________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाअलौ [ 5 कारिकाव्याख्यायां बुद्धिः परमाणुषु सम्भवति। तद् यस्यासौ सर्वज्ञः। अन्यथा अपेक्षाबुद्धरभावात् संख्याऽनुत्पत्तौ तद्गतपरिमाणानुत्पादेऽपरिमितस्य द्रव्यस्यानारम्भकत्वात् व्यणुकानुत्पत्तौ विश्वानुत्पत्तिप्रसङ्गः। अस्मदादोनामेवाऽऽनुमानिक्यपेक्षाबुद्धिरस्त्विति प्रकाशः। महत्त्वत्वात् परिमाणत्वाद्वेति चेत् / न / प्रसिद्धद्वित्वबहुत्वजन्यत्वे साध्ये सिद्धसाधना , अप्रसिद्ध तनिषेधे साध्याप्रसिद्धेरिति संख्यैव तज्जनिकेति वयम् / साम्प्रदायिकास्तु-द्वयणुकपरिमाणासमवायिकारणताप्राहकं मानं यद्यणुपरिमाणं विषयीकुर्यात् तदा परिमाणद्वयासमवायिकारणत्वे गौरवमिति द्वित्वमेकं विषयीकरोति / यद्वा एकत्वस्य परिमाणानारम्भकरवे सजातीयनिरूपितोत्कर्षानाश्रयत्वं प्रयोजकम् , तच्च परमाणुपरिमाणेऽपि तुल्यमित्याहुः। ऋजवस्तु-कारणपरिमाणवत कारणानेकवृत्तिसंख्याऽप्यन्वयायनुविधानात् परिमाणहेतुः / प्रन्थस्तु संख्यानिरपेक्षपरिमाणकारणत्वनिषेधपर इति समादधुः // तद् यस्यासाविति // ईश्वरापेक्षाबुद्धेर्नित्यत्वेनाविनाशेऽपि तदुत्पादितद्वित्वादेनिमित्तान्त प्रकाशिका। प्रसिद्धति / एतच्च सामान्यलक्षणानभ्युपगन्तृपरमतेन दूषणं स्वमतीत्वप्रयोजकत्वे तात्पर्य्यमिति / केचित्त वस्तुतः सामान्यलक्षणानम्रपगमेपि न तयालीकस्यापि सिद्धिरिति यथाश्रुतमेव सम्यगितिप्रतिभाति / साम्प्रदायिकास्विति / अत्रेदमरुचिवीजम्-ईश्वरासिद्धिदशायां परमाणुवृत्तिद्वित्वमसिद्धं परिमाणश्च सिद्धमिति क्लुप्तकल्पनालाघवेन परिमाणमेव कारणमुचितमिति मन्तव्यम् / यद्वेति / अत्रापि परमाणोरणुतमत्वात्तत्परिमारणेपि सजातीयनिरूपितोत्कर्षाश्रयत्वमस्त्येवेत्यरुचिबीजमिति केचित् / तदयुक्तम् उत्कर्षो यत्राधिकदेशव्यापकत्वं न तु तारतम्यं द्वित्वादावभावात् , तदभावस्य च सजातीयापेक्षया परमाणुपरिमाणे एकत्वे च समानत्वादिति / इदन्त्वरुचिबीज परिमाणजनकतावच्छेदकरूपाभाव एव एकत्वस्य परिमाणानारम्भप्रयोजकः, अन्यथा विभागादेरपि तदारम्भकतापत्तेः जनकतावच्छेदकञ्चावयववृत्त्यनेकवृत्तिसंख्यात्वमेवेति / ऋजवस्त्विति / अत्रोभयहेतुकल्पनेमानाभावः / न चावयवानेकवृत्तिसंख्यात्वमवयवपरिमाणत्वश्च परिमाणजनकतावच्छेदक मित्येव मानमिति वाच्यम् / तथा सत्यणुत्तमत्वापत्तेरुक्तादित्यरुचिवीजम् / त्वनिमित्तान्तरमदृष्टं वेदसमानविषयकेत्यादितात्पर्यविषयकत्वं तात्पर्यविषयविषयकत्वं तावन्मात्रे च साध्ये अध्यापकतात्पर्येणार्थान्तरमिति तात्पर्यापूर्वकत्वं तात्पर्यविशेषणम् तथाप्यस्मदादेरेव स्वतन्त्रं मकरन्दः। प्रसिद्धति / एतच्च सामान्यलक्षणाभ्युपगन्तृमते दुषणम् / स्वमते स्वप्रयोजकत्वमित्यत्र तात्पर्यम् / साम्प्रदायिकास्त्विति / न चेश्वरासिद्धिदशायां द्वित्वस्य कल्पनीयतया धर्मिकल्पनात इति न्यायेन परिमाणमेव विषयीकरोतीति वाच्यम् / मानान्तरेणेश्वरस्य साधितत्वात् तदवष्टम्भेनेदमित्येके। अत्र कल्पेऽस्वरस एवायमित्यन्ये। परमाणोरणुतरत्वात् तत्परिमाणेऽपि सजातीयनिरूपितोत्कर्षाश्रयस्वमस्त्येवेत्यस्वरसादाह इत्याहुरिति / उभयहेतुत्वे मौरवमित्यस्वरसमाविस्करोति ऋजवस्त्विति / निमित्तान्तरम् - अदृष्टादि / वेटसमानविषयकेत्यादि। अत्र वेदपदं स्वपरं, तेन लौकिकप्रशंसाचाक्ये न व्यभिचारः /