________________ पंचमस्तवके ] ईश्वरसाधनम् / - स हि न स्पन्द एव, प्रात्मानमनुपश्येदित्याद्यव्याप्तः। ग्रामं गच्छतीत्यादाव. तिव्याप्तेश्च / नाऽपि तत्कारणं प्रयत्नः। तस्य सर्वाख्यात साधारणत्वात् / ननु न सर्वत्र प्रयत्न एव प्रत्थयार्थः। करोतीयादौ प्रकृत्योतिरेकिणस्तस्याभावात् / संख्यामात्राभिधानेन प्रत्ययस्य चरितार्थत्वात्। ततो लिङादिघाच्य एव प्रयत्न इति / न, कुर्यादित्यत्रापि तुल्यत्वात् / प्रयत्नमात्रस्य प्रकृत्यर्थत्वेऽपि तस्य पराङ्गताऽऽपन्नस्य प्रत्ययार्थत्वान्न तुल्यत्वभिति चेत् / न, तथापि तुल्यत्वात्। न चैकस्य तदायकत्वेऽन्यस्य तद्विपर्यय श्रापद्येत / एको द्वौ बहव पषिषतीत्यादौ व्यभिचारात् / तत्र द्वितीयसंख्येच्छादिकल्पने करोति प्रयतते प्रकाशः। विनाऽपीच्छोत्पत्तेश्चेत्याह प्रत्ययेति / उपायगोचरप्रवृत्ताविष्टसाधनत्वज्ञानस्य हेतुत्वनिश्चयात् तत्सकीर्णेच्छायाः प्रवर्तकत्वे. लाघवादिष्टसाधनतैव विधिरित्याह सङ्करादिति / / करोतीत्यत्र यत्नस्य कृधातुनैवोक्तत्वादाख्यातमात्रस्य यत्नार्थत्वे पौनरुक्त्यं स्यादिति नाख्या. तमात्रं यत्नमभिधत्ते, किन्तु लिङेवेत्याह नन्विति / ननु यदि प्रकृत्यर्थातिरिक्तो नाख्यातार्थः, तदा तत्प्रयोगो व्यर्थ इत्यत आह संख्येति / एकत्वादिसंख्यामात्रमाख्याताऽर्थः, तत्प्रत्यायनार्थमेव तत्प्रयोग इत्यर्थः / तर्हि लिङपि न यत्नार्थः, कुर्यादित्यत्र पौनरुक्त्यापत्तेः / अथाख्यातात् कृतरुप स्थितावपि तात्पर्याभावात् सा नान्वीयते, 'किन्तु संख्यामात्रम् , तर्हि करोतीत्यादावपि तुल्यमित्याह कुर्यादित्यत्रेति / यदि कुर्यादित्यत्रं यत्नमात्रं कृधात्वर्थः, तस्य चचै त्रादिसम्बन्धित्वमनुकूलत्वं वा प्रत्ययार्थ इति विशेषः, तदा करोतीत्यादावपि तुल्यमिति शङ्कोत्तराभ्यामाह प्रयत्नमात्रस्येति / अपि च कृतेर्धात्वर्थत्वेऽपि प्रत्ययस्य तदर्थत्वं न दोषाय, प्रकृतिप्रत्यययोरन्यत्र समानार्थत्वदर्शनादित्याह न चेति / एकस्य प्रकृतिरूपस्य, अन्यस्य प्रत्ययरूपस्य, तद्विपर्ययस्तदवाचकत्वमित्यर्थः / अथैक इत्यादौ प्रकृत्यर्थातिरिक्तं द्वितीयमेकत्वादिकम् , एषिषतीत्यत्रापरेच्छा प्रत्य यार्थः, तदा करोतीत्यत्र यत्नान्तरमेवाख्यातार्थ इत्यस्त्वित्याह तत्रेति / ननु द्वितीयसंख्येच्छा य प्रकाशिका। धर्मो वेति मूलम् / वक्तुरभिप्राय इत्यर्थः। तत्र न प्रथम इति मूलं कर्तृधर्मो वेत्यनेनैव कारिकाभागेन यद्यपि गतार्थ तथाप्यस्य प्रतिज्ञात्वं कारिकाभागस्य चोपसंहारत्वमिति मन्तव्यम् / यद्वा स्पन्दादौ कर्तृधर्मोन प्रथम इत्येवंपरत्वेन कारिकोत्तरं योजनीयम् / इष्टहानेरित्यादिमूलम् / स्पन्दस्य विधित्वेऽव्याप्तिरात्मानं पश्येदित्यत्रातिव्याप्तिश्च, ग्रामंगच्छतीत्यत्र यत्नस्य विधित्वे प्रामं गच्छेदित्यत्र यत्नप्रतीत्यावप्यप्रवृत्तिः, इच्छाया विधित्वे इच्छाया इवेच्छाजनकत्वे विरोधो, लिङ्गश्रुतिकाले तस्या असत्वञ्च लिङवेच्छाजनने प्रत्ययत्यागोऽन्यत्र प्रतीतकारणत्यागः, इच्छादिज्ञानस्य चेच्छादिजनकत्वे यागचिकीर्षावानित्यतोऽपि प्रवृत्यापत्तिरित्यप्रवृत्तिरेव दूषणम् / इष्टसाधनतासहितेच्छाया विधित्वे .. मकरन्दः। तत्र न प्रथम इति मूलं कर्तृधर्मो नेति कारिकया गतार्थमिति यदापि, तथापि स्पन्दादित्रिके प्रथमः स्पन्दो नेत्यर्थः / उपसंहारश्च कर्तृधर्मो नेत्येके। . टिप्पणी मन्येत तदा तद्वथतिरेकेऽपि लिादिरिच्छां जनयेदतो व्यतिरेकव्यभिचारः स्यात् , ततश्च प्रत्ययस्य इष्टसावनताज्ञानस्य कारणत्वं परित्यज्येतातो नेच्छापि विध्यर्थः किंतु संकरात् इष्टसाधनाज्ञानसंकीर्णेच्छाया उपायगोचरप्रवृत्तौ कारणत्वात् इष्टसाधनतेन विष्यर्थ इत्यर्थः //