________________ पंचमस्तवके] वरसायनम् / 556 चेन्न / इतरेतराश्रयप्रसङ्गात् / जाते हि स्थूखकार्य तेन परमाम्बाद्यनुमावं, तस्मिन् सति घणुकादिक्रमेण स्थूलोत्पत्तिः। अस्त्वदृष्टादेव परिमाणं कृतमपेक्षाबुद्धयेति चेत्। न / अस्तु तत एव सः, किं दृष्टकारणेनेत्यादेरसमाधेयत्वप्रसङ्गादिति // 5 // / अथवा, कार्येत्यादिकमन्यथा व्याख्यायते उद्देश एव तात्पर्य व्याख्या विश्वदृशः सती। रनाशेन नाश इति भावः // जाते हीति // महत्त्वोत्पत्तेः पूर्व व्यणुकस्याप्रत्यक्षत्वेन लिझाभावादित्यर्थः॥ अत्र कार्यमुद्देश्यत्वम्, उद्देशश्च तात्पर्यम् / तद्विषय एव वेदस्य प्रामाण्यम् / तच्च परिशेषाद्वक्तुरिच्छा / सा च वेदाथै नास्मदादीनामिति तदाश्रयेश्वरसिद्धिरित्याह उद्देश एवेति // वेदस्यायोजनमासमन्ताद्भावेन योजनं व्याख्यानम् / तच्चास्मदादीनां सर्ववेदादर्शिनां न निष्कम्पप्रवृत्तिहेतुरिति तव्याख्यातृतयेश्वरसिद्धिरित्याह / व्याख्येति // ईश्वरादि प्रकाशिका। पदार्थगोचरतात्पर्यमादायार्थान्तरमिति वेदसमानविषयकत्वं द्वितीयतात्पर्यविशेषणं, तच्च वैदिकवाक्यार्थगोचरत्वम् / न चैवं लौकिकवाक्ये व्यभिचारः, समभिव्याहृतवाक्यपरस्वाद्वेदपदस्य हेतौ च सतात्पर्यकपदं वाधितार्थकशुकवाक्ये व्यभिचारवारणाय प्रमाणवाक्यस्य सर्वस्य पक्षसमत्वाचेति ध्येयम् / तादृशेति। तथा च धृत्यादेरित्यत्र धृतिपदेन वेदधारकत्वं युक्तमिति, तदाश्रयेश्वरसिद्धिरिति भावः / / मकरन्दः। अध्यापकतात्पर्यविषयत्वेनार्थान्तरमत उक्तं तात्पर्यापूर्वकेति तात्पर्यविशेषणम् / तात्पर्यविषयकाणीत्यत्र तात्पर्यविषयों विषयो यस्येति मध्यपदलोपी समास इत्याहुः / न च हेतौ सतात्पर्यकपदं व्यर्थम् , ईश्वरतात्पर्यमादाय वाक्यमात्रस्य पक्षसमत्वेन व्यभिचाराभावादिति वाच्यम् / बाधितार्थके तत्तात्पर्याभावेन व्यभिचारसम्भवात् / ___ सा चेतीति / तथा च धृत्यादेरित्यनेन वेदधारकत्वादिकमुक्तमिति तदाश्रयेश्वरसिद्धिरिति भावः। . - मीमांसकमुद्दिश्य प्रकारान्तरमाह अथवेति / उद्देश एवेत्यादि / तथाच वेदै यस्य तात्पर्य स एवेश्वरः सिष्यति / इदं तु तात्पयेवतीश्रुतिः प्रत्यक्षादलीयसी न श्रुतिमात्रम् , अन्यथाऽर्थवादस्थले प्रमाणान्तरविरुद्धोऽप्यर्थः सिध्येदिति यजमानः प्रस्तर इत्यादिश्रुतिवलात् यजमानादेः प्रस्तरादिरूपताऽपि स्यात् , तात्पर्यवत्या एव श्रुतेः प्रावल्योपगमे तु यजमानादौ प्रस्तराद्यभेदबोधने श्रुतेस्तात्पर्याभावान्न प्रावल्यं किंतु प्रत्यक्षस्यैवेति न काचिदापत्तिरनुपपत्तिवेत्या. चार्यवाचस्पतिमिश्राणाम्मतमनुसरति / मायोजनपदं व्याख्याति व्याख्यति / नत्वेवं सर्वज्ञानाकारस्य प्रदीपवत्सर्वार्थत्वयोतिनः ऋग्वे. दादेरल्पज्ञाजीवात् व्याख्या सती समीचीना भवितुमहतीत्यतस्तद्वयाख्यातृतया विश्वदृशः सर्वज्ञस्य ईश्वरस्य सिद्धिः / एवं तत्कारिकाघटकधृत्यादेरित्यत्र धृतिर्धारणम् अध्ययनम् वेदाध्ययनम् स्वतन्त्रपुरुषप्रयोज्यम् शिष्टैरनुष्ठीयमानत्वात् इत्यनुमानेन साध्यघटकतयेश्वरः सिध्यति। धृत्यादेरित्यादिपदेनोपासनं संगृह्यते,तथाच ईश्वरोपासनंसद्विषयकं शिष्टैरनुष्ठीयमानत्वादित्यनुमानेनेश्वरसिद्धिः। पदादीश्वरं