________________ 522 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमालौ [ 6 कारिकाव्याख्यायो सावाक्यत्वात् परिणतिसुरसमाम्रफलमित्यादिलोकवाक्यवदिति / एवं निन्दावाक्यानि हानाभिप्रायपूर्वकाणि निन्दावाक्यत्वात् परिणतिविरसं पनसफलमित्यादिवाक्यवत् , अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे वाधकमुक्तम् / ___ अपि च नो चेदेवं, श्रुतार्थापत्तिरपि हीयेत / सिद्धो ह्यर्थः प्रमाणविषयो, न तु तेनैव कर्त्तव्यः। न च पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र रात्रौ भुक्त इति वाफ्यशेषोऽस्ति , अनुपलम्भवाधितत्वात्-उत्पत्त्यभिव्यक्तिसामग्रीताल्वा दिव्यापारविरहात् , अयोग्यस्याशङ्कितुमच्यशक्यत्वात् / तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात्। स चेददे नास्ति, नास्ति श्रुतापत्तिरिति तद्व्युत्पादनानर्थक्यप्रसङ्गः। तस्मात् कार्यात्तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति।। आयोजनात् खल्वपि / न हि वेदादव्याख्यातात् कश्चिदर्थमधिगच्छति / न चैकदेशदर्शिनो व्याख्यानमादरणीयम् / पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम् / . इति न्यायेनानाश्वासात् / त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथार्थप्रत्ययः स्यात् , किमुतातीन्द्रियादन्तरवाक्यसम्भेददुरधिगमात् / ततः सकलवेदवेदार्थदर्शी कश्चिदेवाऽन्युपेयोऽन्यथाऽन्धपरम्पराप्रसङ्गात् / स च श्रुताऽधीतावधूतस्मृतसाङ्गोपाङ्गवेदवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति / को प्रत्यक्षीकृतविश्वतदनुष्ठान एतावानेवायमानाय इति निश्चिनुयात् / कश्चाऽग्टिग् निःशेषाः श्रुतीम्रन्थतोऽर्थतो वाऽधीयीत, अध्यापयेद्धा। अत्रापि प्रयोगः-वेदाः कदाचित् सर्ववेदार्थविद्याख्याताः अनुष्ठातृमति प्रकाशः। पक्षत्वेऽध्येत्राऽस्मदादिनाऽर्थान्तरत्वं, स्वरूपाख्यानपरपुत्रस्तुतिवाक्ये चानैकान्तिकम् / अत्राहुःवैदिकप्रशंसावाक्यानि वेदसमानविषयकतात्पर्यार्थपूर्वकतात्पर्यविषयकाणि सतात्पर्यवाक्यत्वात् लौकिकप्रशंसावाक्यवत् / ___ यदि च वेदे न स्वतन्त्रपुरुषाऽभिप्रायपूर्वकता, तदा भटानां श्रुतार्थापत्त्या शब्दः कल्प्यते इति राधान्तव्याघात इत्याह-अपि चेति / ननु मा भूच्छृतार्थापत्त्या शब्दकल्पनं, योग्यार्थकल्पनयेवो. पपत्तेः। मैवम् / क्रियाकारकपदानामन्योन्योपस्थापिताऽर्थान्वयबोधकत्वनियमव्युत्पत्तेः / अन्यथा गौः कर्मत्वमानयनं कृतिरित्यतोऽपि गामानयेत्यस्मादिवान्वयवोधापत्तेः, पुष्पेभ्य इत्यादौ स्पृहयतीत्यादिशब्दसमभिव्याहारं विना चतुर्थ्यनुपपत्तेश्च / न च स्पृहयतिशब्दार्थयोग एव चतुर्थी साधुः / पुष्पमिच्छतीत्यत्रापि चतुर्थ्यापत्तेः। तथापि स्वयं स्मृतानामेव योग्यासन्नसाकाङ्क्षपदानां श्रुतपदैः सहैकार्थप्रतिपादने तात्पर्यकल्पनं श्रुतार्थापत्तिविषयः स्यादिति चेन / वेदे परस्परसमभिव्याहृतपदानामेकार्थप्रतिपादने तात्पर्योपलब्धेः / तस्य चोच्चारणाभिप्रायान्यतरनियतविषयत्वेनोभयथाऽपि ईश्वरसिद्धिरित्याशयेनाह गत्यन्तराभावादिति। कार्येत्यादिकारिकायां धृत्यादेरित्यपि व्याचष्टे स चेति / श्रुतः-श्रोत्रेण साक्षात्कृतः / अधीतो-ज्ञानविषयार्थः / धृतः-सतताभ्यासेन दृढसंस्कारः / तद्विपरीतो विनैवाध्ययनं ज्ञातसकलाङ्गोपाङ्गवेदार्थः, अध्यापितधारितादिवेदार्थो वा। कदाचिदिति बाधनिरासाय / एकदेशदर्शि प्रकाशिका। एकदेशदर्शीति / पक्षसमेऽपि व्यभिचार इति मतेनेदम् / वस्तुत इदं विशेषणं त्याज्यमेव मकरन्दः / एकदेशदति / नन्वीश्वरव्याख्यानमादाय तस्यापि पक्षसमतया कथमनैकान्तिकम् ,