________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजलो [ 9 कारिकाव्याङ्ग्यायो कृताकृतविभागेन कर्तृरूपव्यवस्थया। यत्न एव कृतिः पूर्वा परस्मिन् सैव भावना // 9 // यत्नपूर्वकत्वं हि प्रतिसन्धाय घटादौ कृत इति व्यवहारात् / हेतुसत्त्वप्रतिसन्धानेऽपि यत्नपूर्वकत्वप्रतिसन्धानविधुराणाम डरादौ तदव्यवहारात् करोत्यर्थो यत्न एव तावदवसीयते / अन्यथा हि यत्किञ्चिदनुकूलपूर्वकत्वाविशेषाद् घटादयः कृताः, न कृतास्त्वङ्कुराय इति कुतो व्यवहारनियमः। तेन च सर्वमाख्यातपदं विप्रियते इति सर्वत्र स एवार्थ इति निर्णयः। तथा च समुदिते प्रवृत्तं पदं तदेकदेशेऽपि प्रयुज्यते, विशुद्धिमानं पुरस्कृत्य ब्राह्मणे श्रोत्रियपदवत् / प्रकाशः। यत्नार्थकत्वमित्याह कृताकृतेति / कृतिश्च करोत्यर्थः / एवमाख्यातस्य यत्नपदपर्यायताऽऽपत्ति निरस्यति पूर्वेति / परस्मिन्नुत्तरकालवर्तिनि धात्वर्थे सति सैव कृतिरेव पूर्व साधनीभूता भावनेत्युच्यते / तेन फलसाधनीभूतः प्रयत्नो भावना, सैव चाख्यातवाच्या / यदा फलानुकूलधात्वर्थपूर्वापरव्यापारप्रचयजनिका पूर्वापरस्मिन् पूर्वापरीभूतत्वे सति कृतिराख्यातार्थो भावना / भाव्यते फलमनयेति व्युत्पत्त्येत्यर्थः / ___ नन्वेवं पूर्वापरीभूतत्वं यत्नत्यमनुकूलत्वश्चेति त्रितयमाख्यातवाच्यमिति तदभावे कथमाख्यात. पदमचेतनेषु प्रयुज्यते इत्यत आह तथा चेति / यत्नरय पूर्वापरीभूतत्वानुकूलत्वे प्रवृत्तमाख्यातं, धात्वऽर्थस्य फलानुकूतामात्रे रथो गच्छतीत्यादौ प्रयुज्यते इति लाक्षणिकमित्यर्थः / समुदितप्रवृत्तस्य पदस्यैकदेशे प्रयोगे निदर्शनमाह विशुद्धिमात्रमिति / श्रोत्रियंश्छन्दोऽधीते इत्यनुशासनाच्छन्दो. ऽध्येतृब्राह्मणव्यक्तिः, जन्मना ब्राह्मणो ज्ञेय इति स्मृतेर्जन्मसंस्कारविद्यासमुदायवद्ब्राह्मणव्यक्तिर्वा श्रोत्रियपदशक्या अतो विशुद्धब्राह्मणमात्रे यथा लक्षणया प्रयोगः, विशिष्टशक्तपदस्य विशेषणे शक्यसम्बन्धिनि तात्पर्यादित्यर्थः / ननु शक्यैकदेशे प्रयोगो न लाक्षणिकः, उपस्थित्यर्थं हि लक्षणा, विशिष्टशक्तपदाद्विशिष्टोपस्थितौ विशेषणमप्युपस्थितमेवेत्ययोग्यतया विशेष्यांशमपहाय विशेषणान्वयस्य मुख्यवृत्त्यैवोपपत्तेः / मैवम् / तस्य धर्म्यन्तरान्वितत्वेनोपस्थितस्येतरधर्म्यनाकाक्षिततया स्वतन्त्रतदुपस्थित्यर्थ लक्षणाया न्याय्यत्वात् / अत एव 'पुरोडाशकपालेन तुषानुपवपती'त्यत्र पुरोडाशप्रयोजनकत्वेनोपस्थितस्य कपालस्य प्रयोजनान्तरानाकाक्षितत्वात् स्वतन्त्रकपालोपस्थितयेऽधिष्ठानलक्षणा। पङ्कजं कुमुदमित्यत्र प्रकाशिका। योजनामात्रभेदायाह यद्वा फलानुकूलेति / अर्थप्रदर्शनपूर्वकं योजयति पूर्वापरस्मिन्निति। नन्वेवमिति / यद्यपि कृताकृतेत्यादिना यत्नत्वस्य यत्नपदपर्यायतापत्त्यानुकूलत्वस्य वाच्यतापरं प्रतीयते न तु पूर्वापरीभूतत्वस्यापि वाच्यत्वे काचन युक्तिरुक्ता, तथापि तत्प्रकारकप्रतीत्यनुरोधेन पूर्वापरीभूतत्वमपि वाच्यमिति त्रितयमपि वाच्यमित्युक्तम् / , मकरन्दः। नन्वेवमिति / यद्यपि द्वयवाच्यतयैव यत्नपदपर्यायतानिरासस्तथापि पूर्वापरीभूतत्वप्रकारकप्रतीतिमभ्युपेत्य तदप्याख्यातपदवाच्यमित्युक्तमिति ध्येयम् / टिप्पणी। करोत्यर्थो यत्न एवेति / यत्तु शाब्दिकाः कृतो यत्नार्थत्वे यतधातोरियाकर्मकत्वापत्तिरिति, तन्न, द्वितीयार्थप्रकारकान्वयवोधं प्रति यतधातुजन्ययत्नविषयकोपस्थितित्वेनैव प्रतिबन्धकत्वं कल्प्यते न तु कृजधातुजन्य पस्थितित्वेनेति नापत्त्यनुपपत्ती।