________________ 525 पंचमस्तवके ] ईश्वरसाधनम् / ___ एवमन्येऽपि यः कः स इत्यादिशब्दा द्रष्टव्याः। तेषां बुद्धयुपक्रमप्रश्नपराम. आधुपहितमर्यादत्वात् , तस्य च वक्तृधर्मत्वात् / बुद्धयपक्रमो हि प्रकृतत्वं, जिज्ञासाऽऽविष्करणञ्च प्रश्नः, प्रतिसन्धानञ्च परामर्श इति / एवञ्च संशयादिवाचका अप्युन्नेयाः। न च जिज्ञासासंशयादयः सर्वज्ञे प्रतिषिद्धा इति युक्तम् / शिष्यप्रतिबोधनाया. हार्यत्वेनाविरोधात् / को धर्मः कथंलक्षणक इत्यादिभाष्यवदिति / एतेन धिगहो बत हंतेत्यादयो निपाता व्याख्याताः॥६॥ प्रत्ययादपि / लिङादिप्रत्यया हि पुरुषधौरेयनियोगार्था भवन्तस्तं प्रतिपादयन्ति / तथाहि प्रवृत्तिः कृतिरेवान सा चेच्छातो यतश्च सा। तज्ज्ञानं विषयस्तस्य विधिस्तज्ज्ञापकोऽथवा // 7 // प्रवृत्तिः खलु विधिकार्या सती न तावत्कायपरिस्पन्दमात्रम् , अात्मा ज्ञातव्य इत्याद्यव्यापनात् / नापीच्छामात्रम्, तत एव फलसिद्धौ कर्मानारम्भप्रसङ्गात् / ततः प्रयत्नः परिशिष्यते। श्रात्मशानभूतदयादावपि तस्याभावात् / तदुक्तं'प्रवृत्तिरारम्भः' इति / सेयं प्रवृत्तिर्यतः सत्तामात्रावस्थिताद्, नासौ विधिः, तत्र शास्त्रवैयर्थ्यात् / अप्रतीतादेव कुतश्चित् प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थ तदभ्यर्थनाभावात् / न च प्रवृत्तिसिद्धौ तत्प्रत्यायनार्थ तदभ्यर्थनाभावात् / न च प्रवृत्तिहेतुजननार्थ तदुपयोगः, प्रवृत्तिहेतोरिच्छाया ज्ञानयोनित्वात् / ज्ञानमनुत्पाद्य तदुत्पादनस्याशक्यत्वात् , तस्य च निरालम्बनस्यानुत्पत्तेरप्रवर्तकत्वाच्च, नियामकाभावात् / प्रकाशः। कथनम् / धर्म इति / 'अथातो धर्मजिज्ञासा' इत्यनेन शास्त्रप्रयोजनमभिधाय विशेषेण धर्मजिज्ञासोः शास्त्रारम्भे शिष्यजिज्ञासामुपादाय मीमांसाभाष्यम्-'को धर्मः कथं लक्षणकः कान्यस्य साधनानीति' यथेत्यर्थः / एतेन-बुद्धथुपक्रमादीनां वक्तृधर्मत्वकथनेन / गर्हाविस्मयखेदानुशयानां वक्तृधर्मस्वादित्यर्थः // 6 // ___ लोके लिङादीनामाप्तेच्छायां शक्तिप्रहाद्वेदेऽपि स एवार्थः / न च वेदार्थे अस्मदादीनामिच्छा सम्भवतीति तदाश्रयेश्वरसिद्धिरित्याह-लिङादीति / नियोगोऽभिप्रायः। अन्येषां लिब्र्थत्वे बाधकस्य वक्तव्यत्वादित्यर्थः। प्रवृत्तिरिति / अन्यत्र ज्ञानादेरपि प्रवृतिपदवाच्यत्वेऽत्र कृतिरेव सा विवक्षितेत्यर्थः। तथाच कृतिकारणेच्छाज्ञानविषयो विधिरित्यन्येषां मतम् / स्वमतमाह तज्ञापक इति / यथा चाप्तेच्छाविषयत्वेन प्रवर्तकज्ञानविषय इष्टसाधनत्वमनुमीयते, तथा वक्ष्यति / तच्च परमतनिरासं विना न भवतीति तनिराकर्तुमाह प्रवृत्तिः खल्विति / विधिकार्या-विधिज्ञानकार्यत्यर्थः / आत्मेति / चेष्टां विनाऽपि विध्यर्थसत्त्वादित्यर्थः / तत एवेति / इच्छामात्रेण विध्यर्थनि हे बहुवित्तव्ययायाससाध्ययागाद्यकरणप्रसङ्गादित्यर्थः / तत इति / कृतौ नायम् , क्रियमाणयाग: स्योपयोगादित्यर्थः / श्रात्मज्ञानेति / मोक्षकामस्य ज्ञान विधाने भूतेषु दयाविधाने च चेष्टाया टिप्पणी। विषयस्तस्येति। तस्य ज्ञानस्य विषयः कृतिसाध्यत्वमिष्टसाधनत्वंचाविधिः विधिप्रत्ययस्यार्थः /