________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाजला [ 7 कारिकाव्याख्यायां इत्यादावपि तथा स्यात् / प्रत्येकमन्यत्र सामर्थ्यावघृतौ सम्भेदे तथा कल्पनायास्तुल्यत्वात्। ___ रथो गच्छतोत्यादौ तदसम्भवे का गतिरिति चेत् , तन्तवः पटं कुर्वन्तीत्यत्र या। लोकोपचारोऽयमपर्यनुयोज्य इति चेत्तुल्यम्। लिङः कार्यत्वे वृद्धव्यवहाराव्युत्पत्ती सर्व समञ्जसम् / आख्यातमात्रस्य तु न तथेति चेत् / न विवरणादेरपि व्युत्पत्तेः। अस्ति च तदिह-किं करोति ? पचति, पाकं करोतीत्यर्थः इत्यादिदर्शनात् / तथापि फलानुकूलताऽऽपन्नधात्वर्थमात्राभिधाने तदतिरिक्तप्रयत्नाभिधानक प्रकाशा नाननुभवान्न तथा, प्रकृतिप्रत्यययोः साम्येनान्वयानुपत्तेरित्यत आह प्रत्येकमिति / तथा चोभयोपस्थितेरावश्यकत्वेनैकस्यानन्वयेऽप्यदोषादित्यर्थः।। ___रथो गच्छतीत्यादावित्यादिपदाज्जानाति यतते निद्रातीत्यादेर्महणम् / तत्र धात्वर्थानुकूलथना. भावेऽप्याख्यातप्रयोगात् / यदि चाऽचेतने व्यापारमात्रमाख्यातार्थः, तदा चेतनेऽपि तयेत्यर्थः / कृधातोर्यत्नार्थत्वस्योभयसिद्धत्वादचेतने यथा करोतेः प्रयोगो लाक्षणिकः, तथा रथो गच्छतीत्यादा. वाख्यातस्येत्याह तुल्यमिति / लिङः स्वाऽऽत्मनि प्रवर्तकत्वेन ज्ञाते कार्यताज्ञाने वृद्धव्यवहारेण शक्तिप्रहात्तस्य प्रयत्नार्थत्वे मानमस्ति, न त्वाख्यातमात्रस्येत्याह लिङ इति / पचति पाकं करो. तीत्यादौ यत्नार्थककरोतिना सर्वाख्यातविवरणाद् दृद्धव्यवहारादिव बाधकं विना विवरणादपि व्युत्पत्तेः / किं करोतीति यत्नविशेषप्रश्ने, पचतीत्युत्तरस्य यत्नार्थत्वं विनानुपपत्तेश्च प्रकृतेऽपि मानमस्तीत्याह विवरणादेरिति / ननु धातुः स्वरूपेण स्वार्थ भावमाह, आख्यातन्तु यावता कर्मक्षणनिश्चयेन फलं सिद्धयति तावति वर्तते, ओदनं पचतीति दर्शनात् , न टेकेन कर्मक्षणेनोदनः सिद्धयति, अतः फलार्थो व्यापारसमूहो भाव्यत्वाद्भावनेत्युच्यते, भाव्यमानस्तु तस्य फलसाधनत्वात् , फलानुकूलताविशिष्टयत्नवाच्यत्वे तु कल्पनागौरवमिति शङ्कते तथापीति / पचेस्तावसुषबुषप्रक्षेपणादिव्या. पारकलाप एवार्थः। तस्यैव रूपपरावृत्तिलक्षणफलं प्रत्यनुकूलता पाख्यातवाच्या / अधिकयत्न स्यापि वाच्यत्वे गौरवमिति शङ्कार्थः। तावन्मात्रपरं-धात्वर्थस्य फलानुकूलतामात्रपरं, न तु यत्नपरमित्यर्थः / श्रोदनं पचतीत्यत्र धात्वर्थः पाक ओदनानुकूल इत्यर्थे काष्ठेनौदनं पचतीतिवदोदनं पाकेन करोतीति प्रयोगप्रसङ्गात् / न चेष्टापत्तिः / किं करोति ! पचति, पाकं करोतीत्यनुभवस्य सार्वलौकि प्रकाशिका। चावश्यकल्पनीयेष्टसाधनतासङ्कर इति लाघवादिष्टसाधनतैव विधिरस्त्वित्यर्थः। काष्ठेनौदनं पचती. तिवदिति / यद्यपि तत्र काष्ठकरणकः पाकः श्रोदनानुकूल इत्यन्वयसम्भवेऽपि न तादृशप्रयोगेऽपि पाके पाककरणकत्वानन्वयात् पाकेन च पचतीति न प्रयोगः, तथापि पाकं करोतीति विवरणेन स्यादित्यत्रैव तात्पर्यम् / वस्तुत श्रोदनं पचतीत्यत्र श्रोदनानुकूलः पाक इत्यर्थे ओदनं पाकेनेति विवरणं स्यात् तृतीययानुकूलत्वलाभादिति मूलार्थः, एवश्चौदनं पचतीति वक्तव्ये ओदनं पाकेनेति प्रयोगः स्यादिति प्रकाशस्यापि तदनुसारिणी व्याख्येति न कदाचिन्मूलप्रकाशयोरसङ्गतिरित्यवधेयम् / __ मकरन्दः। काष्ठेनौदनं पचतीतिवदिति / यद्यपि काष्ठकरणकः पाक अदनानुकूल इत्यन्वयसम्भवात् प्रयोगेऽपि पाकेन पचतीति न प्रयोगप्रसङ्गः, पाके पाककरणत्वानन्वयात, तथापि पाक करोतीति