________________ पंचमस्तवके ] ईश्वरसाधनम् / अन्यथाऽपि मध्यमोत्तमपुरुषगामिनः प्रत्ययाः, प्रथमे पुरुषे जानाति इच्छति प्रयतते अध्यवस्यति शेते संशेते इत्यादयश्च गौणार्थी एवाचेतनेषु / न च वृत्त्यन्तरेणापि प्रयोगसम्भवे शक्तिकल्पना युक्ता / अन्यायश्चानेकार्थत्वमिति स्थितेः। अत एवानुभवोऽपि-यावदुक्तं भवति पाकानुकूलवर्तमानप्रयत्नवांस्तोवदुक्तं भवति पचतीति / एवं तथाभूतातिवृत्तप्रयत्नोऽपाक्षीदिति / एवं तथाभूतभाविप्रयत्नः पक्ष्यतीति / न तु पचतीति पाकानुकूलयत्किञ्चिद्वानिति / अन्यथाऽतिथावपि परिश्रमशयाने पवतीति प्रत्ययप्रसङ्गात् / अपि च कर्त्तव्यापार एव कृमर्थश्चेतनश्च कर्ता, अन्यथा तव्यवस्थाऽनुपपत्तेः। न ह्यभिधीयमानव्यापारवत्त्वं कर्तृत्वम् , अनभिधानदशायां कुर्वतोऽप्यकर्तृत्वप्रसङ्गात् / नाप्याख्यातप्रत्ययाभिधानयोग्यव्यापारशालित्वं कर्तृत्वं, योग्यताया एवानिरूपणात् / फलानगुणमात्रस्य सर्वकारकव्यापारसाधारणत्वात् / नापि विवक्षातो नियमः अविवक्षादशायामनियमप्रसङ्गात् / स्वव्यापारे नेदमनिष्टमिति चेत्। एवं तर्हि 'स्वव्यापारे च कर्तुत्वं सर्वत्रैवास्ति कारके' इति न्यायेन करणादिवि. लोपप्रसङ्गः। न स्वव्यापारापेक्षया करणादिव्यवहारः, किन्तु प्रधानक्रियापेक्षया। अस्ति हि काश्चित् क्रियामुद्दिश्य प्रवर्त्तमानानां कारकाणामवान्तरव्यापारयोगो, प्रकाशः। पद्मगतत्वेन उपस्थितस्य पङ्कजनिकर्तृत्वस्य धर्म्यन्तरनिराकाक्षितत्वात् कुमुदपरत्वे पङ्कजपदस्य लक्षणेति विपश्चितं द्वितीयाध्याये / __ अपिच अचेतनेषु सर्वत्राख्यातस्य गौणत्वं मा भूदिति मानिनस्तव यत्नस्याख्यातवाच्यत्वानभ्युपगमः, तच्च तवाप्यापतितमित्याह अन्यथाऽपीति / मध्यमोत्तमपुरुषलिडोः सम्बोध्यवक्तृविषयत्वाच्चित्रस्यादौ तत्प्रयोगः। प्रथमपुरुषेऽपि जानातीत्यादिप्रयोगश्चाऽचेतने त्वन्मते यथा गौणस्तथाऽस्मन्मते रथो गच्छतीत्यादावपि प्रयोग इत्यर्थः / न चाक्षादिपदवदनेकार्थत्वम् / अंक्षादिपदवैधhण एकत्रैव वाचकता, अन्यत्र वृत्त्यन्तरेणापि प्रयोगोपपत्तेरित्याह न चेति / अंत्रवानुभवं प्रमाणयति अत एवेति / अतिथावपीति / श्रमाच्छयानस्य श्रमशान्तः पाकानुकूलत्वादित्यर्थः / कर्तृरूपव्यवस्थयेति व्याचष्टे अपि चेति। यस्य व्यापारं धातुराख्यातं वा प्राधान्येनाभिधत्ते, स्वतन्त्रश्चेतनोऽचेतनश्च स कर्तेत्यत्राभिधानं यदि विशेषणं, तत्राह न होति / कर्तृत्वमज्ञात्वा तत्र कर्तृपदप्रयोगाभावादवगते कर्तृत्वे शब्देन तदभिधानम् , तेन कर्तृत्वावगम इत्यन्योन्याश्रयश्चेति भावः / अथाभिधानमुपलक्षणमुपलक्ष्या च तद्योग्यता, तत्राह नापीति / योग्यत्वावच्छेदकरूपाज्ञाने अस्या ज्ञानादित्यर्थः / न च प्रधानक्रियानुकूलव्यापारत्वमेव तदवच्छेदकमतिव्याप्तेरित्याह फलेति / फलानुकूलव्यापारचत्तया यत्कारकं विवक्ष्यते, स कर्तेति नोक्तदोष इति मतं निरस्यति नापीति / ननु स्वव्यापारे सर्वेषां कर्तृत्वमिष्टमेवान्यत्र करणत्वादित्याह स्वव्यापार इति / तीति / प्रधानक्रियापेक्षयैव प्रकाशिका। अक्षादिपदवैधयेणेति / तत्रेवात्र तुल्यवत्प्रयोगाभावेनेत्यर्थः / धातुराख्यातं वेति / धातोर्व्यापारफलवाचकत्वविकल्पेनायं विकल्पः / मकरन्दः। अक्षादिपदवैधम्र्थेणेति / विनिगमकाभावात्तत्रोभयत्र शक्त्या नानार्थत्वमत्र चैकत्रैव निरु पाधिप्रयोग इत्यत्र लक्षणा, अन्यथा गङ्गादिपदस्यापि तीरादौ लक्षणा न स्यादित्यर्थः /