________________ 520 व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ 5 कारिकाव्याख्यायां ईश्वरादिपदं सार्थ लोकवृत्तानुसारतः // 6 // श्राम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती। भूतार्थस्य तु यद्यपि नाहत्य प्रवर्तकत्वं निवर्तकत्वं वा, तथापि तात्पर्यतस्तत्रैव प्रामाण्यम् / तथाहि विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते / प्रशस्ते हि सर्वः प्रवर्त्तते, निन्दिताच निवर्त्तते इति स्थितिः। तत्र पदशक्तिस्तावदभिधा, तद्वलायातः पदाऽर्थः। आकाङ्क्षादिमत्त्वे सति चाऽन्वयशक्तिः पदानां पदार्थानां वा वाक्यं, तबलायातो वाक्यार्थः / तात्पर्यार्थस्तु चिन्त्यते-तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य, तदिदं तत्परम् , तस्य भावस्तत्त्वम् , तद् यद्विषयं, स तात्पर्यार्थ इति स्यात् / तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात् / फलस्य च तत्प्रतिपत्तितोऽन्यस्याभावात् / प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं परमुच्यते इति चेन्न / गङ्गायां घोष इत्यत्र तीरस्याऽप्रवृत्तिनिवृत्तिरूपस्यासाध्यस्थापि परत्वात्। तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति. चेन्न / स्वरूपाख्यानमात्रेणापि पर्यवसानात्। न द्वितीयः / पदवाक्ययोः पदार्थतत्संसौं विहाय प्रतिपाद्यान्तराभावात् / 'पदशक्तिसंसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते' इत्यपि न साम्प्रतम् / न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्य शब्दस्य, अतिप्रसङ्गात् / तदा हि गङ्गायां जलमित्याद्यपि तीरपरं स्यात् , अविनाभावस्य तादवस्थ्यात् / मुख्य बाधके सति तत्तथा स्यादिति चेत् / न तस्मिन्नसत्यपि भावात् / तद् यथा प्रकाशः। पदानां सर्वज्ञे नित्यज्ञाने वेदादेव शक्तिप्रहात् ततोऽपि तत्सिद्धिरित्याह ईश्वरादीति // लोकवृत्तेति // लौकिकदृष्टान्ते व्याप्तिग्रहादित्यर्थः // ___ वृद्धव्यवहारेण कार्यान्विते पदार्थे पदानां शक्तिः कार्यान्वयश्च विधिसमभिव्याहृतस्य साक्षात्, तदसमभिव्याहृतस्य च परम्परयेति मतमाश्रित्याह आम्नायस्येति // भाव्यार्थस्य-साध्यार्थस्य॥ यथा पथ्यं भुक्ष्व अपथ्यं न भुक्ष्व इत्यस्य साक्षात् कार्यान्वयज्ञानात् प्रवर्तकत्व निवर्तकस्वे // भूतार्थस्य-सिद्धार्थस्य // यथा परिणतिसुरसमाम्रफलं परिणतिविरसं पनसमिति वाक्यस्य तद. भावाद् भक्षणाऽभक्षणकार्यत्वे तात्पर्यग्रहात् परम्परया तथात्वमित्यर्थः / तदुपपादयति विधिशक्तिरिति // कार्यत्वज्ञानजननेऽपि प्रवृत्त्यौपयिकं प्रवृत्तिविषयस्यान्यापेक्षया प्राशस्त्यज्ञानं, तद्रूपसहकार्यलाभो विधिशक्तरवसादः, तल्लाभश्चोत्तम्भनम् / तत्सहकारित्वे मानमाह प्रशस्ते हीति // पदार्थवाक्यार्थाभ्यां तात्पर्य भेदयितुं प्रस्तौति तत्रेति // तदेव परं यस्य स्तुत्यादिवाक्यस्येत्यत्र परपदार्थ विकल्पयति साध्यमिति // तदिदमिति // वाक्यमित्यर्थः // . ननु वाक्यार्थस्य वाक्यरूपप्रमाणासाध्यत्वेऽपि तन्निष्ठफलसाध्यतयैव तत्साध्यता स्यादित्यत आह फलस्य चेति // तस्य च द्वितीयविकल्प एव प्रवेशादिति भावः // तीरस्यापीति // साध्यफलभागितया तीरस्यापि साध्यत्वमित्यर्थः // स्वरूपेति // प्रवृत्त्यादौ तात्पर्याभावेऽपि तीरस्य तात्पर्यविषयत्वादित्यर्थः // पदवाक्ययोरिति // स्तुत्यादिवाक्यस्य पदार्थवाक्यार्थभिन्न टिप्पणी। माधयति ईश्वगदोति / आहत्य साक्षात् / सा च प्रवृत्तिश्च, इच्छातः-चिकीर्षातः /