________________ 5821 पंचमस्तवके] ईश्वरसाधनम् / 'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः। - ममोपि जन्म तत्रैव भूयाद् यत्र गतो भवान् // ' ____ इति, मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम् / न च परं व्यापकमेव, अव्यापकेऽपि तात्पर्यदर्शनात् / तद् यथा-मञ्चाः क्रोशन्तीति पुरुष तात्पर्यम् / न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः। नापि तृतीयः। तद्धि प्रतिपाद्यापेक्षितं, प्रतिपादकापेक्षितं वा स्यात् / नाद्यः शब्दप्रामाण्यस्यातदधीनत्वात् , तथात्वे वाऽतिप्रसङ्गात् / यस्य यदपेक्षितं, तं प्रति तस्य परत्वप्रङ्गात् / तदर्थसाध्यत्वेनाऽपेक्षानियम इति चेत् / न, कार्यशाप्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया पाक्यभेदप्रसङ्गात् / धूमस्य हि प्रदेशश्यामलतामशकनिवृत्याद्यनेक कार्यम् / आन्धनदहनाद्यनेकं ज्ञाप्यम् / तथा चेह प्रदेशे धूमोद्गम इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत् , चेतनापेक्षाया नियन्तुमशक्यत्वात् / नाऽपि प्रतिपादकापेक्षितं, वेदे तदभावात् / __ चतुर्थस्तु स्यात् / यदुद्देशेन यः शब्दः प्रवृत्तः स तत्परः, तथैव लोकव्युत्पत्तेः। तथाहि-प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् / निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद्धानपरम् , एवमन्यत्रापि स्वयमूहनीयम् / तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकरणीयम् , अन्यथा अर्थवादानां सर्वथैवानर्थक्यप्रसङ्गात् / स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव प्राशय इत्यनर्थान्तरमिति तदाधारप्रणेतृपुरुषधौरेयसिद्धिः। तथा च प्रयोगः-वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि प्रशं प्रकाशः। प्रवृत्त्यादावपि तात्पर्यात्तदव्यापकत्वादित्यर्थः / न च यदर्थज्ञानजनकत्वं यस्य, तस्य तत्र तात्पर्यमिति वाच्यम् / धूमोऽस्तीति वाक्यस्याग्निज्ञानाजनकत्वेऽप्यनौ तात्पर्यात्तदव्यापकत्वादिति भावः // तद्धोति / प्रयोजनं न वक्तुः श्रोतुर्वेत्यर्थः। यत्र वक्तुस्तात्पर्य तत्र शब्दस्य प्रामाण्यमिति स्थितेराह शब्देति / अतिप्रसङ्गमेवाह यस्येति / तथाच तात्पर्यभेदेन वाक्यभेदः स्यादिति भावः / तदर्थेति / शब्दस्य योऽर्थस्तस्य यत्साध्यं प्रतिपाद्यस्य चापेक्षितं तत्परं, न तु तदसाध्यमपीत्यर्थः। कार्येति / साध्यं जन्यं ज्ञाप्यं वा ? उभयस्याप्यनेकत्वात् / तथापि तात्पर्यभेदाद्वाक्यभेद एव स्यादित्यर्थः / न च प्रकरणादिना तात्पर्यनियमान्न वाक्यभेदापत्तिः। प्रकरणं हि न साध्यं नियमयति, अशक्यत्वात् / न हि धूमं जिज्ञासमानस्य प्रतीयमानधुमाळूमकेतुप्रतीतिवन्मशकादिनिवृत्तिन भवति, प्रतिपादकाभिप्रायनियमने च सिद्धं वेदस्य सकर्तृकत्वमिति भावः / चेतनेति / एक एवार्थः सर्वेषां चेतनानामपेक्षित इत्यत्र नियामकाभावाद्भिनभिनार्थापेक्षायां तात्पर्यभेदाद्वाक्यभेदः स्यादिति भावः / वेद इति / तव दर्शने इति शेषः / अथैवेति / लोके हि पदानां स्वतन्त्राभिप्रायपूर्वकतया स्वार्थप्रतिपादकत्वदर्शनाद्वेदेऽपि तथात्वं तत्पूर्वकतयैव युज्यते / न च लौकिकशब्देभ्यो वैदिकाः शब्दा अन्ये एवेति लोकमर्यादाऽतिक्रमः स्यात् / यतोऽनेनैव न्यायेन लौकिकानामेव शब्दानामर्थविशेषे शक्ति प्रहाद् वैदिकानां तद्भिन्नत्वादगृहीतशक्तिकत्वादप्रतिपादकत्वप्रसङ्गः / अत एव य एव लौकिकास्त एव वैदिकास्त एव चामीषामर्था इत्याहुरित्यर्थः / ननूद्देश्यत्वं नेच्छाविषयत्वं, किन्तु वस्त्वन्तरमेवे. त्यत आह स चेति / लोके तथैव निश्चयादित्यर्थः / * वैदिकानोति / ननु सर्गाद्यकालीनवैदिकवाक्यपक्षतायामाश्रयासिद्धिः, इदानीन्तनस्य तस्य ६६न्या० कु०