________________ पंचमस्तवके] ईश्वरसाधनम्। 526 ल्पनायां कल्पनागौरवं स्यात्, अतो विवरणमपि तावन्मात्रपरमिति चेत् / भवेदप्येवं, यदि पाकेनेति विवृणुयात् , न त्वेतदास्ति / धात्वर्थस्यैव पाकमिति साध्यत्वेन निर्देशात् / ततस्तं प्रत्येव किञ्चिदनुकूलताऽऽपन्नं प्रत्ययेनाभिधानीयमिति युक्तम्। तथापि तेन प्रयत्नेनैव भवितव्यं, न त्वन्येनेति कुत इति चेत् / नियमेन तथा विवरणात् / बाधकं विना तस्यान्यथाक मशक्यत्वात् / अन्यथाऽतिप्रसङ्गात् // 8 // __ स्यादेतत्, यस्य कस्यचित् फलं प्रत्यनुकूलताऽऽपत्तिमात्रमेव करोत्य, न तु प्रयत्न एव, सोऽपि ह्यनेनैवोपाधिना प्रत्ययेन वक्तव्यो, न तु यत्नत्वमात्रेण, प्रयत्नपदेनाविशेषप्रसङ्गात् , तदरं तावन्मात्रमेवास्तु लाघवाय, अन्यथा त्वनुकूलत्वप्रयत्नत्वे द्वापाधी कल्पनीयौ, अचेतनेषु सर्वत्र गौणार्थास्तिकोऽसति बाधके कल्पनीया इति चेत् / अत्रोच्यते प्रकाशः। कत्वात् , कन्वयानुपपत्तेश्चेति परिहरति भवेदप्येवमिति / एवमप्यनुकूलव्यापारमात्रमाख्यातार्थोऽस्तु, न त्वनुकूलयत्नः, तथात्वे बाधकं विनैवाख्यातमचेतनेषु गौणं कल्प्यमिति गौरवमित्याह तथापीति / यत्नार्थकरोतिनाऽऽख्यातार्थस्य विवरणात् तस्य चाबाधितत्वात् प्रमाणवतो गौरवस्यापि न्याय्यत्वादित्याह नियमेनेति // 8 // ननु करोतिर्न यत्नार्थः, किन्त्वनुकूलव्यापारमात्रार्थः, यत्नोऽप्यनुकूलत्वेनैवाख्यातार्थः / अन्यथा आख्यातार्थस्य यत्नपदपर्यायतापत्तेः / अत एव-यत्न एवाख्यातार्थः, प्रानुकूल्यन्त्वन्वयलभ्यम्-इत्यपास्तम् / एवश्व धात्वर्थस्य पाकादेः साध्यताऽप्युपपद्यते। न च धातुनैव स्वार्थः साध्यस्वेनोच्यते इति वाच्यम् / पाक इत्यत्रापि तत्प्रतीत्यापत्तेः / यत्नस्य वाच्यत्वेन गौरवापत्तेः। मुख्ये बाधकं विनव रथो गच्छतीत्यादावाख्यातस्य गौणत्वापाताच्चेत्याह-यस्य कस्यचिदिति / क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वप्रतिसन्धानेन घटाङ्कुरयोः कृताकृतव्यवहारात् तृजन्त. 'कृधातुव्युत्पनकर्तृपदस्य कृत्याश्रयवाचकत्वाच कृत्रो यत्नार्थत्वम् / क्रियामात्रार्थत्वे तु क्रियाऽऽश्रयः कर्तृपदार्थः स्यादिति कारकमात्रेऽतिप्रसङ्गः / एवश्च कृो यत्नार्थत्वात् तेन चाख्यातविवरणात्तस्यापि प्रकाशिका। कन्वयानुपपत्तश्चेति / चैत्र श्रोदनं पचतीत्यत्रेति शेषः // 8 // परिमलस्तु तथापि पाकसिद्धता प्रतीयेत, न तु साध्यतेति सिद्धताज्ञापकप्रयोगोपलक्षणपरं पाकेनेत्युक्तमिति / अत एवेति / यत्नपदपर्यायतापत्तेरेवेत्यर्थः / नन्वष्टापत्तिरित्यत आह गौरवापत्तेरिति / यत्नत्वापेक्षया व्यापारत्वस्य सामान्यत्वादिति भावः / मकरन्दः / विवरणं न स्यादित्यत्रैव तात्पर्यम् / यद्वा एतदस्वरसादेव स्वयं हेत्वन्तरमाह कन्वयानुपपत्तेश्वेति, चैत्र श्रोदनं पचतीति शेषः। परिमलस्तु एवं पाकस्य साध्यता न प्रतीयेत, किन्तु सिद्धता, ततः पाकसिद्धतासापकप्रयोगोपलक्षणपरं पाकेनेत्युक्तमिति // 8 // . अत एवेति / यत्नपदपर्यायतापत्तेरित्यर्थः / नन्वष्टापत्तावपि न क्षतिरित्याशङ्कयाह गौरवापत्तरिति / व्यापारस्य सामान्यतया लघुत्व मित्यभिमानेनेदम् / 67 न्या० ऋ०