________________ पंचमस्तवके ] ईश्वरसाधनम् / कारणबहुत्वेन महत्त्वे अणुपरिमाणस्यानारम्भकत्वस्थिते। अणुत्वमेव महदारम्भ विशेष इत्यपि न युक्तम् / महतो महदनारम्भप्रसङ्गात् / अणुत्वमहत्त्वयोबिरुद्धतया एकजातीयकार्यानारम्भकत्यप्रसङ्गात् / बहुभिरपि परमाणुभिर्दाभ्यामपि व्यणुकाभ्यामारम्भप्रसङ्गाच्च / एवं सति को दोष इति चेत् / परमाणुकार्यस्य महत्त्वप्रसङ्गः। कारणबहु. प्रकाशः। ऽभ्युपगमाच्च, अन्यथा नित्यवृत्तिसङ्ख्याया अप्यजनकत्वापत्तेः / तथापि प्रमाणबलेन मनसोऽ. णत्वं साधयिष्यामीति तत्परिमाणमेच दृष्टान्त इति भावः / अन्यथेति / कालादिमनसां परिमाणस्य परिमाणजनकत्वे तैर्द्रव्यद्रव्यानारम्भादनाश्रयपरिमाणं जायतेत्यर्थः / बाधकान्तरमाह घणुकस्येति / अणुपरिमाणं यदि व्यणुके महत्त्वारम्भकं, यजुकेऽपि स्यादविशेषादिस्यर्थः / व्यणुकेऽपि वा घणुकवदणुत्वापत्तिरिति भावः / यदि व त्र्यणुक्रमहत्त्वारम्भकं बहुत्वं, तदा तत्रैवाणुत्वमनादृत्य बहुत्वसङ्ख्याया आरम्भकत्वसिद्धेय॑णुकपरिमाणस्यानारम्भकत्वं सिद्धमित्याह तत्रेति / ननु यणुकपरिमाणे काचिज्जातिरस्ति तद्विशिष्टाणुत्वं महत्त्वजनकमिति नोक्तदोष इत्यत आह अणुत्वमेवेति / एवं हि महत्त्वं महत्त्वारम्भकं न स्वायभिचारेण कारणत्वाभावादित्यर्थः / यद्वा किमणुत्वं महत्त्वमेव जनयति, कचिदणुत्वमपि वा ? तत्राद्यमाशङ्कय दूषयति अणुत्वमेवेति / अन्त्यं दूषयति अणुत्वमहत्त्वयोरिति / अणुत्वमहत्त्वयोर्विरुद्धजातीयतयाऽन्योन्यपरिहारेण स्थितेर्व्यभिचारान्नैकमप्यारम्भकं स्यादित्यर्थः / ननु कारणभेदात् कार्यभेदः स्यादित्यत आह बहुभिरपोति / यदि न संख्या कारणं, किन्त्वणु. परिमाणमिति शेषः / परमाणुकार्यस्येति / कारणबहुत्वस्याप्यन्यत्र महत्त्वहेतुत्वकल्पनाद् प्रकाशिका। तादशस्यापि अणुपरिमाणत्वेनाजनकतया न दृष्टान्तत्वं तत्राह अन्यथेति / किमणुत्वमिति एवकारोऽत्र भिन्नक्रमः तया च किमणुत्वमेवेत्यर्थः / तेन महतो महदनारम्भप्रसङ्गादिति मूलसङ्गतिः / कचिदणुत्वमपि वेति / क्वचिदणुत्वं क्वचिच्च महत्वं महत्त्वजनकत्वमिति विकल्पार्थः / न नु तृणारणिमणिवत् कार्यवेजात्यान्न व्यभिचारः, अन्यथा संख्याहेतुत्वेऽपिका गतिरित्याह नन्विति / यदि नेति / यद्यपि संख्याकारणत्वेऽप्ययं प्रसङ्गः सम्भवी, तथापि परमाणुभिवणुकस्य द्वयणुकाभ्यां ध्यणुकस्यारम्भप्रसङ्गो बोध्यः / न चाणुपरिमाणद्वयत्वेन दूधणुकाणुत्वजनकत्वमणुपरिमाणत्रयत्वेन च व्यणुकमहत्वजनकत्वं स्यादिति वाच्यम्। तथासत्यावश्यकतया द्वित्वत्रित्वयोरेव जनकत्वात् परमा गुभिस्त्रयणुकारम्भे वाधकं वक्ष्यतीति / ननु परमाणुपरिमाणं महत्वाजमकमेव संख्या तु तन्मते परि. माणाजनिकैवेति कथं परमाणुत्रयारब्धव्यणुके महत्वापत्तिरित्यत आह कारणबहुत्वस्यापीति / मकरन्दः। यदि च तारशस्यापि नित्यपरिमाणत्वेनैवाजनकत्व मिति दृष्टान्तत्वं तत्राह अन्यथेति / यद्यप्येतद्रूषणं मनःपरिमाणदृष्टान्तस्वपक्षेऽपि, तथापि तदने परिहरिष्यतीति ध्येयम् / किमणुत्वमिति / एवकारोऽत्र भिन्नक्रमः / तेन किमणुत्वमेव महत्त्वं जनयतीत्यर्थः / तथा च महता महदनारम्भप्रसङ्गादिति घटते / मूलस्वरसोऽप्येवमेवेति केचित् / तृणारणिमणिवत् कार्यभेदान्न व्यभिचारः, अन्यथा सङ्ख्याहेतुत्वपक्षे का गतिरित्याह नन्विति / यदि नेति / यथपि सङ्खथाकारणस्वपक्षेऽपि तत्र प्रसङ्गस्तुल्यः, तथापि परमाणुभिनार्थकस्य घणुकाभ्यां न्यणुकस्यारम्भप्रसङ्गो बोध्यः / परिमाणद्वयत्वादिना कारणस्वे द्विस्वादेरेवावश्यकस्य .कारणत्वात् / परमाणुभिस्तु महदारम्मे बाधकं वक्ष्यतीति / ननु यथा नित्यपरिमाणत्वादिना