाविशेषेऽपि भावनाक्षेपकत्वाभावादित्यर्थः /