________________ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जला [ 5 कारिकाव्याख्यायां त्वस्य तद्धेतुत्वात्। अन्यथा द्वाभ्यां त्रिभिश्चतुर्भिरित्यनियमेनाप्यण्वारम्भे तद्वैयर्थ्यप्रसङ्गात् / अणुन एव तारतम्याभ्युपगमस्तु संख्यामवधीर्य न स्यात् / अस्तु महदारम्भ एव त्रिभिरिति चेन्न / न, महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमात् / तथापि वा तारतम्ये संख्यैव प्रयोजिकेति। न च प्रचयोऽपेक्षणीयोऽवयवसंयोगस्याभावात्। तस्मात् परिमाणप्रचयौ महत एवारम्भकाविति स्थितिः। अतोऽनेकसंख्या - प्रकाशः। व्यणुककार्यवत् परमाणुत्रयारब्धस्यापि बहुत्वहेतुकमहत्त्वोत्पादापत्तिरित्यर्थः / ननु परमाणुद्रया. रब्धस्येवाणुत्रयारब्धस्याणुत्वमेव स्यादित्यत आह अन्यथेति। तथा सति त्रित्वादिसंख्यावैयापत्तिरणुद्वयारब्धापेक्षया तद्विशिष्टारब्धे विशेषाभावादित्यर्थः / प्रत्येक व्यभिचारादकारणस्वञ्च स्यादिति भावः / नन्वणूनां संख्यावैचित्र्यमणुपरिमाणतारतम्यमेदसम्पादनोपयोगि, परिमाणेऽवान्तरकारणभेदव्यङ्ग्यजातिभेदाच्च न व्यभिचार इत्यत आह अणुन एवेति / तथापि तारतम्ये संख्यैव प्रयोजिका, संख्याभेदं विना समुदाये भेदकान्तराभावादित्यर्थः। परमाणुकार्यस्य महत्त्वप्रसङ्ग इत्यत्रेष्टापत्तिमाह अस्त्विति / त्रिभिः परमाणुभिरित्यर्थः / महत इति / अनन्यथासिद्धान्वयव्यतिरेकाभ्यां तथैव कारणत्वनिर्णयादित्यर्थः। ननु ध्यणुकादिपरिमाणस्य परिमाणाजन्यत्वेऽपि प्रचयजन्यत्वं स्यात् , तस्यापि महत्त्वे कारणत्वादित्यत आह न चेति / अतोऽनेकेति / अत्रेदं तत्त्वम् / व्यणुकमहत्त्वं न परिमाणजन्यं संख्याप्रचयाजन्यमहत्त्वं प्रत्यवयवमहत्त्वेन कारणत्वात् / न त्ववयवपरिमाणत्वेन, परमाणुपरिमाणाद् घणुके महत्त्वापत्तेः / नापि जन्याऽवयवपरिमाणत्वेन, गौरवात् / नापि जन्याणुत्वेन, तथाऽदर्शनात् / महत्त्वविशेषे प्रकाशिका। . समानपरिमाणकपालद्वयारब्धघटापेक्षया समानपरिमाणकपालत्रयारब्धघटे. महत्त्वप्रकर्षदर्शनात् संख्यापि कारणमित्यर्थः / न च तींत एव बाधकात्रिभिः परमाणुभिद्वर्थणुकारम्भ इति वाच्यम् / परिमाणस्य स्वापेक्षयोत्कृष्टपरिमाणजनकतया द्वथणुकत्र्यणुकयोरणुतमत्वापत्या नाणुपरिमाणं परिमाणजनकमित्यग्रे वक्ष्यमाणत्वात् / ननु परिमाणदयेति / महत्वसमानाधिकरणाया एव बहुत्वसंख्याया महत्वजनकत्वमिति भावः / ननु न वैयर्थं द्वित्वत्रित्वादीनां कारणतावच्छेदकत्वादित्यत आह प्रत्येकमिति / संख्यैष प्रयोजिकेति / तथा च संख्यायां अणुपरिमाणजनकत्वे सिद्ध ईश्वर इति भावः / परमाणुकार्यस्येति / यद्यपि पूर्व द्वयणुके महत्वप्रसङ्गः कृतः, तथापि द्वथणुकेऽपि परमाण्वारभ्यत्वं नियम्यमिति तत्रैव इष्टापादनाशङ्केति भावः / ननु यथा नित्यवृत्तिपरिमाणस्याणुपरिमाणस्य वाऽजनकत्वम् तथा नित्यवृत्तिईश्वरवृत्तिसंख्ययोरपि न जनकत्वमित्याश येनाह अत्रेदन्तत्वमिति / नन्विति / न च महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न द्वथणुके महत्वमिति वाच्यम् / नित्यस्य स्वरूपयोग्यत्वात्फलावश्यम्भावनियमात् / गौरवादिति / जन्यत्वविशेषणप्रवेशेनेति भावः / महत्वविशेष इति / प्रचयशून्यावयवद्वयारब्धघटादिपरिमाणे मकरन्दः। तन जनक, तथा नित्यवृत्तिसंख्यात्वादिना बहुत्वसंख्याऽपि जनिका न स्यात् , न च ध्यणुकस्य महत्त्वप्रसङ्गः, कार्य्यस्य महतः कार्य्यद्रव्यारभ्यत्वनियमादित्याशयेनाह अत्रेदं तस्वमिति / न त्विति / यद्यपि महतः कार्यस्य कार्यद्रव्यारभ्यत्वनियमादेव न घ्यणुके महत्त्वापत्तिः, तथापि नित्यस्य तस्य स्वरूपयोग्यत्वे फलावश्यम्भावापत्तिरित्यत्र तात्पर्यम् / . महत्त्वविशेषे इति / प्रचयशून्यावयवद्वयारब्धघटादिमहत्त्वे व्यभिचारादित्यर्थः /