________________ mamuaaTes पंचमस्तवके ] ईश्वरसाधनम्। 523 चलनेऽपि निशलार्थानुष्ठानत्वात् , यदेवं तत्सर्वं तदर्थविद्याख्यातं, यथा मन्वादिसंहितेति। अन्यथा त्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदनादेशिकत्वात् / अनुष्ठातार एवादेष्टार इति चेत्। न तेषामनियतबोधत्वात् / वेदघद्वेदानुष्ठानमध्यनादीति चेत् / न / तद्धि स्वतन्त्रं वा, वेदार्थबोधतन्त्रं वा ? / आद्ये निर्मूलत्वप्रसङ्गः। द्वितीये त्वनियमापत्तिः। न ह्यसर्वशाविशेषे पूर्वेषां तवबोधः प्रमाणं, न त्विदानीन्तनानामिति नियामकमस्ति। ___ पदात् खल्वपि। श्रूयते हि प्रणवेश्वरेशानादिपदम् , तञ्च सार्थकम् , अविगानेन श्रुतिस्मृतीतिहासेषु प्रयुज्यमानत्वात् घटादिपवदिति सामान्यतः सिद्धे कोऽस्यार्थः ? इति व्युत्पित्सोविमर्श सति निर्णयः, स्वर्गादिपदवत् / उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।। यो लोकत्रयमाविश्य विभर्त्यव्यय ईश्वरः॥ इत्यऽर्थवादात् , यववराहादिवद्वाक्यशेषादा। तद् यथा ईश्वरप्रणिधानमुपक्रम्य श्रूयते प्रकाशः। व्याख्यातवेदात् , शिष्याणां श्रद्धया प्रवर्तमानानां निश्चलानुष्ठानमस्तीत्यनैकान्तिकमित्यत उक्तम् अनुष्ठात्रिति। तत्राऽनुष्ठातृणामव्यवस्थितमतित्वाभावादित्यर्थः // अननुष्ठानहेतुमाह अव्यवस्थानादिति / अर्थनिश्चयस्येति शेषः / अन्यथा त्वनियतमनुष्ठानं स्यादित्याह अव्यवस्था वेति / अर्थनिश्चयाव्यवस्थानादित्यर्थः / अनादेशिकत्वात्-अनौपदेशिकत्वादित्यर्थः / ननु पूर्वेषामेव स्वतन्त्रवेदार्थज्ञानं प्रमाणमाधुनिकानान्त्वप्रमाणं स्यादित्यत आह न हीति / न च कश्चित् वेदार्थोऽस्तीत्यनेन रूपेणास्मदादिभिरेव व्याख्यानादनुमाने सिद्धसाधनं, येन रूपेण वेदार्थो व्याख्यात इति लोके व्यवहारः, तादूप्येण व्याख्यानस्य विवक्षितत्वात् / यद्वा वेदा व्याख्यानामुकूलतद्विषयानित्यज्ञानभिन्नज्ञानसमानविषया वाक्यत्वाद्, वेदा एतद्विषयाऽनिस्यज्ञानान्यज्ञानविधृता धृतवाक्यत्वादिति भावः। अविगानेनेति / निरर्थकतया प्रसिद्धयभावेनेत्यर्थः / अत एव स्तोभर्न व्यभिचारः, निरर्थकत्वेनैव तेषां प्रसिद्धेरिति भावः / यथा स्वर्गपदे विधिशेषीभूतार्थवादाच्छक्तिप्रहस्तथा प्रकृतेऽपीत्याह निर्णय इति / अर्थवादमाह उत्तम इति / यववराहादिवदिति। 'यवमयश्चरुर्भवति' 'वाराही चोपानद्''वैतसे कटे प्राजापत्यं धिनोती'त्यत्र यववराहवेतसशब्दाः किं कङ्गुवायसजम्बूनां वाचकाः, उत दीर्घशुकशूकरवञ्जुलानामिति म्लेच्छार्यव्यवहारदर्शनाद्विप्रतिपत्तौ मुख्यार्थानध्यवसायेऽननुष्ठानापत्त्या तत्पदवद्वेदप्रामाण्यसंशये, पूर्वपक्षःव्युत्पत्तिप्राहकव्यवहाराविशेषात् कङ्ग्वादावपि शक्तिरेव, पिकनेमतामरसपदेषु म्लेच्छप्रसिद्धरादर. णाचेति / राद्धान्तस्तु-वसन्ते सर्वसस्यानां जायते पत्रशातनम् / मोदमानास्तु तिष्ठन्ति यवाः ___ प्रकाशिका। पक्षसमे च न व्यभिचार इति मतेनैवायं हेतुः, तद्विशेषणपि व्यभिचारापत्तेरिति ध्येयम् / धृत्यादेरित्यभिप्रायेणाह वेदा एतद्विषयेति / सर्वज्ञतेत्यादिमूलस्थकारिकायां स्वतन्त्रता-नित्येच्छा, अनन्तशक्तिः, कार्यमात्रकारणत्वम् / ननूपदेशादिरेव विधिरस्तीत्यतो मूलं विधिः प्रेरणेत्यादि / मकरन्दः। अन्यथा तादृशस्थले कदाचिदनुष्ठातृमतिचलनस्यापि सम्भवेन तत्पदोपादानेऽपि व्यभिचारापत्तेरिति चिन्त्यम् / . धृत्यादेरित्यभिप्रायेणाह वेदा इति /