________________ पंचमस्तवके ईश्वरसाधनम् / ...... परिशिष्यते / सा अपेक्षाबुद्धिजन्या, अनेकसंख्यात्वात् / न चास्मदादीनामपेक्षा प्रकाशः। ऽनियतहेतुकताऽऽपत्तेश्च / महत्त्वावान्तरजातिकल्पने गौरवम् / बहुत्वकल्पनञ्च प्रामाणिकम् / एवं ध्यणुकपरिमाणं न महत्त्वजनकम् अणुपरिमाणत्वात् परमाणुपरिमाणवत् , अन्यथा तस्य महत्त्वजनकत्वे घणुकस्यापि महत्त्वप्रसङ्गः, किन्त्ववयवबहुत्वं, परिमाणप्रचयाजन्यमहत्त्वे अवयवबहुत्वेन कारणत्वकल्पनात् / एवं दयणुकपरिमाणं नाणुपरिमाणजन्यं परिमाणत्वाद् , अणुपरिमाणत्वाद्वा / परमाणुपरिमाणं न परिमाणजनकम् अणुपरिमाणत्वाद् द्वथणुकपरिमाणवत / यत्तु नित्यपरिमाणत्वान्न तज्जनकं व्योममहत्त्ववदिति / तन्न, अवयव नित्यपरिमाणस्य जनकस्वाभ्युपगमात् / अन्यथा नित्यवृत्तिसंख्याया अप्यजनकत्वापत्तेः। अतो यणुकपरिमाणं संख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वादित्यवयवबहुत्वाभावाद् द्वित्वमेव तज्ज. नकम् / यदि च द्वथणुकव्यणुकपरिमाणं परिमाणजन्यं स्यात् , तदा कारणपरिमाणापेक्षया उत्कृष्टं स्यान्महज्जन्यमहत्तरमहत्तमवदित्यणुपरिमाणतरतमत्वापत्तिः / उत्कर्षश्च न कारणपरिमाणाऽपेक्षयाsधिकदेशत्वं, येनेष्टापत्तिः स्यात् , किन्तु तरबन्तकारणपरिमाणवाचकवाच्यत्वं, तत्प्रवृत्तिनिमित्तजातिमत्त्वं वा। .. ननु परमाणुद्विस्वं न परिमाणजनकं नित्यवृत्तिसंख्यात्वाद्, अणुवृत्तिद्वित्वत्वादा, व्योमद्वथणुकवृत्तिद्विस्ववत् / एवं द्वथणुकवृत्तिबहुत्वं न परिमाणजनकम् , अवयववृत्तिबहुत्वात् , परमाणुबहुत्ववत् / यथा त्र्यणुकमहत्त्वस्याणुजन्यस्वे द्वथणुकस्यापि महत्त्वप्रसङ्गः, तथाऽणुवृत्तिसं. ख्याजन्यत्वेऽपि द्वथणुकस्य महत्त्वप्रसङ्गः। यथा च परिमाणस्य स्वोत्कृष्टपरिमाणजनकत्वादणुतरत्वप्रसङ्गः तथा संख्याया अपि समानाधिकरणपरिमाणोत्कृष्टपरिमाणारम्भकत्वप्रसङ्गः / ___ मैवम् / सर्गादौ परमाणुवृत्तिद्वित्वबहुत्वयोरसिद्धावाश्रयासिद्धः, सिद्धौ वा धर्मिप्राहकमानबाधात् / अथ द्वथणुकपरिमाणं न द्वित्वजन्यं परिमाणत्वात् , त्र्यणुकमहत्त्वं नाणुवृत्तिबहुत्वजन्यं प्रकाशिका। व्यभिचारादित्यर्थः / परिमाणप्रचयजन्यमहत्वेति / परिमाणप्रचयाजन्यमहत्व इत्यर्थे यथाश्रुते कल्पनास्थलाभावात् / एवं दयणुकपरिमाणमिति / विपक्षबाधकन्तु अणुतमत्वापत्तिः पूर्वमुतैवेति द्रष्टव्यम् / अतो व्यणुकपरिमाणमिति / अत्र हेतौ प्रचयपदानन्तरं . मात्रपदं पूरणीयम् , तेन कपालत्रयारब्धघटपरिमाणं दृष्टान्तः, अन्यथा दृष्टान्तालाभात् / यद्वा व्यणुकपरिमाणस्य परिमाणाजन्यत्वे सिद्धे प्रयोगोयमिति तदेव दृष्टान्तमुपादाय यथाश्रुत एव तत्र हेतुः / विपक्षबाधकमाह यदि चेति / अणुवृत्तिद्वित्वत्वादिति / अत्राणुवृत्तिपदं स्पष्टार्थम् / अवयववृत्तीति / अवयवपदमणुपरं तेन कपालादिबहुत्वस्य घटादिपरिमाणारम्भकतया न व्यभिचारः / यदि च बहुत्वस्य क्वचिदपि न परिमाणजनकत्वमिति पूर्वपक्षितुराशय इति नोक्तव्य भिचारः, तदावयवपदं स्पष्टार्थमेवेति मन्तव्यम् / उक्ताश्रयासिद्धिभिया परिमाणं पक्षयति अथेति / मकरन्दः। अणुवृत्तिद्वित्वत्वादेति / अत्राणुवृत्तिपदं स्फुटार्थम् / अवयववृत्तिबहुत्वादिति / अत्रापि वृत्त्यन्तं स्फुटार्थम् / अन्यत्रापि बहुत्वस्य तज्जनकत्वानभ्युपगमादित्येके। अवयवपदमणुपरं तुल्यपरिमाणाधिकसंख्यारम्धे महत्त्वोत्कर्षेण तस्य तज्जनकरवे व्यभिचारादित्यन्ये / आश्रयासिद्ध्यादिपरिहाराय परिमाणं पक्षयति अथेति /