________________ 526 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 7 कारिकाव्याख्यायां तस्माद् यस्य ज्ञान प्रयत्नजननीमिच्छां प्रसूते, सोऽर्थविशेषस्तज्ज्ञापको वाऽर्थविशेषो विधिः प्रेरणा प्रवर्त्तना नियुक्तिनियोग उपदेश इत्यनन्तरमिति स्थिते विचार्यते / स हि कर्तृधर्मो वा स्यात् , कर्मधर्मो वा, करणधर्मो चा, नियोक्तृधर्मो वेति ! न प्रथमः। इष्टहानेरनिष्टाप्तरप्रवृत्तेविरोधतः / असत्त्वात् प्रत्ययत्यागात् कर्तृधर्मो न सङ्करात् // 8 // प्रकाशः। अभावेऽपि यत्नस्य सत्त्वादित्यर्थः / श्रारम्भो-यत्नः। तत्प्रत्यायनार्थमिति / शास्त्रस्य ज्ञापकतया स्वरूपसद्धेतौ शास्त्रानुपयोगादित्यर्थः। तदिदं परमतनिराकरणं विना न सिद्धयति, तदर्थमुपन्य. स्यति स हीति / कर्तृधर्मः-प्रवर्त्यपुरुषधर्मः / स्पन्द इच्छा प्रयत्नो वा। कर्मधर्मोऽपूर्वस्य क्रियाया वा धर्मः कार्यत्वादिः / करणधर्म इष्टसाधनत्वं शब्दव्यापारो भावना वा / नियोक्तृधर्म प्राप्ताभिप्रायः। तत्र स्पन्दस्य विधित्वं दूषयति इष्टहानेरिति / अव्याप्त्यतिव्याप्तिम्यामित्यर्थः / यत्नस्य विधित्वं दूषयति अप्रवृत्तरिति / यत्नमात्रस्यानिटसाधनसाधारण्यादित्यर्थः / इच्छाया विधित्वे वाधकमाह विरोधत इति / इच्छाया विधित्वे तयैव तज्जननाद्विरोध इत्यर्थः / न चेच्छा ज्ञाता प्रयत्नजननी, किन्तु सत्तया / न च लिशवणकाले सा सतीत्याह असत्त्वादिति / न च लिङेव तां जनयति / तत्र ज्ञानकारणत्वत्यागापत्तेः, लिङ . प्रकाशिका। कर्तृधर्म इति मूलम् / स्पन्दो वा प्रयत्नो वा इच्छेवेत्यर्थः, स्पन्दश्च परम्परासम्बन्थेन कर्तृधर्म इत्यवधेयम् / कर्मधर्मो विति मूलम् / फलधर्मो वा अपूर्वधर्मो वा क्रियाधर्मो वेत्यर्थः / करणधर्मों वेति मूलम् / शब्दधर्मोऽभिधा वा शब्दार्थीभूतप्रयत्नधम्र्मेष्टसाधनत्वं वेत्यर्थः / नियोक्त मकरन्दः। स्पन्द इति / यद्यपि स्पन्दो न पुरुषधर्मस्तथापि तदवच्छिन्नशरीरे स्पन्द इति तथोक्तम् / टिप्पणी। तज्ज्ञापक इति / याग इष्टसाधनम् प्राप्ताभिप्रायविषयत्वात् इति रीत्येष्टसाधनत्वानुमापकः केवलोऽनन्यलभ्य प्राप्ताभिप्राय एव विधिप्रत्ययार्थः, नत्विष्टसाधनत्वं तथा तस्यानुमानलभ्यत्वात् , अनन्यलभ्यस्यैव शब्दार्थत्वात् , तथाच यजेदित्यादौ विध्यर्थानुमापकतया विध्यर्थतया वाऽपेक्षणीयस्याभिप्रयस्याश्रय ईश्वरः सिध्यति / शब्दप्रमाणातिरिक्तस्थलसाधारणप्रवृत्तिकारणचिकीर्षाजनकज्ञानविषयमिष्टसाधनत्वमेवेति परिशेषात्साधयति इष्टहानेरिति / चिकीर्षारूपेच्छविशेषस्य विधित्वं दूषयति विरोधत इति / विध्यर्थज्ञानादिच्छा जायते ततः प्रवृत्तिरिति निर्विवादम् , इत्थं च यदीच्छा विध्यर्थः स्यात्तदा विध्यर्थज्ञानात् इच्छाज्ञानात् प्रवृत्त्यनुकूलेच्छा जायेत तदिदमिच्छाज्ञानं मानसप्रत्यक्षरूपमेव, प्रत्यक्षे च विषयस्य कारणत्वादिच्छया जायेतेत्यन्योऽन्याश्रय इति भावः। नन लौकिकप्रत्यक्षे एव विषयस्य कारणत्वं न तु शाब्दे ज्ञानेऽतो लिङा इच्छाज्ञानं जायेत ततः प्रवृत्तिरिति क्वान्योऽ. न्याश्रयोऽत आह असत्वादिति / इच्छाया ज्ञानं लिङा जायतां नाम इच्छा तु क्लुप्तकारणेनेष्टसाधानताज्ञानादिनैव जायते नतु लिङाऽतस्तदानीमिच्छाया अनुत्पत्त्या प्रवृत्तिं प्रति स्वरूपसत्कारणीभूताया इच्छाया अभावात् प्रवृत्तिर्न स्यादित्यर्थः। नन्वस्तु लिङपीच्छाकारणमत आह प्रत्ययत्यागादिति / इष्टसाधनताज्ञानस्येच्छां प्रति कारणत्वं सर्ववादिसिद्धमेव, तत्र यदि लिडादिरपि कारणं