________________ 524 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलो [ 6 कारिकाव्याख्यायां सर्वज्ञता तृप्तिरनादिशेधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तशक्तिश्व विभोविधिज्ञाः षडाहुरङ्गानि महेश्वरस्य // इति // एवम्भूतोऽर्थः प्रमाणबाधित इति चेन्न / प्रागेव प्रतिषेधात् / तथापि न तत्र प्रमाणमस्तीति चेत् / स्वर्गे अस्तीति का श्रद्धा / न छुक्तविशेषणे सुखे किश्चित् प्रमाणमस्त्यस्मदादीनाम् / याशिकप्रवृत्त्यन्यथाऽनुपपत्त्या तथैव तदित्यवधार्यते इतिचेद् / न। इतरेतराश्रयप्रसङ्गात्-अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः, प्रवृत्त्यन्यथाऽनुपपत्त्या च तवंधारणमिति। पूर्ववृद्धप्रवृत्त्या तवधारणेऽयमदोष इति चेन्न / अन्धपरम्पराप्रसङ्गात् / विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवंविधमपि सुखं स्यादिति नास्ति विरोधः, तन्निषेधे प्रमाणाभावादिति चेत् / तुल्यमितरत्रापि / अत्रापि प्रयोगः-यः शब्दो यत्र वृद्धरसति वृत्त्यन्तरे प्रयुज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेषे प्रयुज्यमानस्तस्य वाचकः, प्रयुज्यते चायं जगत्कर्तरीति / अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुपपत्तिरिति / एतेन-रुद्रोपेन्द्रमहेन्द्रादिदेवताविशेषवाचका व्याख्याताः। अपिच अस्मत्पदं लोकवदेऽपि प्रयुज्यते, तस्य च लोके नाचेतनेष्वन्यतमदः, तत्र सर्वथैवाप्रयोगात् / नाप्यात्ममात्रमर्थः, परात्मन्यपि प्रयोगप्रस. ङ्गात् / अपि तु यस्तं स्वातन्त्र्येणोच्चारयति, तमेवाह तथैवान्वयव्यतिरेकाभ्यामवसायात् / ततो लोकव्युत्पत्तिमनतिक्रम्य वेदेऽप्यनेन स्वप्रयोक्तैव वक्तव्यः, अन्यथाऽप्रयोगप्रसङ्गात् / न च यो यदोच्चारयति, वैदिक महंशब्द, स एव तदा तस्यार्थ इति युक्तम् / तथा सति मामुपासोतेत्यादौ स एवोपास्यः स्यात् / अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते, इत्युपाध्यायशिष्यपरम्परैवात्मन्यैश्वर्य समधिगच्छेत् , तथा च उपासनां प्रत्युन्मत्तकेलिः स्यात् / लोकव्यवहारश्चोच्छिद्यत / तस्मान्नानुवक्ताऽस्य वाच्योऽपि तु वक्तैवेति स्थिते प्रयुज्यते-दे अस्मच्छब्दः स्वप्रयोक्तृवचनः अस्मच्छब्दत्वाल्लोकवदिति। प्रकाशः। कणिशशालिनः॥ वराहं गावोऽनुधावन्ति' 'अप्सुजो वेतसः' इत्यादिवाक्यशेषरूपवेदविरोधिनीम्लेच्छ. प्रसिद्धिर्हे येति म्लेच्छप्रसिद्धौ निरस्तायां निष्प्रतिपक्षार्थव्यवहाराच्छक्तिग्रहः / यत्र तु वेदविरोधो नास्ति, तत्र पिकादिपदेष्वभियोगवत्त्वान्म्लेच्छानां तत्प्रसिद्धिरेवादरणीयेत्यर्थः / प्रकृते विधिशेषीभूतं वाक्यशेषमाह सर्वज्ञतेति। तृप्तिः-स्वभोगेच्छाविरहः। अगानिधर्माः। उक्तविशेषणे-दुःखादिसम्भिन्नत्वाभावादिविशिष्टे / याशिकेति / लौकिकसुखाऽतिशयसुखं विना बहुवित्तव्ययायाससाध्ये कर्मणि प्रवृत्तिर्न स्यादित्यऽर्थः / एतेनेति / रुद्रादिपदेष्वपि रुद्रस्व्यम्बक इत्यादिवाक्यशेषान्निर्णय इत्यर्थः / यदि अस्मच्छब्दस्योच्चारयितरि शक्तिस्तदा 'वाच्यस्त्वया मद्वचनात् स राजे'त्यत्र कविरेवास्मच्छब्देनोच्यतेत्यत उक्तं स्वातन्त्र्येणेति / अन्यकर्तृकत्वेनोच्चारणाभावः स्वातन्त्र्यम् / अत एव 'गृभ्णामि ते सौभगत्वाये'त्यादावपि नेश्वरवाचकत्वम् , अस्यान्यपरतयैव ईश्वरेणोचारितत्वात् / अस्मच्छब्दत्वादिति / अनन्यपरास्मच्छब्दत्वादित्यर्थः / तेषामिति क्रमेण यच्छन्दादीनामर्थ